ततस्ते पार्थिवाः सर्वे प्रशशंसुर्धनञ्जयम् । तेन वाक्योपचारेण विस्मिता राजसत्तमाः
अनुनीय च तान्सर्वान्यथामान्यं यथावयः। धर्मराजं तदा वाक्यं तत्प्राप्यं प्रत्यभाषत
आत्मानमवमन्वानो न हि स्यात्पार्थिवोत्तमः । तत्रोत्तरं प्रवक्ष्यामि तव शुश्रूषणे रतः
उलूकं भरतश्रेष्ठ सामपूर्वमथोर्जितम् । दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभः
अतिलोहितनेत्राभ्यामाशीविष इव श्वसन् । स्मयमान इव क्रोधात्सृक्किणी परिसंलिहन्
जनार्दनमभिप्रेक्ष्य भ्रातॄंश्चैवेदमब्रवीत् । अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम्
उलूक गच्छ कैतव्य ब्रूहि तात सुयोधनम् । कृतघ्नं वैरपुरुषं दुर्मतिं कुलपांसनम्
पाण्डवेषु सदा पाप नित्यं जिह्मं प्रवर्तते। स्ववीर्याद्यः पराक्रम्य पाप आह्वयते परान्। अभीतः पूरयन्वाक्यमेष वैः क्षत्रियः पुमान्
स पापः क्षत्रियो भूत्वा अस्मानाहूय संयुगे। मान्यामान्यान्पुरस्कृत्य युद्धं मा गाः कुलाधम
आत्मवीर्यं समाश्रिकत्य भृत्यवीर्यं च कौरव । आह्वयस्व रणे पार्थान्सर्वथा क्षत्रियो भव
परवीर्यं समाश्रित्य यः समाह्वयते परान्। अशक्तः स्वयमादातुमेतदेव नपुंसकम्
स त्वं परेषां वीर्येण आत्मानं बहुमन्यसे । कथमेवमशक्तस्त्वमस्मान्समभिगर्जसि
मद्वचश्चापि भूयस्ते वक्तव्यः स सुयोधनः। श्व इदानीं प्रपद्येथाः पुरुषो भव दुर्मते
मन्यसे यच्च मूढ त्वं न योत्स्यति जनार्दनः। सारथ्येन वृतः पार्थैरिति त्वं न बिभेषि च
जघन्यकालमप्येतन्न भवेत्सर्वपार्थिवान्। निर्दहेयमहं क्रोधात्तृणानीव हुताशनः
युधिष्ठिरनियोगात्तु फाल्गुनस्य महात्मनः । करिष्ये युध्यमानस्य सारथ्यं विजितात्मनः
यद्युत्पतसि लोकांस्त्रीन्यद्याविशसि भूतलम् । तत्रतत्रार्जुनरथं प्रभाते द्रक्ष्यसे पुनः
यच्चापि भीमसेनस्य मन्यसे मोघभाषितम् । दुःशासनस्य रुधिरं पीतमद्यावधारय
न त्वां समीक्षते पार्थो नापि राजा युधिष्ठिरः। न भीमसेनो न यमौ प्रतिकूलप्रभाषिणम्
दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभ । नेत्राभ्यामतिताम्राभ्यां कैतव्यं समुदैक्षत
स केशवमभिप्रेक्ष्य गुडाकेशो महायशाः । अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम्
स्ववीर्यं यः समाश्रित्य समाह्वयति वै परान् । अभीतो युध्यते शत्रून्स वै पुरुष उच्यते
परवीर्यं समाश्रित्य यः समाह्वयते परान् । क्षत्रबन्धुरशक्तत्वाल्लोके स पुरुषाधमः
स त्वं परेषां वीर्येण मन्यसे वीर्यमात्मनः । स्वयं कापुरुषो मूढ परांश्च क्षेप्तुमिच्छसि
यस्त्वं वृद्धं सर्वराज्ञां हितबुद्धिं जितेन्द्रियम् । मरणाय महाप्रज्ञं दीक्षयित्वा विकत्थसे
भावस्ते विदितोऽस्माभिर्दुर्बुद्धे कुलपांसन । न हनिष्यन्ति गाङ्गेयं पाण्डवा घृणयेति हि
यस्य वीर्यं समाश्रित्य धार्तराष्ट्र विकत्थसे। हन्तास्मि प्रथमं भीष्मं मिषतां सर्वधन्विनाम्
कैतव्य गत्वा भरतान्समेत्य सुयोधनं धार्तराष्ट्रं वदस्व। तथेत्युवाचार्जुनः सव्यसाची निशाव्यपाये भविता विमर्दः
सुयोधनं धार्तराष्ट्रं वदस्व
हन्यामहं द्रोणमृतेऽपि लोकं न ते भयं विद्यते पाण्डवेभ्यः । ततो हि ते लब्धमतं च राज्य- मापद्गताः पाण्डवाश्चेति भावः