मयापि च प्रतिज्ञातो वधः सभ्रातृकस्य ते। स तथा भविता पाप नात्र कार्या विचारणा
वेलामतिक्रमेत्सद्यः सागरो वरुणालयः । पर्वताश्च विशीर्येयुर्मयोक्तं न मृषा भवेत्
सहायस्ते यदि यमः कुबेरो रुद्र एव वा। यथाप्रतिज्ञं दुर्बुद्धे प्रकरिष्यन्ति पाण्डवाः । दुःशासनस्य रुधिरं पाता चास्मि यथेप्सितम्
यश्चेह प्रतिसंरब्धः क्षत्रियो माभियास्यति। अपि भीष्मं पुरुस्कृत्य तं नेष्यामि यमक्षयम्
यच्चैतदुक्तं वचनं मया क्षत्रस्य संसदि। यथैतद्भविता सत्यं तथैवात्मानमालभे
भीमसेनवचः श्रुत्वा सहदेवोऽप्यमर्षणः । क्रोधसंरक्तनयनस्ततो वाक्यमुवाच ह
शौटीरशूरसदृशमनीकजनसंसदि। श्रृणु पाप वचो मह्यं यद्वाच्यो हि पितात्वया
नास्माकं भविता भेदः कदाचित्कुरुभिः सह । धृतराष्ट्रस्य संबन्धो यदि न स्यात्त्वया सह
त्वं तु लोकविनाशाय धृतराष्ट्रकुलस्य च। उत्पन्नो वैरपुरुषः स्वकुलघ्नश्च पापकृत्
जन्मप्रभृति चास्माकं पिता ते पापपूरुषः । अहितानि नृशंसानि नित्यशः कर्तुमिच्छति
तस्य वैरानुषङ्गस्य गन्तास्म्यन्तं सुदुर्गमम्। अहमादौ निहत्य त्वां शकुनेः संप्रपश्यतः
ततोऽस्मि शकुनिं हन्ता मिषतां सर्वधन्विनाम्। भीमस्य वचनं श्रुत्वा सहदेवस्य चोभयोः
उवाच फाल्गुनो वाक्यं भीमसेनं स्मयन्निव। भीमसेन न ते सन्ति येषां वैरं त्वया सह
मन्दा गृहेषु सुखिनो मृत्युपाशवशं गताः। उलूकश्च न ते वाच्यः परुषं पुरुषोत्तम
दूताः किमपराध्यन्ते यथोक्तस्यानुभाषिणः । एवमुक्त्वा महाबाहुर्भीमं भीमपराक्रमम्
धृष्टद्युम्नसुखान्वीरान्सुहृदः समभाषत। श्रुतं वस्तस्य पापस्य धार्तराष्ट्रस्य भाषितम्
कुत्सनं वासुदेवस्य मम चैव विशेषतः। श्रुत्वा भवन्तः संरब्धा अस्माकं हितकाम्यया
प्रभावाद्वासुदेवस्य भवतां च प्रयत्नतः। समग्रं पार्थिवं क्षत्रं सर्वं न गणयाम्यहम्
भवद्भिः समनुज्ञातो वाक्यमस्य यदुत्तरम् । उलूके प्रापयिष्यामि यद्वक्ष्यति सुयोधनम्
श्वो भूते कत्थितस्यास्य प्रतिवाक्यं चमूमुखे। गाण्डीवेनाभिधास्याकमि क्लीबा हि वचनोत्तराः
ततस्ते पार्थिवाः सर्वे प्रशशंसुर्धनञ्जयम् । तेन वाक्योपचारेण विस्मिता राजसत्तमाः
अनुनीय च तान्सर्वान्यथामान्यं यथावयः। धर्मराजं तदा वाक्यं तत्प्राप्यं प्रत्यभाषत
आत्मानमवमन्वानो न हि स्यात्पार्थिवोत्तमः । तत्रोत्तरं प्रवक्ष्यामि तव शुश्रूषणे रतः
उलूकं भरतश्रेष्ठ सामपूर्वमथोर्जितम् । दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभः
अतिलोहितनेत्राभ्यामाशीविष इव श्वसन् । स्मयमान इव क्रोधात्सृक्किणी परिसंलिहन्
जनार्दनमभिप्रेक्ष्य भ्रातॄंश्चैवेदमब्रवीत् । अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम्
उलूक गच्छ कैतव्य ब्रूहि तात सुयोधनम् । कृतघ्नं वैरपुरुषं दुर्मतिं कुलपांसनम्
पाण्डवेषु सदा पाप नित्यं जिह्मं प्रवर्तते। स्ववीर्याद्यः पराक्रम्य पाप आह्वयते परान्। अभीतः पूरयन्वाक्यमेष वैः क्षत्रियः पुमान्
स पापः क्षत्रियो भूत्वा अस्मानाहूय संयुगे। मान्यामान्यान्पुरस्कृत्य युद्धं मा गाः कुलाधम
आत्मवीर्यं समाश्रिकत्य भृत्यवीर्यं च कौरव । आह्वयस्व रणे पार्थान्सर्वथा क्षत्रियो भव