बाह्लीकोऽतिरथश्चैव समरे चानिवर्तनः । मम राजन्मतो युद्धे शूरो वैवस्वतोपमः
न ह्येष समरं प्राप्य निवर्तेत कथञ्चन। यथा सततगो राजन्स हि हन्यात्परान्रणे
सेनापतिर्महाराज सत्यवांस्ते महारथः । रणेष्वद्भुतकर्मा च रथी पररथारुजः
एतस्य समरं दृष्ट्वा न व्यथास्ति कथञ्चन । उत्स्मयन्नुत्पतत्येष परान्रथपथे स्थितान्
एष चारिषु विक्रान्तः कर्म सत्पुरुषोचितम् । कर्ता विमर्दे सुमहत्त्वदर्थे पुरुषोत्तमः
अलम्बुसो राक्षसेन्द्रः क्रूरकर्मा महारथः । हनिष्यति परान्राजन्पूर्ववैरमनुस्मरन्
एष राक्षससैन्यानं सर्वेषां रथसत्तमः । मायावी दृढवैरश्च समरे विचरिष्यति
प्राग्ज्योतिषाधिपो वीरो भगदत्तः प्रतापवान् । गजाङ्कुशधरश्रेष्ठो रथे चैव विशारदः
एतेन युद्धमभवत्पुरा गाण्डीवधन्वनः । दिवसान्सुबहून्राजन्नुभयोर्जयगृद्धिनोः
ततः सखायं गान्धारे मानयन्पाकशासनम् । अकरोत्संविदं तेन पाण्डवेन महात्मना
एष योत्स्यति सङ्ग्रामे गजस्कन्धविशारदः । ऐरावतगतो राजा देवानामिव वासवः
अचलो वृषकश्चैव सहितौ भ्रातरावुभौ । रथौ तव दुराधर्षौ शत्रून्विध्वंसयिष्यतः
बलवन्तौ नरव्याघ्रौ दृढक्रोधौ प्रहारिणौ। गान्धारमुख्यौ तरुणौ दर्शनीयौ महाबलौ
सखा ते दयितो नित्यं य एष रणकर्कशः । उत्साहयति राजंस्त्वां विग्रहे पाण्डवैः सह
परुषः कत्थनो नीचः कर्णो वैकर्तनस्त्रव । मन्त्री नेता च बन्धुश्च मानी चात्यन्तमुच्छ्रितः
एष नैव रथः पूर्णो न चाप्यतिरथो रणे । वियुक्तः कवचेनैष सहजेन विचेतनः
कुण्डलाभ्यां च दिव्याभ्यां वियुक्तः सततं घृणी । अभिशापाच्च रामस्य ब्राह्मणस्य च भाषणात्
करणानां वियोगाच्च तेन मेऽर्थरथो मतः। नैष फाल्गुनमासाद्य पुनर्जीवन्विमोक्ष्यते
ततोऽब्रवीत्पुनर्द्रोणः सर्वशस्त्रभृतां वरः। एवमेतद्यथाऽऽत्थ त्वं न मिथ्यास्ति कदाचन
रणेरणेऽभिमानी च विमुखश्चापि दृश्यते। घृणी कर्णः प्रमादी च तेन मेऽर्धरथो मतः
एतच्छ्रुत्वा तु राधेयः क्रोधादुल्फाल्य लोचने । उवाच भीष्मं राधेयस्तुदन्वाग्भिः प्रतोदवत्
पितामह यथेष्टं मां वाक्शरैरुपकृन्तसि । अनागसं सदा द्वेषादेवमेव पदेपदे
मर्षयामि च तत्सर्वं दुर्योधनकृतेन वै । त्वं तुं मां मान्यसे मन्दं यथा कापुरुषं तथा
भवानर्धरथो मह्यं मतो वै नात्र संशयः । सर्वस्य जगतश्चैव गाङ्गेयो न मृषा वदेत्
कुरूणामहितो नित्यं न च राजाऽवबुध्यते । को हि नाम समानेषु राजसूदारकर्मसु
तेजोवधमिमं कुर्याद्विभेदयिषुराहवे । यथा त्वं गुणविद्वेषादपरागं चिकीर्षसि
न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः । महारयत्वं संख्यातुं शक्यं क्षत्रस्य कौरव
बलज्येष्ठं स्मृतं क्षत्रं मन्त्रज्येष्ठा द्विजातयः । धनज्येष्ठाः स्मृता वैश्याः शूद्रास्तु वयसाऽधिकाः
यथेच्छकं स्वयं ब्रूया रथानतिरथांस्तथा। कामद्वेषसमायुक्तो मोहात्प्रकुरुते भवान्
दुर्योधन महाबाहो साधु सम्यगवेक्ष्यताम्। त्यज्यतां दुष्टभावोऽयं भीष्मः किल्बिषकृत्तव