देवव्रतत्वं विज्ञाप्य पृथिवीं सर्वराजसु । नैव हन्यां स्त्रियं जातु न स्त्रीपूर्वं कदाचन
स हि स्त्रीपूर्वको राजञ्शिखण्डी यदि ते श्रुतः । कन्या भूत्वा पुमाञ्चातो न योत्स्ये तेन भारत
सर्वांस्त्वन्यान्हनिष्यामि पार्थिवान्भरतर्षभ । यान्समेष्यामि समरे न तु कुन्तीसुतान्नृप
किमर्थं भरतश्रेष्ठ नैव हन्याः शिखण्डिनम् । उद्यतेषुमथो दृष्ट्वा समरेष्वाततायिनम्
पूर्वमुक्त्वा महाबाहो पाञ्चालान्सह सोमकैः । हनिष्यामीति गाङ्गेय तन्मे ब्रूहि पितामह
श्रृणु दुर्योधन कथां सहैभिर्वसुधाधिपैः । यदर्थं युधि संप्रेक्ष्य नाहं हन्यां शिखण्डिनम्
महाराजो मम पिता शान्तनुर्लोकविश्रुतः । दिष्टान्तमाप धर्मात्मा समये भरतर्षभ
ततोऽहं भरतश्रेष्ठ प्रतिज्ञां परिपालयन् । चित्राङ्गदं भ्रातरं वै महाराज्येऽभ्यपेचयम्
तस्मिंश्च निधनं प्राप्ते सत्यवत्या मते स्थितः । विचित्रवीर्यं राजानमभ्यषिञ्चं यथाविधि
मयाऽभिषिक्तो राजेन्द्र यवीयानपि धर्मतः । विचित्रवीर्यो धर्मात्मा मामेव समुदैक्षत
तस्य दारक्रियां तात चिकीर्षुरहमप्युत । अनुरूपादिव कुलादित्येव च मनो दधे
तथाऽश्रौषं महाबाहो तिस्रः कन्याः स्वयंवरे । रूपेणाप्रतिमाः सर्वाः काशिराजसुतास्तदा । अम्बां चैवाम्बिकां चैव तथैवाम्बालिकामपि
राजानश्च समाहूताः पृथिव्यां भरतर्षभ। अम्बा ज्येष्ठाभवत्तासामम्बिका त्वथ मध्यमा
अम्बालिका च राजेन्द्र राजकन्या यवीयसी । सोऽहमेकरथेनैव गतः काशिपतेः पुरीम्
अपश्यं ता महाबाहो तिस्रः कन्याः स्वलङ्कृताः। राज्ञश्चैव समाहूतान्पार्थिवान्पृथिवीपते
ततोऽहं तान्नृपान्सर्वानाहूय समरे स्थितान्। रथमारोपयाञ्चक्रे कन्यास्ता भरतर्षभ
वीर्यशुल्काश्च ता ज्ञात्वा समारोप्य रथं तदा। अवोचं पार्थिवान्सर्वानहं तत्र समागतान्। भीष्मः शान्तनवः कन्या हरतीति पुनःपुनः
ते यतध्वं परं शक्त्या सर्वे मोक्षाय पार्थिवाः । प्रसह्य हि हराम्येष मिषतां वो नरर्षभाः
ततस्ते पृथिवीपालाः समुत्पतुरुदायुधाः । योगो योग इति क्रुद्धाः सारथीनभ्यचोदयन्
ते रथैर्गसङ्काशैर्गजैश्च गजयोधिनः। पुष्टैश्वाश्वैर्महीपालाः समुत्पेतुरुदायुधाः
ततस्ते मां महीपालाः सर्व एव विशां पते। रथव्रातेन महता सर्वतः पर्यवारयन्
तानहं शरवर्षेण समन्तात्पर्यवारयम् । सर्वान्नृपांश्चाप्यजयं देवराडिव दानवान्
अपातयं शरैर्दीप्तैः प्रहसन्भरतर्षभ । तेषामापततां चित्रान्ध्वजान्हेमपरिष्कृतान्
एकैकेन हि बाणेन भूमौ पातितवानहम् । हयांस्तेषां गजांश्चैव सारथींश्चाप्यहं रणे
ते निवृत्ताश्च भग्नाश्च दृष्ट्वा तल्लाघवं मम। `प्रणिपेतुश्च सर्वे वै प्रशशंसुश्च पार्थिवाः
तत आदाय ताः कन्या नृपतींश्च विसृज्य तान्।' अथाऽहं हास्तिनपुरमायां जित्वा महीक्षितः
ततोऽहं ताश्च कन्या वै भ्रातुरर्थाय भारत। तच्च कर्म महाबाहो सत्यवत्यै न्यवेदयम्
ततोऽहं भरतश्रेष्ठ मातरं वीरमातरम् । अभिगम्योपसंगृह्य दाशेयीमिदमब्रुवम्
इमाः काशिपतेः कन्या मया निर्जित्य पार्थिवान् । विचित्रवीर्यस्य कृते वीर्यशुल्का हृता इति
ततो मूर्धन्युपाघ्राय पर्यश्रुनयना नृप। आह सत्यवती हृष्टा दिष्ट्या पुत्र जितं त्वया