हन्यादेकरथेनैव देवगन्धर्वमानुषान् । एकीभूतानपि रणे दिव्यैरस्त्रैः प्रतापवान्
पौरवो राजशार्दूलस्तव राजन्महारथः । मतो मम रथोदारः परवीररथारुजः
स्वेन सैन्येन महता प्रतपञ्शत्रुवाहिनीम्। प्रधक्ष्यति स पाञ्चालान्कक्षमग्निगतिर्यथा
सत्यश्रवा रथस्त्वेको राजपुत्रो बृहद्बलः। तव राजन्रिपुबले कालवत्प्रचरिष्यति
एतस्य योधा राजेन्द्र विचित्रकवचायुधाः । विचरिष्यन्ति सङ्ग्रामे निन्घन्तः शास्त्रवांस्तव
वृषसेनो रथस्तेऽग्र्यः कर्णपुत्रो महारथः । प्रधक्ष्यति रिपूणां ते बलं तु बलिनां वरः
जघसन्धो महातेजा राजन्रथवरस्तव । त्यक्ष्यते समरे प्राणान्माधवः परवीरहा
एष योत्स्यति सङ्ग्रामे गजस्कन्धविशारदः । रथेन वा माहबाहुः क्षपयञ्शत्रुवाहिनीम्
रथ एष महाराज मतो मे राजसत्तम। त्वदर्थे त्यक्ष्यते प्राणान्सहसैन्यो महारणे
एष विक्रान्तयोधी च चित्रयोधी च संगरे । वीतभीश्चापि ते राजञ्शत्रुभिः सह योत्स्यते
बाह्लीकोऽतिरथश्चैव समरे चानिवर्तनः । मम राजन्मतो युद्धे शूरो वैवस्वतोपमः
न ह्येष समरं प्राप्य निवर्तेत कथञ्चन। यथा सततगो राजन्स हि हन्यात्परान्रणे
सेनापतिर्महाराज सत्यवांस्ते महारथः । रणेष्वद्भुतकर्मा च रथी पररथारुजः
एतस्य समरं दृष्ट्वा न व्यथास्ति कथञ्चन । उत्स्मयन्नुत्पतत्येष परान्रथपथे स्थितान्
एष चारिषु विक्रान्तः कर्म सत्पुरुषोचितम् । कर्ता विमर्दे सुमहत्त्वदर्थे पुरुषोत्तमः
अलम्बुसो राक्षसेन्द्रः क्रूरकर्मा महारथः । हनिष्यति परान्राजन्पूर्ववैरमनुस्मरन्
एष राक्षससैन्यानं सर्वेषां रथसत्तमः । मायावी दृढवैरश्च समरे विचरिष्यति
प्राग्ज्योतिषाधिपो वीरो भगदत्तः प्रतापवान् । गजाङ्कुशधरश्रेष्ठो रथे चैव विशारदः
एतेन युद्धमभवत्पुरा गाण्डीवधन्वनः । दिवसान्सुबहून्राजन्नुभयोर्जयगृद्धिनोः
ततः सखायं गान्धारे मानयन्पाकशासनम् । अकरोत्संविदं तेन पाण्डवेन महात्मना
एष योत्स्यति सङ्ग्रामे गजस्कन्धविशारदः । ऐरावतगतो राजा देवानामिव वासवः
अचलो वृषकश्चैव सहितौ भ्रातरावुभौ । रथौ तव दुराधर्षौ शत्रून्विध्वंसयिष्यतः
बलवन्तौ नरव्याघ्रौ दृढक्रोधौ प्रहारिणौ। गान्धारमुख्यौ तरुणौ दर्शनीयौ महाबलौ
सखा ते दयितो नित्यं य एष रणकर्कशः । उत्साहयति राजंस्त्वां विग्रहे पाण्डवैः सह
परुषः कत्थनो नीचः कर्णो वैकर्तनस्त्रव । मन्त्री नेता च बन्धुश्च मानी चात्यन्तमुच्छ्रितः
एष नैव रथः पूर्णो न चाप्यतिरथो रणे । वियुक्तः कवचेनैष सहजेन विचेतनः
कुण्डलाभ्यां च दिव्याभ्यां वियुक्तः सततं घृणी । अभिशापाच्च रामस्य ब्राह्मणस्य च भाषणात्
करणानां वियोगाच्च तेन मेऽर्थरथो मतः। नैष फाल्गुनमासाद्य पुनर्जीवन्विमोक्ष्यते
ततोऽब्रवीत्पुनर्द्रोणः सर्वशस्त्रभृतां वरः। एवमेतद्यथाऽऽत्थ त्वं न मिथ्यास्ति कदाचन
रणेरणेऽभिमानी च विमुखश्चापि दृश्यते। घृणी कर्णः प्रमादी च तेन मेऽर्धरथो मतः