तस्य वैरानुषङ्गस्य गन्तास्म्यन्तं सुदुर्गमम्। अहमादौ निहत्य त्वां शकुनेः संप्रपश्यतः
ततोऽस्मि शकुनिं हन्ता मिषतां सर्वधन्विनाम्। भीमस्य वचनं श्रुत्वा सहदेवस्य चोभयोः
उवाच फाल्गुनो वाक्यं भीमसेनं स्मयन्निव। भीमसेन न ते सन्ति येषां वैरं त्वया सह
मन्दा गृहेषु सुखिनो मृत्युपाशवशं गताः। उलूकश्च न ते वाच्यः परुषं पुरुषोत्तम
दूताः किमपराध्यन्ते यथोक्तस्यानुभाषिणः । एवमुक्त्वा महाबाहुर्भीमं भीमपराक्रमम्
धृष्टद्युम्नसुखान्वीरान्सुहृदः समभाषत। श्रुतं वस्तस्य पापस्य धार्तराष्ट्रस्य भाषितम्
कुत्सनं वासुदेवस्य मम चैव विशेषतः। श्रुत्वा भवन्तः संरब्धा अस्माकं हितकाम्यया
प्रभावाद्वासुदेवस्य भवतां च प्रयत्नतः। समग्रं पार्थिवं क्षत्रं सर्वं न गणयाम्यहम्
भवद्भिः समनुज्ञातो वाक्यमस्य यदुत्तरम् । उलूके प्रापयिष्यामि यद्वक्ष्यति सुयोधनम्
श्वो भूते कत्थितस्यास्य प्रतिवाक्यं चमूमुखे। गाण्डीवेनाभिधास्याकमि क्लीबा हि वचनोत्तराः
ततस्ते पार्थिवाः सर्वे प्रशशंसुर्धनञ्जयम् । तेन वाक्योपचारेण विस्मिता राजसत्तमाः
अनुनीय च तान्सर्वान्यथामान्यं यथावयः। धर्मराजं तदा वाक्यं तत्प्राप्यं प्रत्यभाषत
आत्मानमवमन्वानो न हि स्यात्पार्थिवोत्तमः । तत्रोत्तरं प्रवक्ष्यामि तव शुश्रूषणे रतः
उलूकं भरतश्रेष्ठ सामपूर्वमथोर्जितम् । दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभः
अतिलोहितनेत्राभ्यामाशीविष इव श्वसन् । स्मयमान इव क्रोधात्सृक्किणी परिसंलिहन्
जनार्दनमभिप्रेक्ष्य भ्रातॄंश्चैवेदमब्रवीत् । अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम्
उलूक गच्छ कैतव्य ब्रूहि तात सुयोधनम् । कृतघ्नं वैरपुरुषं दुर्मतिं कुलपांसनम्
पाण्डवेषु सदा पाप नित्यं जिह्मं प्रवर्तते। स्ववीर्याद्यः पराक्रम्य पाप आह्वयते परान्। अभीतः पूरयन्वाक्यमेष वैः क्षत्रियः पुमान्
स पापः क्षत्रियो भूत्वा अस्मानाहूय संयुगे। मान्यामान्यान्पुरस्कृत्य युद्धं मा गाः कुलाधम
आत्मवीर्यं समाश्रिकत्य भृत्यवीर्यं च कौरव । आह्वयस्व रणे पार्थान्सर्वथा क्षत्रियो भव
परवीर्यं समाश्रित्य यः समाह्वयते परान्। अशक्तः स्वयमादातुमेतदेव नपुंसकम्
स त्वं परेषां वीर्येण आत्मानं बहुमन्यसे । कथमेवमशक्तस्त्वमस्मान्समभिगर्जसि
मद्वचश्चापि भूयस्ते वक्तव्यः स सुयोधनः। श्व इदानीं प्रपद्येथाः पुरुषो भव दुर्मते
मन्यसे यच्च मूढ त्वं न योत्स्यति जनार्दनः। सारथ्येन वृतः पार्थैरिति त्वं न बिभेषि च
जघन्यकालमप्येतन्न भवेत्सर्वपार्थिवान्। निर्दहेयमहं क्रोधात्तृणानीव हुताशनः
युधिष्ठिरनियोगात्तु फाल्गुनस्य महात्मनः । करिष्ये युध्यमानस्य सारथ्यं विजितात्मनः
यद्युत्पतसि लोकांस्त्रीन्यद्याविशसि भूतलम् । तत्रतत्रार्जुनरथं प्रभाते द्रक्ष्यसे पुनः
यच्चापि भीमसेनस्य मन्यसे मोघभाषितम् । दुःशासनस्य रुधिरं पीतमद्यावधारय
न त्वां समीक्षते पार्थो नापि राजा युधिष्ठिरः। न भीमसेनो न यमौ प्रतिकूलप्रभाषिणम्
दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभ । नेत्राभ्यामतिताम्राभ्यां कैतव्यं समुदैक्षत