पाण्ड्यराजो महावीर्यः पाण्डवानां धुरंधरः । दृढधन्वा महेष्वासः पाण्डवानां महारथः
श्रेणिमान्कौरवश्रेष्ठ वसुदानश्च पार्थिवः । उभावेतावतिरथौ मतौ परपुरंजयौ
रोचमानो महाराज पाण्डवानां महारथः। योत्स्यतेऽमरवत्संख्ये परसैन्येषु भारत
पुरुजित्कृन्तिभोजश्च महेष्वासो महाबलः । मातुलो भीमसेनस्य स च मेऽतिरथो मतः
एष वीरो महेष्वासः कृती च निपुणश्च ह । चित्रयोधी च शक्तश्च मतो मे रथपुङ्गवः
स योत्स्यति हि विक्रम्य मघवानिव दानवैः । योधा ये चास्य विख्याताः सर्वे युद्धविशारदाः
भागिनेयकृते वीरः स करिष्यति संगरे । सुमहत्कर्म पाण्डूनां स्थितः प्रियहिते रतः
भैमसेनिर्महाराज हैडिम्बो राक्षसेश्वरः । मतो मे बहुमायावी रथयूथपयूथपः
योत्स्यते समरे तात मायावी समरप्रियः । ये चास्य राक्षसा वीराः सचिवा वशवर्तिनः
एते चान्ये च बहवो नानाजनपदेश्वराः । समेताः पाण्डवस्यार्थे वासुदेवपुरोगमाः
एते प्राधान्यतो राजन्पाण्डवस्य महात्मनः । रथाश्चातिरथाश्चैव ये चान्येऽर्धंरथा नृप
नेष्यन्ति समरे सेनां भीमां यौधिष्ठिरीं नृप । महेन्द्रेणेव वीरेण पाल्यमानां किरीटिना
तैरहं समरे वीर मायाविद्भिर्जयैषिभिः । योत्स्यामि जयमाकाङ्क्षन्नथ वा निधनं रणे
वासुदेवं च पार्थं च चक्रगाण्डीवधारिणौ । सन्ध्यागताविवार्केन्दू सभेष्येते रथोत्तमौ
यं चैव ते रथोदाराः पाण्डुपुत्रस्य सैनिकाः । सह सैन्यानहं तांश्च प्रतीयां रणमूर्धनि
एते रथाश्चातिरथाश्च तुभ्यं यथाप्रधानं नृप कीर्तिता मया। तथा परे येऽर्धरथाश्च केचि- त्तथैंव तेषामपि कौरवेन्द्र
अर्जुनं वासुदेवं च ये चान्ये तत्र पार्थिवाः। सर्वांस्तान्वारयिष्यामि यावद्द्रक्ष्यामि भारत
पाञ्चाल्यं तु महाबाहो नाहं हन्यां शिखण्डिनम् । उद्यतेषमथो दृष्ट्वा प्रतियुध्यन्तमाहवे
लोकस्तं वेद यदहं पितुः प्रियचिकीर्षया । प्राप्तं राज्यं परित्यज्य ब्रह्मचर्यव्रते स्थितः
चित्राङ्गदं कौरवाणामाधिपत्येऽभ्यषेचयम्। विचित्रवीर्यं च शिशुं यौवराज्येऽभ्यषेचयम्
देवव्रतत्वं विज्ञाप्य पृथिवीं सर्वराजसु । नैव हन्यां स्त्रियं जातु न स्त्रीपूर्वं कदाचन
स हि स्त्रीपूर्वको राजञ्शिखण्डी यदि ते श्रुतः । कन्या भूत्वा पुमाञ्चातो न योत्स्ये तेन भारत
सर्वांस्त्वन्यान्हनिष्यामि पार्थिवान्भरतर्षभ । यान्समेष्यामि समरे न तु कुन्तीसुतान्नृप
किमर्थं भरतश्रेष्ठ नैव हन्याः शिखण्डिनम् । उद्यतेषुमथो दृष्ट्वा समरेष्वाततायिनम्
पूर्वमुक्त्वा महाबाहो पाञ्चालान्सह सोमकैः । हनिष्यामीति गाङ्गेय तन्मे ब्रूहि पितामह
श्रृणु दुर्योधन कथां सहैभिर्वसुधाधिपैः । यदर्थं युधि संप्रेक्ष्य नाहं हन्यां शिखण्डिनम्
महाराजो मम पिता शान्तनुर्लोकविश्रुतः । दिष्टान्तमाप धर्मात्मा समये भरतर्षभ
ततोऽहं भरतश्रेष्ठ प्रतिज्ञां परिपालयन् । चित्राङ्गदं भ्रातरं वै महाराज्येऽभ्यपेचयम्
तस्मिंश्च निधनं प्राप्ते सत्यवत्या मते स्थितः । विचित्रवीर्यं राजानमभ्यषिञ्चं यथाविधि
मयाऽभिषिक्तो राजेन्द्र यवीयानपि धर्मतः । विचित्रवीर्यो धर्मात्मा मामेव समुदैक्षत