एष योत्स्यति सङ्ग्रामे गजस्कन्धविशारदः । ऐरावतगतो राजा देवानामिव वासवः
अचलो वृषकश्चैव सहितौ भ्रातरावुभौ । रथौ तव दुराधर्षौ शत्रून्विध्वंसयिष्यतः
बलवन्तौ नरव्याघ्रौ दृढक्रोधौ प्रहारिणौ। गान्धारमुख्यौ तरुणौ दर्शनीयौ महाबलौ
सखा ते दयितो नित्यं य एष रणकर्कशः । उत्साहयति राजंस्त्वां विग्रहे पाण्डवैः सह
परुषः कत्थनो नीचः कर्णो वैकर्तनस्त्रव । मन्त्री नेता च बन्धुश्च मानी चात्यन्तमुच्छ्रितः
एष नैव रथः पूर्णो न चाप्यतिरथो रणे । वियुक्तः कवचेनैष सहजेन विचेतनः
कुण्डलाभ्यां च दिव्याभ्यां वियुक्तः सततं घृणी । अभिशापाच्च रामस्य ब्राह्मणस्य च भाषणात्
करणानां वियोगाच्च तेन मेऽर्थरथो मतः। नैष फाल्गुनमासाद्य पुनर्जीवन्विमोक्ष्यते
ततोऽब्रवीत्पुनर्द्रोणः सर्वशस्त्रभृतां वरः। एवमेतद्यथाऽऽत्थ त्वं न मिथ्यास्ति कदाचन
रणेरणेऽभिमानी च विमुखश्चापि दृश्यते। घृणी कर्णः प्रमादी च तेन मेऽर्धरथो मतः
एतच्छ्रुत्वा तु राधेयः क्रोधादुल्फाल्य लोचने । उवाच भीष्मं राधेयस्तुदन्वाग्भिः प्रतोदवत्
पितामह यथेष्टं मां वाक्शरैरुपकृन्तसि । अनागसं सदा द्वेषादेवमेव पदेपदे
मर्षयामि च तत्सर्वं दुर्योधनकृतेन वै । त्वं तुं मां मान्यसे मन्दं यथा कापुरुषं तथा
भवानर्धरथो मह्यं मतो वै नात्र संशयः । सर्वस्य जगतश्चैव गाङ्गेयो न मृषा वदेत्
कुरूणामहितो नित्यं न च राजाऽवबुध्यते । को हि नाम समानेषु राजसूदारकर्मसु
तेजोवधमिमं कुर्याद्विभेदयिषुराहवे । यथा त्वं गुणविद्वेषादपरागं चिकीर्षसि
न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः । महारयत्वं संख्यातुं शक्यं क्षत्रस्य कौरव
बलज्येष्ठं स्मृतं क्षत्रं मन्त्रज्येष्ठा द्विजातयः । धनज्येष्ठाः स्मृता वैश्याः शूद्रास्तु वयसाऽधिकाः
यथेच्छकं स्वयं ब्रूया रथानतिरथांस्तथा। कामद्वेषसमायुक्तो मोहात्प्रकुरुते भवान्
दुर्योधन महाबाहो साधु सम्यगवेक्ष्यताम्। त्यज्यतां दुष्टभावोऽयं भीष्मः किल्बिषकृत्तव
भिन्ना हि सेना नृपते दुःसन्धेया भवत्युत। मौला हि पुरुषव्याघ्र किमु नानासमुत्थिताः
एषां द्वैधं समुत्पन्नं योधानां युधि भारत। तेजोवधो नः क्रियते प्रत्यक्षेण विशेषतः
रथानां क्वच विज्ञानं क्वच भीष्मोऽल्पचेतनः । अहमावारयिष्यामि पाण्डवानामनीकिनीम्
आसाद्य माममोघेषुं गमिष्यन्ति दिशो दश। पाण्डवाः सहपञ्चालाः शार्दूलं वृषभा इव
क्वच युद्धं विमर्दो वा मन्त्रे सुव्याहृतानि च। क्वचभीष्मो गतवयामन्दात्मा कालचोदितः
एकाकी स्पर्धति नित्यं सर्वेण रमता सह । न चान्यं पुरुषं कंचिन्मन्यते मोघदर्शनः
श्रोतव्यं खलु वृद्धानमिति शास्त्रनिदर्शनम् । न त्वेव ह्यतिवृद्धानां पुनर्बालाहि ते मताः
अहमेको हनिष्यामि पाण्डवानानीकिनीम् । सुयुद्धे राज्यशार्दूल यशो भीष्मं गमिष्यति
कृतः सेनापतिस्त्वेष त्वया भीष्मो नराधिप। सेनापतौ यशो गन्ता न तु योधान्कथञ्चन
नाहं जीवति गाङ्गेये योत्स्ये राजन्कथञ्चन। हते भीष्मे तु योद्धाऽस्मि सर्वैरेव महारथैः