स दर्पपूर्णो न समीक्षसे त्व- मनर्थमात्मन्यपि वर्तमानम्। तस्मादहं ते प्रथमं समूहे हन्ता समक्ष कुरुवृद्धमेव
सूर्योदये युक्तसेनः प्रतीक्ष्य ध्वजी रथी रक्षत सत्यसन्धम्। अहं हि वः पश्यतां द्विपमेनं भीष्मं रथात्पातयिष्यामि बाणैः
श्वोभूते कत्थनावाक्यं विज्ञास्यति सुयोधनः। आचितं शरजालेन मया दृष्ट्वा पितामहम्
यदुक्तश्च सभामध्ये पुरुषो ह्रस्वदर्शनः। क्रुद्धेन भीमसेनेन भ्राता दुःशासनस्तव
अधर्मज्ञो नित्यवैरी पापबुद्धिर्नृशंसकृत्। सत्यां प्रतिज्ञामचिराद्द्रक्ष्यसे तां सुयोधन
अभिमानस्य दर्पस्य क्रोधपारुष्ययोस्तथा। नैष्ठुर्यस्यावलेपस्य आत्मसंभावनस्य च
नृशंसतायास्तैक्ष्ण्यस्य धर्मविद्वेषणस्य च। अधर्मस्यातिवादस्य वृद्धातिक्रमणस्य च
दर्शनस्य च चक्रस्य कृत्स्नस्यापनयस्य च। द्रक्ष्यसि त्वं फलं तीव्रमचिरेण सुयोधन
वासुदेवद्वितीये हि मयि क्रुद्धे नराधम। आशा ते जीविते मूढ राज्ये वा केन हेतुना
शान्ते भीष्मे तथा द्रोणे सूतपुत्रे च पातिते। निराशो जीविते राज्ये पुत्रेषु च भविष्यसि
भ्रातॄणां निधनं श्रुत्वा पुत्राणां च सुयोधन । भीमसेनेन निहतो दुष्कृतानि स्मरिष्यसि
न द्वितीयां प्रतिज्ञां हि प्रतिजानामि कैतव । सत्यं ब्रवीम्यहं ह्येतत्सर्वं सत्यं भविष्यति
युधिष्ठिरोऽपि कैतव्यमुलूकमिदमब्रवीत्। उलूक मद्वचो ब्रूहि गत्वा तात सुयोधनम्
स्वेन वृत्तेन मे वृत्तं नाधिगन्तुं त्वमर्हसि । उभयोरन्तरं वेद सूनृतानृतयोरपि
न चाहं कामये पापमपि कीटपिपीलकयोः। किं पुनर्ज्ञातिषु वधं कामयेयं कथं च न
एतदर्थं मया तात पञ्च ग्रामा वृताः पुरा। कथं तव सुदुर्बुद्धे न प्रेक्ष्ये व्यसनं महत्
स त्वं कामपरीतात्मा मूढभावाच्च कत्थसे। तथैव वासुदेवस्य न गृह्णासि हितं वचः
किंचेदानीं बहूक्तेन युध्यस्व सह बान्धवैः। मम विप्रियकर्तारं कैतव्य सह बान्धवैः
मम विप्रियकर्तारं कैतव्य ब्रूहि कौरवम् ।। श्रुतं वाक्यं गृहीतोऽर्थो मतं यत्ते तथास्तु तत्
भीमसेनस्ततो वाक्यं भूय आह नृपात्मजम् ।। उलूक मद्वचो ब्रूहि दुर्मतिं पापपूरुषम्
शठं नैकृतिकं पापं दुराचारं सुयोधनम् ।। गृध्रोदरे वा वस्तव्यं पुरे वा नागसाह्वये
प्रतिज्ञातं मया यच्च सभामध्ये नराधम ।। कर्ताहं तद्वचः सत्यं सत्येनैव शपामि ते
दुःशासनस्य रुधिरं हत्वा पास्याम्यहं मृधे ।। सक्थिनी तव भंक्त्वैव हत्वा हि तव सोदनान्
सर्वेषां राजपुत्राणामभिमन्युरसंशयम् । कर्मणा तोषयिष्यामि भूयश्चैव वचः श्रृणु
हत्वा सुयोधन त्वां वै सहितं सर्वसोदरैः । आक्रमिष्ये पदा मूर्ध्नि धर्मराजस्य पश्यतः
नकुलस्तु ततो वाक्यमिदमाह महीपते। उलूक ब्रूहि कौरव्यं धार्तराष्ट्रं सुयोधनम्
श्रुतं ते गदतो वाक्यं सर्वमेव यथातथम्। तथा कर्तास्मि कौरव्य यथा त्वमनुशासि मां
सहदेवोऽपि नृपते इदमाह वचोऽर्थवत् । सुयोधन मतिर्या ते वृथैषा ते भविष्यति
शोचिष्यसे महाराज सपुत्रज्ञातिबान्धवः । इमं च क्लेशमस्माकं हृष्टो यत्त्वं विकत्थसे
विराटद्रुपदौ वृद्धावुलूकमिदमूचतुः । दासभावं नियच्छेव साधोरिति मतिः सदा। तौ च दासावदासौ वा पौरुषं यस्य यादृशम्