ततस्ते मां महीपालाः सर्व एव विशां पते। रथव्रातेन महता सर्वतः पर्यवारयन्
तानहं शरवर्षेण समन्तात्पर्यवारयम् । सर्वान्नृपांश्चाप्यजयं देवराडिव दानवान्
अपातयं शरैर्दीप्तैः प्रहसन्भरतर्षभ । तेषामापततां चित्रान्ध्वजान्हेमपरिष्कृतान्
एकैकेन हि बाणेन भूमौ पातितवानहम् । हयांस्तेषां गजांश्चैव सारथींश्चाप्यहं रणे
ते निवृत्ताश्च भग्नाश्च दृष्ट्वा तल्लाघवं मम। `प्रणिपेतुश्च सर्वे वै प्रशशंसुश्च पार्थिवाः
तत आदाय ताः कन्या नृपतींश्च विसृज्य तान्।' अथाऽहं हास्तिनपुरमायां जित्वा महीक्षितः
ततोऽहं ताश्च कन्या वै भ्रातुरर्थाय भारत। तच्च कर्म महाबाहो सत्यवत्यै न्यवेदयम्
ततोऽहं भरतश्रेष्ठ मातरं वीरमातरम् । अभिगम्योपसंगृह्य दाशेयीमिदमब्रुवम्
इमाः काशिपतेः कन्या मया निर्जित्य पार्थिवान् । विचित्रवीर्यस्य कृते वीर्यशुल्का हृता इति
ततो मूर्धन्युपाघ्राय पर्यश्रुनयना नृप। आह सत्यवती हृष्टा दिष्ट्या पुत्र जितं त्वया
सत्यवत्यास्त्वनुमते विवाहे समुपस्थिते। उवाच वाक्यं सव्रीडा ज्येष्ठा काशिपतेः सुता
भीष्म त्वमसि धर्मज्ञः सर्वशास्त्रविशारदः । श्रुत्वा च वचनं धर्म्यं मह्यं कर्तुमिहार्हसि
मया साल्वपत्तिः पूर्वं मनसाऽभिवृतो वरः। तेन चास्मि वृता पूर्वं रहस्यविदिते पितुः
कथं मामन्यकामां त्वं राजधर्ममतीत्य वै । वासयेथा गृहे भीष्म कौरवः सन्विशेषतः
एतद्बुद्ध्या विनिश्चित्य मनसा भरतर्षभ । यत्क्षमं ते महाबाहो तदिहारब्धुमर्हसि
स मां प्रतीक्षते व्यक्तं साल्वराजो विशांपते । तस्मान्मां त्वं कुरुश्रेष्ठ समनुज्ञातुमर्हसि
कृपां कुरु महाबाहो मयि धर्मभृतां वर। त्वं हि सत्यव्रतो वीर पृथिव्यामिति नः श्रुतम्
ततोऽहं समनुज्ञाप्य कालीं गन्धवतीं तदा। मन्त्रिणश्चर्त्विजश्चैव तथैव च पुरोहितान्। समनुज्ञामिषं कन्यामम्बां ज्येष्ठां नराधिप
अनुज्ञाता ययौ सा तु कन्या साल्वपतेः पुरम्। वृद्धैर्द्विजातिभिर्गुप्ता धात्र्या चानुगता तदा
अतीत्य च तमध्वानमासमाद नराधिपम । सा तमासाद्य राजानं साल्वं वचनमब्रवीत्
आगताहं महाबाहो त्वामुद्दिश्य महामते। `अभिनन्दस्व मां राजन्सदा प्रियहिते रताम्
प्रतिपादय मां राजन्धर्मादींश्चर धर्मतः । त्वं हि मे मनसा ध्यातस्त्वया चाप्युपमन्त्रिता
तामब्रवीत्साल्वपतिः स्मयन्निव विशांपते। त्वयाऽन्यपूर्वया नाहं भार्यार्थी वरवर्णिनि
गच्छ भद्रे पुनस्तत्र सकाशं भीष्मकस्य वै। नाहमिच्छामि भीष्मेण गृहीतां त्वां प्रसह्य वै
त्वं हि भीष्मेण निर्जित्य नीता प्रीतिमती तदा। परामृश्य महायुद्धे निर्जित्य पृथिवीपतीन्
नाहं त्वय्यन्यपूर्वायां भार्यार्थी वरवर्णिनि । कथमस्मद्विधो राजा परपूर्वां प्रवेशयेत्
नारीं विदितविज्ञानः परेषां धर्ममादिशन्। यथेष्टं गम्यतां भद्रे मा त्वां कालोऽत्यगादयम्
अम्बा तमब्रवीद्राजन्ननङ्गशरपीडिता। नैवं वद महीपाल नैतदेवं कथंचन
नास्मि प्रीतिमती नीता भीष्मेणामित्रकर्शन । बलान्नीतास्मि रुदती विद्राव्य पृथिवीपतीन्
भजस्व मां साल्वपते भक्तां बालामनागसम् । भक्तानां हि परित्यागो न धर्मेषु प्रशस्यते