किं पुनस्त्वयि दुर्धर्पे सैनापत्ये व्यवस्थिते। द्रोणे च पुरुषव्याघ्रे स्थिते युद्धाभिनन्दिनि
भवद्र्यां पुरुषाग्र्याभ्यां स्थिताभ्यां विजयो मम। न दुर्लभं कुरुश्रेष्ठ देवराज्यमपि ध्रुवम्
रथसङ्ख्यां तु कार्त्स्न्येन परेषामात्मनस्तथा । तथैवातिरथानां च वेत्तुमिच्छामि कौरव
पितामहो हि कुशलः परेषामात्मनस्तथा । श्रोतुमिच्छाम्यहं सर्वैः सहैभिर्वसुधाधिपैः
गान्धारे श्रृणु राजेन्द्र रथसंख्यां स्वके बले। ये रथाः पृथिवीपाल तथैवातिरथाश्च ये
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च। रथानां तव सेनायां यथामुख्यं तु मे श्रुणु
भवानग्रे रथोदारः सह सर्वैः सहोदरैः । दुःशासनप्रभृतिभिर्भ्रातृभिः शतसंमितैः
सर्वे कृतप्रहरणाश्छेदभेदविशारदाः । रथोपस्थे गजस्कन्धे गदाप्रासासिचर्मणि
संयन्तारः प्रहर्तारः कृतास्त्रा भारसाधनाः । इष्वस्त्रे द्रोणशिष्याश्च कृपस्य च शरद्वतः
एते हनिष्यन्ति रणे पाञ्चालान्युद्धदुर्मदान् । कृतकिल्बिषाः पाण्डवेयैर्धार्तराष्ट्रा मनस्विनः
तथाऽहं भरतश्रेष्ठ सर्वसेनापतिस्तव। शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान्
न त्वात्मनो गुणान्वक्तुमर्हामि विदितोऽस्मि ते। कृतवर्मा त्वयिरथो भोजः शस्त्रभृतां वरः
अर्थसिद्धिं तव रणे करिष्यति न संशयः। शस्त्रविद्भिरनाधृष्यो दूरपाती दृढायुधः
हनिष्यति चमूं तेषां महेन्द्रो दानवानिव । मद्रराजो महेष्वासः शल्यो मेऽतिरथो मतः
स्पर्धते वासुदेवेन नित्यं यो वै रणेरणे। भागिनेयान्निजांस्त्यक्त्वा शल्यस्तेऽतिरथो मतः। एष योत्स्यति संग्रामे पाण्डवांश्च महारथान्
सागरोर्मिसमैर्बाणैः प्लावयन्निव शातवान् । भूरिश्रवाः कृतास्रश्च तव चापि हितः सुहृत्
सौमदत्तिर्महेष्वासो रथयूथपयूथपः। वलक्षयममित्राणां सुमहान्तं करिष्यति
सिन्धुराजो महाराज मतो मे द्विगुणो रथाः। योत्स्यते समरे राजन्विक्रान्तो रथसत्तमः
द्रौपदीहरणे राजन्परिक्लिष्टश्च पाण्डवैः । संस्मरंस्तं परिक्लेशं योत्स्यते परवीरहा
एतेन हि तदा राजंस्तप आस्थाय दारुणम् । सुदुर्लभो वरो लब्धः पाण्डवान्योद्ध्रुमाहवे
स एष रथशार्दूलस्तद्वैरं संस्मरन्रणे। योत्स्यते पाण्डवैस्तात प्राणांस्त्यक्त्वा सुदुस्त्यजान्
सुदक्षिणस्तु काम्भोजो रथ एकगुणो मतः। तवार्थसिद्धिमाकाङ्क्षन्योत्स्यते समरे परैः
एतस्य रथसिंहस्य तवार्थे राजसत्तम। पराक्रमं यथेन्द्रस्य द्रक्ष्यन्ति कुरवो युधि
एतस्य रथवंशे हि तिग्मवेगप्रहारिणः । काम्भोजानां महाराज शलभानामिवायतिः
नीलो माहिष्यतीवासी नीलवर्मा रथस्तव। रथवंशेन कदनं शत्रूणां वै करिष्यति
कृतवैरः पुरा चैव सहदेवेन मारिष। योत्स्यते सततं राजंस्तवार्थे कुरुनन्दन
विन्दानुविन्दावावन्त्यौ संमतौ रथसत्तमौ । कृतिनौ समरे तात दृढवीर्यपराक्रमौ
एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं प्रधक्ष्यतः। गदाप्रासासिनाराचैस्तोमरैश्च करच्यतैः
युद्धाभिकामौ समरे क्रीडन्ताविव यूथपौ । यूथमध्ये महाराज विचरन्तौ कृतान्तवत्
त्रिगर्ता भ्रातरः पञ्च रथोदारा मता मम। कृतवैराश्च पार्थैस्ते विराटनगरे तदा