तथाऽहं भरतश्रेष्ठ सर्वसेनापतिस्तव। शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान्
न त्वात्मनो गुणान्वक्तुमर्हामि विदितोऽस्मि ते। कृतवर्मा त्वयिरथो भोजः शस्त्रभृतां वरः
अर्थसिद्धिं तव रणे करिष्यति न संशयः। शस्त्रविद्भिरनाधृष्यो दूरपाती दृढायुधः
हनिष्यति चमूं तेषां महेन्द्रो दानवानिव । मद्रराजो महेष्वासः शल्यो मेऽतिरथो मतः
स्पर्धते वासुदेवेन नित्यं यो वै रणेरणे। भागिनेयान्निजांस्त्यक्त्वा शल्यस्तेऽतिरथो मतः। एष योत्स्यति संग्रामे पाण्डवांश्च महारथान्
सागरोर्मिसमैर्बाणैः प्लावयन्निव शातवान् । भूरिश्रवाः कृतास्रश्च तव चापि हितः सुहृत्
सौमदत्तिर्महेष्वासो रथयूथपयूथपः। वलक्षयममित्राणां सुमहान्तं करिष्यति
सिन्धुराजो महाराज मतो मे द्विगुणो रथाः। योत्स्यते समरे राजन्विक्रान्तो रथसत्तमः
द्रौपदीहरणे राजन्परिक्लिष्टश्च पाण्डवैः । संस्मरंस्तं परिक्लेशं योत्स्यते परवीरहा
एतेन हि तदा राजंस्तप आस्थाय दारुणम् । सुदुर्लभो वरो लब्धः पाण्डवान्योद्ध्रुमाहवे
स एष रथशार्दूलस्तद्वैरं संस्मरन्रणे। योत्स्यते पाण्डवैस्तात प्राणांस्त्यक्त्वा सुदुस्त्यजान्
सुदक्षिणस्तु काम्भोजो रथ एकगुणो मतः। तवार्थसिद्धिमाकाङ्क्षन्योत्स्यते समरे परैः
एतस्य रथसिंहस्य तवार्थे राजसत्तम। पराक्रमं यथेन्द्रस्य द्रक्ष्यन्ति कुरवो युधि
एतस्य रथवंशे हि तिग्मवेगप्रहारिणः । काम्भोजानां महाराज शलभानामिवायतिः
नीलो माहिष्यतीवासी नीलवर्मा रथस्तव। रथवंशेन कदनं शत्रूणां वै करिष्यति
कृतवैरः पुरा चैव सहदेवेन मारिष। योत्स्यते सततं राजंस्तवार्थे कुरुनन्दन
विन्दानुविन्दावावन्त्यौ संमतौ रथसत्तमौ । कृतिनौ समरे तात दृढवीर्यपराक्रमौ
एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं प्रधक्ष्यतः। गदाप्रासासिनाराचैस्तोमरैश्च करच्यतैः
युद्धाभिकामौ समरे क्रीडन्ताविव यूथपौ । यूथमध्ये महाराज विचरन्तौ कृतान्तवत्
त्रिगर्ता भ्रातरः पञ्च रथोदारा मता मम। कृतवैराश्च पार्थैस्ते विराटनगरे तदा
मकरा इव राजेन्द्र समुद्धततरङ्गिणीम् । गङ्गां विक्षोभयिष्यन्ति पार्थानां युधि वाहिनी
ते रथाः पञ्च राजेन्द्र येषां सत्यरथो मुखम्। एते योत्स्यन्ति सङ्ग्रामे संस्मरन्तः पुराकृतमक्
व्यलीकं पाण्डवेयेन भीमसेनानुजेन ह। दिशो विजयता राजञ्श्वेतवाहेन भारत
ते हनिष्यन्ति पार्थानां तानासाद्य महारथान्। वरान्वरान्महेष्वासान्क्षत्रियाणां धुरंधरान्
लक्ष्णणस्तव पुत्रश्च तथा दुःशासनस्य च। उभौ तौ पुरुषव्याघ्रौ संग्रामेष्वपलायिनौ
तरुणौ सुकुमारौ च राजपुत्रौ रतस्विनौ । युद्धानां च विशेषज्ञौ प्रणेतारौ च सर्वशः
रथौ तौ कुरुशार्दूल मतौ मे रथसत्तमौ । क्षत्रधर्मरतौ वीरौ महत्कर्म करिष्यतः
दण्डधारो महाराज रथ एको नरर्षभ । योत्स्यते तव सङ्ग्रामे स्वेन सैन्येन पालितः
बृहद्बलस्तथा राजा कौसल्यो रथसत्तमः । रथो मम मतस्तात महावेगपराक्रमः
एष योत्स्यति सङ्ग्रामे स्वान्बन्धून्संप्रहर्षयन् । उग्रायुधो महेष्वासो धार्तराष्ट्रहिते रतः