जातमुत्सृज्य तं गर्भं मेनका मालिनीमनु। कृतकार्या ततस्तूर्णमगच्छच्छक्रसंसदम्
तं वने विजने गर्भं सिंहव्याघ्रसमाकुले। दृष्ट्वा शयानं शकुनाः समन्तात्पर्यवारयन्। नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः
पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम्। उपस्प्रष्टुं गतश्चाहमपश्यं शयितामिमाम्
निर्जने विपिने रम्ये शकुन्तैः परिवारिताम्। `मां दृष्ट्वैवाभ्यपद्यन्त पादयोः पतिता द्विजाः। अब्रुञ्शकुनाः सर्वे कलं मधुरभाषिणः
विश्वामित्रसुतां ब्रह्मन्न्यासभूतां भरस्व वै। कामक्रोधावजितवान्सखा ते कौशिकीं गतः
तस्मात्पोषय तत्पुत्रीं दयावानिति तेऽब्रुवन्। सर्वभूतरुतज्ञोऽहं दयावान्सर्वजन्तुषु
आनयित्वा ततश्चैनां दुहितृत्वे न्यवेशयम्
शरीरकृत्प्राणदाता यस्य चान्नानि भुञ्जते। क्रमेणैते त्रयोऽप्युक्ताः पितरो धर्मशासने
निर्जने तु वने यस्माच्छकुन्तैः परिवारिता। शकुन्तलेति नामास्याः कृतं चापि ततो मया
एवं दुहितरं विद्धि मम विप्र शकुन्तलाम्। शकुन्तला च पितरं मन्यते मामनिन्दिता
एतदाचष्ट पृष्टः सन्मम जन्म महर्षये। सुतां कण्वस्य मामेवं विद्धि त्वं मनुजाधिप
कण्वं हि पितरं मन्ये पितरं स्वमजानती। इति ते कथितं राजन्यथावृत्तं श्रुतं मया
सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे। भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते
सुवर्णमालां वासांसि कुण्डले परिहाटके। नानापत्तनजे शुभ्रे मणिरत्ने च शोभने
आहरामि तवाद्याहं निष्कादीन्यजिनानि च। सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने
गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि। विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते
फलाहारो गतो राजन्पिता मे इत आश्रमात्। मुहूर्तं संप्रतीक्षस्व स मां तुभ्यं प्रदास्यति
पिता हि मे प्रभुर्नित्यं दैवतं परमं मम। यस्मै मां दास्यति पिता स मे भर्ता भविष्यति
पिता रक्षति कौमारे भर्ता रक्षति यौवने। पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति
समन्यमाना राजेन्द्र पितरं मे तपस्विनम्। अधर्मेण हि धर्मिष्ठ कथं वरमुपास्महे
मन्युप्रहरणा विप्रा न विप्राः शस्त्रपाणयः
मन्युना घ्नन्ति ते शत्रून्वज्रेणेन्द्र इवासुरान्। अग्निर्दहति तेजोभिः सूर्यो दहति रश्मिभिः
राजा दहति दण्डेन ब्राह्मणो मन्युना दहेत्। क्रोधिता मन्युना घ्नन्ति वज्रपाणिरिवासुरान्
जाने भद्रे महर्षिं तं तस्य मन्युर्न विद्यते।' इच्छामि त्वां वरारोहे भजमानामनिन्दिते। त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम
आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः। आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः
अष्टावेव समासेन विवाहा धर्मतः स्मृताः। ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथाऽऽसुरः
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः। तेषां धर्म्यान्यथापूर्वं मनुः स्वायंभुवोऽब्रवीत्
प्रशस्तांश्चतुरः पूर्वान्ब्राह्मणस्योपधारय। षडानुपूर्व्या क्षत्रस्य विद्धि धर्म्याननिन्दिते
राज्ञां तु राक्षसोऽप्युक्तो विट्शूद्रेष्वासुरः स्मृतः। पञ्चानां तु त्रयो धर्म्या अधर्म्यौ द्वौ स्मृताविह
पैशाच आसुरश्चैव न कर्तव्यौ कदाचन। अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता