समुद्यतोयं भारो मे सुमहान्सागरोपमः। धार्तराष्ट्रस्य संग्रामे वर्षपूगाभिचिन्तितः
तस्मिन्नभ्यागते काले प्रतप्ते रोमहर्षणे । मिथो भेदो न मे कार्यस्तेन जीवसि सूतज
न ह्यहं त्वद्य विक्रम्य स्थविरोऽपि शिशोस्तव। युद्धश्रद्धामहं छिन्द्यां जीवितस्य च सूतज
जामदग्र्येन रामेण महास्त्राणि विमुञ्चता। न मे व्यथा कृता काचित्त्वं तु मे कि करिष्यसि
कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम्। वक्ष्यामि तु त्वां सन्तप्तो निहीन कुलपांसन
समेतं पार्थिवं क्षत्रं काशिराजस्वयंवरे । निर्जित्यैकरथेनैव याः कन्यास्तरसाहृताः
ईदृशानां सहस्राणि विशिष्टानामथो पुनः । मयैकेन निरस्तानि ससैन्यानि रणाजिरे
त्वां प्राप्य वैरपुरुषं कुरूणामनयो महान्। उपस्थितो विनाशाय यतस्व पुरुषो भव
युध्यस्व समरे पार्थं येन विस्पर्धसे सह । द्रक्ष्यामि त्वां विनिर्मुक्तमस्माद्युद्धात्सुदुर्मते
तमुवाच ततो राजा धार्तराष्ट्रः प्रतापवान् । मां समीक्षस्व गाङ्गेय कार्यं हि महदुद्यतम्
चिन्त्यतामिदमेकाग्रं मम निःश्रेयसं परम्। उभावपि भवन्तौ मे महत्कर्म करिष्यतः
भूयश्च श्रोतुमिच्छामि परेषां रथसत्तमान् । ये चैवातिथास्तत्र ये चैव रथयूथपाः
बलाबलममित्राणां श्रोतुमिच्छामि कौरव । प्रभातायां रजन्यां वै इदं युद्धं भविष्यति
एते रथास्तवाख्यातास्तथैवातिरथा नृप। ये चाप्यर्धरथा राजन्पाण्डवानामतः श्रृणु
यदि कौतूहलं तेऽद्य पाण्डवानां बले नृप । रथसंख्यां शृणुष्व त्वं सहैभिर्वसुधाधिपैः
स्वयं राजा रथोदारः पाण्डवः कुन्तनन्दनः । अग्निवत्समरे तात चरिष्यति न संशयः
भीमसेनस्तु राजेन्द्र रथोऽष्टगुणसंमितः । न तस्यास्ति समो युद्धे गदया सायकैरपि
नागायुतबलो मानी तेजसा न स मानुषः । माद्रीपुत्रो च रथिनौ द्वावेव पुरुषर्षभौ
अश्विनाविव रूपेण तेजसा च समन्वितौ। एते चमूमुखगताः स्मरन्तः क्लेशमुत्तमम्
रुद्रवत्प्रचरिष्यन्ति तत्र मे नास्ति संशयः । सर्व एव महात्मानः सालस्तम्भा इवोद्गताः
प्रादेशेनाधिकाः पुंभिरन्यैस्ते च प्रमाणतः। सिंहसंहननाः सर्वे पाण्डुपुत्रा महाबलाः
चरितब्रह्मचर्याश्च सर्वे तात तपस्विनः। ह्रीमन्तः पुरुषव्याघ्रा व्याघ्रा इव बलोत्कटाः
जवे प्रहारे संमर्दे सर्व एवातिमानुषाः । सर्वैर्जिता महीपाला दिग्जये भरतर्षभ
न चैषां पुरुषाः केचिदायुधानि गदाः शरान्। विषहन्ति सदा कर्तुमधिज्यान्यपि कौरव
उद्यन्तुं वा गदा गुर्वीः शरान्वा क्षेप्तुमाहवे । जवे लक्ष्यस्य हरणे भोज्ये पांसुविकर्षणे
बालैरपि भवन्तस्तैः सर्व एव विशेषिताः। एतत्सैन्यं समासाद्य सर्व एव बलोत्कटाः
विध्वंसयिष्यन्ति रणे मा स्म तैः सह संगमः । एकैकशस्त संमर्दे हन्युः सर्वान्महीक्षितः
प्रत्यक्षं तव राजेन्द्र राजसूये यथाभवत् । द्रौपद्याश्च परिक्लेशं द्यूते च परुषा गिरः
ते स्मरन्तश्च सङ्ग्रामे चरिष्यन्ति च रुद्रवत् । लोहिताक्षो गुडाकेशो नारायणसहायवान्
उभोयोः सेनयोर्वीरो रथो नास्तीति तादृशः । न हि देवेषु वा पूर्वं मनुष्येषूरगेषु च