आर्तं वातात्मजं दृष्ट्वा क्रोधेनाभिहतं भृशम् । उत्स्मयन्निव दाशार्हः कैतव्यं प्रत्यभाषत
प्रयाहि शीघ्रं कैतव्य ब्रूयाश्चैव सुयोधनम् । श्रुतं वाक्यं गृहीतोर्थो मतं यत्ते तथास्तु तत्
एवमुक्त्वा महाबाहुः केशवो राजसत्तम। पुनरेव महाप्राज्ञं युधिष्ठिरमुदैक्षत
सृञ्जयानां च सर्वेषां कृष्णस्य च यशस्विनः। द्रुपदस्य सपुत्रस्य विराटस्य च संनिधौ
भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह। उलूकोऽप्यर्जुनं भूयो यथोक्तं वाक्यमब्रवीत्
आशीविषमिव क्रुद्धं तुदन्वाक्यशलाकया। कृष्णादींश्चैव तान्सर्वान्यथोक्तं वाक्यमब्रवीत्
उलूकस्य तु तद्वाक्यं पापं दारुणमीरितम् । श्रुत्वा विचुक्षुभे पार्थो ललाटं चाप्यमार्जयत्
तदवस्थं तदा दृष्ट्वा पार्थं सा समितिर्नृप । नामृष्यत महाराज पाण्डवानां महारथाः
अधिक्षेपेण कृष्णस्य पार्थस्य च महात्मनः। श्रुत्वा ते पुरुषव्याघ्राः क्रोधाञ्जज्वलुरच्युत
धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः। केकया भ्रातरः पञ्च राक्षसश्च घटोत्कचः
द्रौपदेयाभिमन्युश्च धृष्टकेतुश्च पार्थिवः । भीमसेनश्च विक्रान्तो यमजौ च महारथौ
उत्पेतुरासनात्सर्वे क्रोधसंरक्तलोचनाः। बाहुन्प्रगृह्य रुचिरान्रक्तचन्दनरूषितान्। अङ्गदैः पारिहार्यैश्च केयूरैश्च विभूषितान्
दन्तान्दन्तेषु निष्पिष्य सृक्किणी परिलेलिहन् । तेषामाकारभावज्ञः कुन्तीपुत्रो वृकोदरः
उदतिष्ठत्स वेगेन क्रोधेन प्रज्वलन्निव। उद्वृत्य सहसा नेत्रे दन्तान्कटकटाय्य च
हस्तं हस्तेन निष्पिष्य उलूकं वाक्यमब्रवीत्। अशक्तानामिवास्माकं प्रोत्साहननिमित्तकम्
श्रुतं ते चवनं मूर्ख यत्त्वां दुर्योधनोऽब्रवीत्। तन्मे कथयतो मन्द श्रृणु वाक्यं दुरासदम्
सर्वक्षत्रस्य मध्ये तं यद्वक्ष्यसि सुयोधनम् । श्रृण्वतः सूतपुत्रस्य पितुश्च त्वं दुरात्मनः
अस्माभिः प्रीतिकामैस्तु भ्रातुर्ज्येष्ठस्य नित्यशः। मर्षितं ते दुराचार तत्त्वं न बहु मन्यसे
प्रेषितश्च हृषीकेशः शमाकाङ्क्षी कुरून्प्रति । कुलस्य हितकामेन धर्मराजेन धीमता
त्वं कालचोदितो नूनं गन्तुकामो यमक्षयम् । गच्छस्वाहवमस्माभिस्तच्च श्वो भविता ध्रुवम्
मयापि च प्रतिज्ञातो वधः सभ्रातृकस्य ते। स तथा भविता पाप नात्र कार्या विचारणा
वेलामतिक्रमेत्सद्यः सागरो वरुणालयः । पर्वताश्च विशीर्येयुर्मयोक्तं न मृषा भवेत्
सहायस्ते यदि यमः कुबेरो रुद्र एव वा। यथाप्रतिज्ञं दुर्बुद्धे प्रकरिष्यन्ति पाण्डवाः । दुःशासनस्य रुधिरं पाता चास्मि यथेप्सितम्
यश्चेह प्रतिसंरब्धः क्षत्रियो माभियास्यति। अपि भीष्मं पुरुस्कृत्य तं नेष्यामि यमक्षयम्
यच्चैतदुक्तं वचनं मया क्षत्रस्य संसदि। यथैतद्भविता सत्यं तथैवात्मानमालभे
भीमसेनवचः श्रुत्वा सहदेवोऽप्यमर्षणः । क्रोधसंरक्तनयनस्ततो वाक्यमुवाच ह
शौटीरशूरसदृशमनीकजनसंसदि। श्रृणु पाप वचो मह्यं यद्वाच्यो हि पितात्वया
नास्माकं भविता भेदः कदाचित्कुरुभिः सह । धृतराष्ट्रस्य संबन्धो यदि न स्यात्त्वया सह
त्वं तु लोकविनाशाय धृतराष्ट्रकुलस्य च। उत्पन्नो वैरपुरुषः स्वकुलघ्नश्च पापकृत्
जन्मप्रभृति चास्माकं पिता ते पापपूरुषः । अहितानि नृशंसानि नित्यशः कर्तुमिच्छति