संबन्धिकेन राजेन्द्र तौ तु वीर्यबलान्वयात् । आर्यवृत्तौ महेष्वासौ स्नेहवीर्यसितावुभौ
कारणं प्राप्य तु नराः सर्व एव महाभुजाः । शूरा वा कातरा वापि भवन्ति कुरुपुङ्गव
एकायनगतावेतौ पार्थिवौ दृढधन्विनौ । प्राणांस्त्यक्त्वा परं शक्त्या घट्टितारौ परन्तप
पृथगक्षौहिणीभ्यां तावुभौ संयति दारुणौ । संबन्धिभावं रक्षन्तौ महत्कर्म करिष्यतः
लोकवीरौ महेष्वासौ त्यक्तात्मानौ च भारत। प्रत्ययं परिरक्षन्तौ महत्कर्म करिष्यतः
पाञ्चालराजस्य सुतो राजन्परपुरंजयः । शिखण्डी रथमुख्यो मे मतः पार्थस्य भारत
एष योत्स्यति संग्रामे नाशयन्पूर्वसंस्थितम् । परं यशो विप्रथयंस्तव सेनासु भारत
एतस्य बहुलाः सेनाः पाञ्चालाश्च प्रभद्रकाः । तेनासौ रथवंशेन महत्कर्म करिष्यति
धृष्टद्युम्नश्च सेनानीः सर्वसेनासु भारत । मतो मेऽतिरथो राजन्द्रोणशिष्यो महारथः
एष योत्स्यति संग्रामे सूदयन्वै परान्रणे। भगवानिव संक्रुद्धः पिनाकी युगसंक्षये
एतस्य तद्रथानीकं कथयन्ति रणप्रियाः । बहुत्वात्सागरप्रख्यं देवानामिव संयुगे
क्षत्रधर्मा तु राजेन्द्र मतो मेऽर्धरथो नृप। धृष्टद्युम्नस्य तनयो बाल्यान्नातिकृतश्रमः
शिशुपालसुतो वीरश्चेदिराजो महारथः। धृष्टकेतुर्महेष्वासः संबन्धी पाण्डवस्य ह
एष चेदिपतिः शूरः सह पुत्रेण भारत । महारथानां सुकरं महत्कर्म करिष्यति
क्षत्रधर्मरतो मह्यं मतः परपुरंजयः । क्षत्रदेवस्तु राजेन्द्र पाण्डवेषु रथोत्तमः
जयन्तश्चामितौजाश्च सत्यजिच्च महारथः । महारथा महात्मानः सर्वे पाञ्चालसत्तमाः
योत्स्यन्ते समरे तात संरब्धा इव कुञ्जराः । अजो भोजश्च विक्रान्तौ पाण्डवार्थे महारथौ
योत्स्येते बलिनौ शूरौ परं शक्त्या यतिष्यतः। शीघ्रास्त्राश्चित्रयोद्धारः कृतिनो दृढविक्रमाः
केकयाः पञ्च राजेन्द्र भ्रातरो दृढविक्रमाः । सर्वे चैव रथोदाराः सर्वे लोहितकध्वजाः
काशिकः सुकुमारश्च नीलो यश्चापरो नृप । सूर्यदत्तश्च शङ्खश्च मदिराश्वश्च नामतः
सर्व एव रथोदाराः सर्वे चाहवलक्षणाः । सर्वास्त्रविदुषः सर्वे महात्मानो मता मम
वार्धक्षेमिर्महाराज मतो मम महारथः । चित्रायुघश्च नृपतिर्मतो मे रथसत्तमः
स हि सङ्ग्रामशोभी च भक्तश्चापि किरीटिनः । चेकितानः सत्यधृतिः पाण्डवानां महारथौ । द्वाविमौ पुरुषव्याघ्रौ रथोदारौ मतौ मम
व्याघ्रदत्तश्च राजेन्द्र चन्द्रसेनश्च भारत। मतौ मम रथोदारौ पाण्डवानां न संशयः
सेनाबिन्दुश्च राजेन्द्र क्रोधहन्ता च नामतः । यः समो वासुदेवेन भीमसेनेन वा विभो
स योत्स्यति हि विक्रम्य समरे तव सैनिकैः । मां च द्रोणं कृपं चैव यथा संमन्यते भवान्
तथा स समरश्लाघी मन्तव्यो रथसत्तमः । काश्यः परमशीघ्रास्त्रः श्लाघनीयो नरोत्तमः
रथ एकगुणो मह्यं ज्ञेयः परपुरंजयः । अयं च युधि विक्रान्तो मन्तव्योष्टगुणो रथः
सत्यजित्समरश्लाघी द्रुपदस्यात्मजो युवा । गतः सोऽतिरथत्वं हि धृष्टद्युम्नेन संमितः
पाण्डवानां यशस्कामः परं कर्म करिष्यति । अनुरक्ताश्च शूरश्च रथोऽयमपरो महान्