प्रादेशेनाधिकाः पुंभिरन्यैस्ते च प्रमाणतः। सिंहसंहननाः सर्वे पाण्डुपुत्रा महाबलाः
चरितब्रह्मचर्याश्च सर्वे तात तपस्विनः। ह्रीमन्तः पुरुषव्याघ्रा व्याघ्रा इव बलोत्कटाः
जवे प्रहारे संमर्दे सर्व एवातिमानुषाः । सर्वैर्जिता महीपाला दिग्जये भरतर्षभ
न चैषां पुरुषाः केचिदायुधानि गदाः शरान्। विषहन्ति सदा कर्तुमधिज्यान्यपि कौरव
उद्यन्तुं वा गदा गुर्वीः शरान्वा क्षेप्तुमाहवे । जवे लक्ष्यस्य हरणे भोज्ये पांसुविकर्षणे
बालैरपि भवन्तस्तैः सर्व एव विशेषिताः। एतत्सैन्यं समासाद्य सर्व एव बलोत्कटाः
विध्वंसयिष्यन्ति रणे मा स्म तैः सह संगमः । एकैकशस्त संमर्दे हन्युः सर्वान्महीक्षितः
प्रत्यक्षं तव राजेन्द्र राजसूये यथाभवत् । द्रौपद्याश्च परिक्लेशं द्यूते च परुषा गिरः
ते स्मरन्तश्च सङ्ग्रामे चरिष्यन्ति च रुद्रवत् । लोहिताक्षो गुडाकेशो नारायणसहायवान्
उभोयोः सेनयोर्वीरो रथो नास्तीति तादृशः । न हि देवेषु वा पूर्वं मनुष्येषूरगेषु च
राक्षसेष्वथ यक्षेषु नरेषु कुत एव तु । भूतोथ वा भविष्यो वा रथः कश्चिन्मया श्रुतः
समायुक्तो महाराज रथः पार्थस्य धीमतः। वासुदेवश्च संयन्ता योद्धा चैव धनञ्जयः
गाण्डीवं च धनुर्दिव्यं ते चाश्वा वातरंहसः । अभेद्यं कवचं दिव्यमक्षय्यौ च महेषुधी
अस्त्रग्रामश्च माहेन्द्रो रौद्रः कौबेर एवच । याम्यश्च वारुणश्चैव गदाश्चोग्रप्रदर्शनाः
वज्रादीनि च मुख्यानि नानाप्रहरणानि च । दानवानां सहस्राणि हिरण्यपुरवासिनाम्
हतान्येकरथेनाजौ कस्तस्य सदृशो रथः। एष हन्याद्धि संरम्भी बलवान्सत्यविक्रमः
तव सेनां महाबाहुः स्वां चैव परिपालयन्। अहं चैनं प्रत्युदियामाचार्यो वा धनञ्जयम्
न तृतीयोऽस्ति राजेन्द्र सेनयोरुभयोरपि । य एनं शरवर्षाणि वर्षन्तमुदियाद्रथी
जीमूत इव घर्मान्ते महावातसमीरितः । समायुक्तस्तु कौन्तेयो वासुदेवसहायवान् । तरुणश्च कृती चैव जीर्णावावामुभावपि
एतच्छ्रुत्वा तु भीष्मस्य राज्ञां दध्वंसिरे तदा। काञ्चनाङ्गदिनः पीना भुजाश्चन्दनरूषिताः
मनोभिः सह संवेगैः संस्मृत्य च पुरातनम् । सामर्थ्यं पाण्डवेयानां यथा प्रत्यक्षदर्शनात्
द्रौपदेया महाराज सर्वे पञ्च महारथाः । वैराटिरुत्तरश्चैव रथोदारो मतो मम
अभिमन्युर्महाबाहू रथयूथमयूथपः । समः पार्थेन समरे वासुदेवेन चारिहा
लघ्वस्त्रश्चित्रयोधी च मनस्वी च दृढव्रतः । संस्मरन्वै परिक्लेशं स्वपितुर्विक्रमिष्यति
सात्यकिर्माधवः शूरो रथयूथपयूथपः। एष वृष्णिप्रवीराणाममर्षी जितसाध्वसः
उत्तमौजास्तथा राजन्रथोदारो मतो मम । युधामन्युश्च विक्रान्तो रथोदारो मतो मम
एतेषां बहुसाहस्रा रथा नागा हयास्तथा । योत्स्यन्ते ते तनूस्त्यक्त्वा कुन्तीपुत्रप्रियेप्सया
पाण्डवैः सह राजेन्द्र तव सेनासु भारत। अग्निमारुतवद्राजन्नाह्वयन्तः परस्परम्
अजेयौ समरे वृद्धौ विराटद्रुपदौ तथा। महारथौ महावीर्यौ मतौ मे पुरुषर्षभौ
वयोवृद्धावपि हि तौ क्षत्रधर्मपरायणौ । यतिष्येते परं शक्त्या स्थितौ वीरगते पथि