अर्जुनस्य समादेशं यथोक्तं सर्वमब्रवीत् । वासुदेवस्य भीमस्य धर्मराजस्य पौरुषम्
नकुलस्य विराटस्य द्रुपदस्य च भारत । सहदेवस्य च वचो धृष्टद्युम्नशिखण्डिनोः। केशवार्जुनयोर्वाक्यं यथोक्तं सर्वमब्रवीत्
कैतव्यस्य तु तद्वाक्यं निशम्य भरतर्षभः । दुःशासनं च कर्णं च शकुनिं चापि भारत
आज्ञपयत राज्ञश्च बलं मित्रबलं तथा। यथा प्रागुदयात्सर्वे युक्तास्तिष्ठन्त्यनीकिनः
ततः कर्णसमादिष्टा दूताः सन्त्वरिता रथैः । उष्ट्रवामीभिरप्यन्ये सदश्वैश्च महाजवैः
तूर्णं परिययुः सेनां कृत्स्नां कर्णस्य शासनात्। आज्ञापयन्तो राज्ञश्च योगः प्रागुदयादिति
उलूकस्य वृत्तः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः। सेनां नियापयामास धृष्टद्युम्नपुरोगमाम्
पदातिनीं नागवतीं रथिनीमश्वबृन्दिनीम् । चतुर्विधबलां भीमामकम्पां पृथिवीमिव
भीमसेनादिभिर्गुप्तां सार्जुनैश्च महारथैः । धृष्टद्युम्नवशां दुर्गां सागरस्तिमितोपमाम्
तस्यास्त्वग्रे महेष्वासः पाञ्चाल्यो युद्धदुर्मदः। द्रोणप्रेप्सुरनीकानि धृष्टद्युम्नो व्यकर्षत
यथाबलं यथोत्साहं रथिनः समुपादिशत् । अर्जुनं सूतपुत्राय भीमं दुर्योधनाय च
धृष्टकेतुं च शल्याय गौतमायोत्तमौजसम् । अश्वात्थाम्ने च नकुलं शैब्यं च कृतवर्मणे
सैन्धवाय च वार्ष्णेयं युयुधानं समादिशत्। शिखण्डिनं च भीष्माय प्रमुखे समकल्पयत्
सहदेवं शकुनये चेकितानं शलाय वै। द्रौपदेयांस्तथा पञ्च त्रिगर्तेभ्यः समादिशत्
वृषसेनाय सौभद्रं शेषाणां च महीक्षिताम् । स समर्थं हि तं मेने पार्थादभ्यधिकं रणे
एवं विभज्य योधांस्तान्पृथक्व सह चैव ह । ज्वालावर्णो महेष्वासो द्रोणमंशमकल्पयत्
धृष्टद्युम्नो महेष्वासः सेनापतिपतिस्ततः । विधिवद्व्यूह्य मेधावी युद्धाय धृतमानसः
यथोद्दिष्टानि सैन्यानि पाण्डवानामयोजयत्। जयाय पाण्डुपुत्राणां यत्तस्तस्थौ रणाजिरे
प्रतिज्ञाते फाल्गुनेन वधे भीष्मस्य संयुगे। किमकुर्वत मे मन्दाः पुत्रा दुर्योधनादयः
हतमेव हि पश्यामि गाङ्गेयं पितरं रणे। वासुदेवसहायेन पार्थेन दृढधन्वना
स चापरिमितप्रज्ञस्तच्छ्रुत्वा पार्थभाषितम् । किमुक्तवान्महेष्वासो भीष्मः प्रहरतां वरः
सैनापत्यं च संप्राप्य कौरवाणां धुरंधरः । किमचेष्टत गाङ्गेयो महाबुद्धिपराक्रमः
ततस्तत्सञ्जयस्तस्मै सर्वमेव न्यवेदयत्। यथोक्तं कुरुवृद्धेन भीष्मेणामिततेजसा
सैनापत्यमनुप्राप्य भीष्मः शान्तनवो नृप। दुर्योधनमुवाचेदं वचनं हर्षयन्निव
नमस्कृत्य कुमाराय सेनान्ये शक्तिपाणये । अहं सेनापतिस्तेऽद्य भविष्यामि न संशयः
सेनाकर्मण्यिज्ञोऽस्मि व्यूहेषु विविधेषु च। कर्म कारयितुं चैव भृतानप्यभृतांस्तथा
यात्रायाने च युद्धे च तथा प्रशमनेषु च । भृशं वेद महाराज यथा वेद बृहस्पतिः
व्यूहानां च समारम्भान्दैवगान्धर्वमानुषान्। तैरहं मोहयिष्यामि पाण्डवान्व्येतु ते ज्वरः
सोऽहं योत्स्यामि तत्त्वेन पालयंस्तव वाहिनीम् । यथावच्छास्त्रतो राजन्व्येतु ते मानसो ज्वरः
विद्यते मे न गाङ्गेय भयं देवासुरेष्वपि । समस्तेषु महाबाहो सत्यमेतद्ब्रवीमि ते