मकरा इव राजेन्द्र समुद्धततरङ्गिणीम् । गङ्गां विक्षोभयिष्यन्ति पार्थानां युधि वाहिनी
ते रथाः पञ्च राजेन्द्र येषां सत्यरथो मुखम्। एते योत्स्यन्ति सङ्ग्रामे संस्मरन्तः पुराकृतमक्
व्यलीकं पाण्डवेयेन भीमसेनानुजेन ह। दिशो विजयता राजञ्श्वेतवाहेन भारत
ते हनिष्यन्ति पार्थानां तानासाद्य महारथान्। वरान्वरान्महेष्वासान्क्षत्रियाणां धुरंधरान्
लक्ष्णणस्तव पुत्रश्च तथा दुःशासनस्य च। उभौ तौ पुरुषव्याघ्रौ संग्रामेष्वपलायिनौ
तरुणौ सुकुमारौ च राजपुत्रौ रतस्विनौ । युद्धानां च विशेषज्ञौ प्रणेतारौ च सर्वशः
रथौ तौ कुरुशार्दूल मतौ मे रथसत्तमौ । क्षत्रधर्मरतौ वीरौ महत्कर्म करिष्यतः
दण्डधारो महाराज रथ एको नरर्षभ । योत्स्यते तव सङ्ग्रामे स्वेन सैन्येन पालितः
बृहद्बलस्तथा राजा कौसल्यो रथसत्तमः । रथो मम मतस्तात महावेगपराक्रमः
एष योत्स्यति सङ्ग्रामे स्वान्बन्धून्संप्रहर्षयन् । उग्रायुधो महेष्वासो धार्तराष्ट्रहिते रतः
कृपः शारद्वतो रजन्रथयूथपयूथपः। प्रियान्प्राणान्परित्यज्य प्रधक्ष्यति रिपूंस्तव
गौतमस्य महर्षेर्य आचार्यस्य शरद्वतः। कार्तिकेय इवाजयः शरस्तम्बात्सुतोऽभवत्
एष सेनाः सुबहुला विविधायुधकार्मुकाः । अग्निवत्समरे तात चरिष्यति विनिर्दहन्
शकुनिर्मातुलस्तेऽसौ रथ एको नराधिप। प्रयुज्य पाण्डवैर्वैरं योत्स्यते नात्र संशयः
एतस्य सेना दुर्धर्षा समरे प्रतियायिनः। विकृतायुधभूयिष्ठा वायुवेगसमा जवे
द्रोणपुत्रो महेष्वासः सर्वानेवातिधन्विनः । समरे चित्रयोधी च दृढास्त्रश्च महारथः
एतस्य हि महाराज यथा गाण्डीवधन्वनः। शरासनविनिर्मुक्ताः संसक्ता यान्ति सायकाः
नैष शक्यो मया वीरः संख्यातुं रथसत्तमः । निर्दहेदपि लोकांस्त्रीनिच्छन्नेष महारथः
क्रोधस्तेजश्च तपसा संभृतोश्रमवासिनाम् । द्रोणेनानुगृहीतश्च दिव्यैरस्त्रैरुदारधीः
दोषस्त्वस्य महानेको येनैव भरतर्षभ । न मे रथो नातिरथो मतः पार्थिवसत्तम
जीवितं प्रियमत्यर्थमायुष्कामः सदा द्विजः । न ह्यस्य सदृशः कश्चिदुभयोः सेनयोरपि
हन्यादेकरथेनैव देवानामपि वाहिनीम् । वपुष्मांस्तलघोषेण स्फोटयेदपि पर्वतान्
असंख्येयगुणो वीरः प्रहन्ता दारुणद्युतिः। दण्डपाणिरिवासह्यः कालवत्प्रचरिष्यति
युगान्ताग्निसमः क्रोधात्सिंहग्रीवो महाद्युतिः । एष भारत युद्धस्य पृष्ठं संशयमिष्यति
पिता त्वस्य महातेजा वृद्धोऽपि युवभिर्वरः । रणे कर्म महत्कर्ता अत्र मे नास्ति संशयः
अस्त्रवेगानिलोद्भूतः सेनाकक्षेन्धनोत्थितः । पाण्डुपुत्रस्य सैन्यानि प्रधक्ष्यति रणे धृतः
रथयूथपयूथानां यूथपोऽय नरर्षभः । भरद्वाजात्मजः कर्ता कर्म तीव्रं हितं तव
सर्वमूर्धाभिषिक्तानामाचार्यः स्थविरो गुरुः । गच्छेदन्तं सृञ्जयानां प्रियस्त्वस्य धनञ्जयः
नैष जातु महेष्वासः पार्थमक्लिष्टकारिणम् । हन्यादाचार्यकं दीप्तं संस्मृत्य गुणनिर्जितम्
श्लाघते यं सदा वीर पार्थस्य गुणविस्तरैः । पुत्रादभ्यधिकं चैनं भारद्वाजोऽनुपश्यति