सत्यवत्यास्त्वनुमते विवाहे समुपस्थिते। उवाच वाक्यं सव्रीडा ज्येष्ठा काशिपतेः सुता
भीष्म त्वमसि धर्मज्ञः सर्वशास्त्रविशारदः । श्रुत्वा च वचनं धर्म्यं मह्यं कर्तुमिहार्हसि
मया साल्वपत्तिः पूर्वं मनसाऽभिवृतो वरः। तेन चास्मि वृता पूर्वं रहस्यविदिते पितुः
कथं मामन्यकामां त्वं राजधर्ममतीत्य वै । वासयेथा गृहे भीष्म कौरवः सन्विशेषतः
एतद्बुद्ध्या विनिश्चित्य मनसा भरतर्षभ । यत्क्षमं ते महाबाहो तदिहारब्धुमर्हसि
स मां प्रतीक्षते व्यक्तं साल्वराजो विशांपते । तस्मान्मां त्वं कुरुश्रेष्ठ समनुज्ञातुमर्हसि
कृपां कुरु महाबाहो मयि धर्मभृतां वर। त्वं हि सत्यव्रतो वीर पृथिव्यामिति नः श्रुतम्
ततोऽहं समनुज्ञाप्य कालीं गन्धवतीं तदा। मन्त्रिणश्चर्त्विजश्चैव तथैव च पुरोहितान्। समनुज्ञामिषं कन्यामम्बां ज्येष्ठां नराधिप
अनुज्ञाता ययौ सा तु कन्या साल्वपतेः पुरम्। वृद्धैर्द्विजातिभिर्गुप्ता धात्र्या चानुगता तदा
अतीत्य च तमध्वानमासमाद नराधिपम । सा तमासाद्य राजानं साल्वं वचनमब्रवीत्
आगताहं महाबाहो त्वामुद्दिश्य महामते। `अभिनन्दस्व मां राजन्सदा प्रियहिते रताम्
प्रतिपादय मां राजन्धर्मादींश्चर धर्मतः । त्वं हि मे मनसा ध्यातस्त्वया चाप्युपमन्त्रिता
तामब्रवीत्साल्वपतिः स्मयन्निव विशांपते। त्वयाऽन्यपूर्वया नाहं भार्यार्थी वरवर्णिनि
गच्छ भद्रे पुनस्तत्र सकाशं भीष्मकस्य वै। नाहमिच्छामि भीष्मेण गृहीतां त्वां प्रसह्य वै
त्वं हि भीष्मेण निर्जित्य नीता प्रीतिमती तदा। परामृश्य महायुद्धे निर्जित्य पृथिवीपतीन्
नाहं त्वय्यन्यपूर्वायां भार्यार्थी वरवर्णिनि । कथमस्मद्विधो राजा परपूर्वां प्रवेशयेत्
नारीं विदितविज्ञानः परेषां धर्ममादिशन्। यथेष्टं गम्यतां भद्रे मा त्वां कालोऽत्यगादयम्
अम्बा तमब्रवीद्राजन्ननङ्गशरपीडिता। नैवं वद महीपाल नैतदेवं कथंचन
नास्मि प्रीतिमती नीता भीष्मेणामित्रकर्शन । बलान्नीतास्मि रुदती विद्राव्य पृथिवीपतीन्
भजस्व मां साल्वपते भक्तां बालामनागसम् । भक्तानां हि परित्यागो न धर्मेषु प्रशस्यते
साहमामन्त्र्य गाङ्गेयं समरेष्वनिवर्तिनम् । अनुज्ञाता च तेनैव ततोऽहं भृशमागता
न स भीष्मो महाबाहुर्मामिच्छति विशांपते । भ्रातृहेतोः समारम्भो भीष्मस्येति श्रुतं मया
भगिन्यौ मम ये नीते अम्बिकाम्बालिके नृप। प्रादाद्विचित्रवीर्याय गाङ्गेयो हि यवीयसे
यथा साल्वपते नान्यं वरं यामि कथंचन। त्वामृते पुरुषव्याघ्र तथा मूर्धानमालभे
न चान्यपूर्वा राजेन्द्र त्वामहं समुपस्थिता। सत्यं ब्रवीमि साल्वैतत्सत्येनात्मानमालभे
भजस्व मां विशालाक्ष स्वयं कन्यामुपस्थिताम्। अनन्यपूर्वां राजेन्द्र त्वत्प्रसादाभिकाङ्क्षिणीम्
तामेवं भाषमाणां तु साल्वः काशिपतेः सुताम्। अत्यजद्भरतश्रेष्ठ जीर्णां त्वचमिवोरगः
एवं बहुविधैर्वाक्यैर्याच्यमानस्तया नृपः । नाश्रद्दधत्साल्वपतिः कन्यायां भरतर्षभ
ततः सा मन्युनाऽऽविष्टा ज्येष्ठा काशिपतेः सुता। अब्रवीत्साश्रुनयना बाष्पविप्लुतया गिरा
त्वया त्यक्ता गमिष्यामि यत्र तत्र विशांपते। तत्र मे गतयः सन्तु सन्तः सत्यं यथा ध्रुवम्