शठं नैकृतिकं पापं दुराचारं सुयोधनम् ।। गृध्रोदरे वा वस्तव्यं पुरे वा नागसाह्वये
प्रतिज्ञातं मया यच्च सभामध्ये नराधम ।। कर्ताहं तद्वचः सत्यं सत्येनैव शपामि ते
दुःशासनस्य रुधिरं हत्वा पास्याम्यहं मृधे ।। सक्थिनी तव भंक्त्वैव हत्वा हि तव सोदनान्
सर्वेषां राजपुत्राणामभिमन्युरसंशयम् । कर्मणा तोषयिष्यामि भूयश्चैव वचः श्रृणु
हत्वा सुयोधन त्वां वै सहितं सर्वसोदरैः । आक्रमिष्ये पदा मूर्ध्नि धर्मराजस्य पश्यतः
नकुलस्तु ततो वाक्यमिदमाह महीपते। उलूक ब्रूहि कौरव्यं धार्तराष्ट्रं सुयोधनम्
श्रुतं ते गदतो वाक्यं सर्वमेव यथातथम्। तथा कर्तास्मि कौरव्य यथा त्वमनुशासि मां
सहदेवोऽपि नृपते इदमाह वचोऽर्थवत् । सुयोधन मतिर्या ते वृथैषा ते भविष्यति
शोचिष्यसे महाराज सपुत्रज्ञातिबान्धवः । इमं च क्लेशमस्माकं हृष्टो यत्त्वं विकत्थसे
विराटद्रुपदौ वृद्धावुलूकमिदमूचतुः । दासभावं नियच्छेव साधोरिति मतिः सदा। तौ च दासावदासौ वा पौरुषं यस्य यादृशम्
शिखण्डी तु ततो वाक्यमुलूकमिदमब्रवीत् । वक्तव्यो भवता राजा पापेष्वभिरतः सदा
पश्य त्वं मां रणे राजन्कुर्वाणं कर्म दारुणम् । यस्य वीर्यं समासाद्य मन्यसे विजयं युधि
तमहं पातयिष्यामि रथात्तव पितामहम्। अहं भीष्मवधात्सृष्टो नूनं धात्रा महात्मना
सोऽहं भीष्मं हनिष्यामि मिषतां सर्वधन्विनाम् । धृष्टद्युम्नोऽपि कैतव्यमुलूकमिदमब्रवीत्
सुयोधनो मम वचो वक्तव्यो नृपतेः सुतः। अहं द्रोणं हनिष्यामि सगणं सहबान्धवम्
अवश्यं च मया कार्यं पूर्वेषां चरितं महत् । कर्ता चाहं तथा कर्म यथा नान्यः करिष्यति
तमब्रवीद्धर्मराजः कारुण्यार्थं वचो महत्। नाहं ज्ञातिवधं राजन्कामयेयं कथंचन
तवैव दोषाद्दुर्बुद्धे सर्वमेतत्त्वनावृतम् । स गच्छ माचिरं तात उलूक यदि मन्यसे
इह वा तिष्ठ भद्रं ते वयं हि तव बान्धवाः । उलूकस्तु ततो राजन्धर्मपुत्रं युधिष्ठिरम्
आमन्त्र्य प्रययौ तत्र यत्र राजा सुयोधनः । उलूकस्तत आगमक्य दुर्योधनममर्षणम्
अर्जुनस्य समादेशं यथोक्तं सर्वमब्रवीत् । वासुदेवस्य भीमस्य धर्मराजस्य पौरुषम्
नकुलस्य विराटस्य द्रुपदस्य च भारत । सहदेवस्य च वचो धृष्टद्युम्नशिखण्डिनोः। केशवार्जुनयोर्वाक्यं यथोक्तं सर्वमब्रवीत्
कैतव्यस्य तु तद्वाक्यं निशम्य भरतर्षभः । दुःशासनं च कर्णं च शकुनिं चापि भारत
आज्ञपयत राज्ञश्च बलं मित्रबलं तथा। यथा प्रागुदयात्सर्वे युक्तास्तिष्ठन्त्यनीकिनः
ततः कर्णसमादिष्टा दूताः सन्त्वरिता रथैः । उष्ट्रवामीभिरप्यन्ये सदश्वैश्च महाजवैः
तूर्णं परिययुः सेनां कृत्स्नां कर्णस्य शासनात्। आज्ञापयन्तो राज्ञश्च योगः प्रागुदयादिति
उलूकस्य वृत्तः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः। सेनां नियापयामास धृष्टद्युम्नपुरोगमाम्
पदातिनीं नागवतीं रथिनीमश्वबृन्दिनीम् । चतुर्विधबलां भीमामकम्पां पृथिवीमिव
भीमसेनादिभिर्गुप्तां सार्जुनैश्च महारथैः । धृष्टद्युम्नवशां दुर्गां सागरस्तिमितोपमाम्
तस्यास्त्वग्रे महेष्वासः पाञ्चाल्यो युद्धदुर्मदः। द्रोणप्रेप्सुरनीकानि धृष्टद्युम्नो व्यकर्षत