अतीतकाले दुर्भिक्षे अभ्येत्य पुनराक्षमम्। मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः
मतङ्गं याजयाञ्चक्रे यत्र प्रीतमनाः स्वयम्। त्वं च सोमं भयाद्यस्य गतः पातुं सुरेश्वर
चकारान्यं च लोकं वै क्रुद्धो नक्षत्रसंपदा। प्रतिश्रवणपूर्वाणि नक्षत्राणि चकार यः। गुरुशापहतस्यापि त्रिशङ्कोः शरणं ददौ
ब्रह्मर्षिशापं राजर्षिः कथं मोक्ष्यति कौशिकः। अवमत्य तदा देवैर्यज्ञाङ्गं तद्विनाशितम्
अन्यानि च महातेजा यज्ञाङ्गान्यसृजत्प्रभुः। निनाय च तदा स्वर्गं त्रिशङ्कुं स महातपाः
एतानि यस्य कर्माणि तस्याहं भृशमुद्विजे। यथाऽसौ न दहेत्क्रुद्धस्तथाऽऽज्ञापय मां विभो
तेजसा निर्दहेल्लोकान्कम्पयेद्धरणीं पदा। संक्षिपेच्च महामेरुं तूर्णमावर्तयेद्दिशः
तादृशं तपसा युक्तं प्रदीप्तमिव पावकम्। कथमस्मद्विधा नारी जितेन्द्रियमभिस्पृशेत्
हुताशनमुखं दीप्तं सूर्यचन्द्राक्षितारकम्। कालजिह्वं सुरश्रेष्ठ कथमस्मद्विधा स्पृशेत्
यमश्च सोमश्च महर्षयश्च साध्या विश्वे वालस्विल्याश्च सर्वे। एतेऽपि यस्योद्विजन्ते प्रभावा- त्तस्मात्कस्मान्मादृशी नोद्विजेत
त्वयैवमुक्ता च कथं समीप- मृषेर्न गच्छेयमहं सुरेन्द्र। रक्षां च मे चिन्तय देवराज यथा त्वदर्थं रक्षिताऽहं चरेयम्
कामं तु मे मारुतस्तत्र वासः प्रक्रीडिताया विवृणोतु देव। भवेच्च मे मन्मथस्तत्र कार्ये सहायभूतस्तु तव प्रसादात्
वनाच्च वायुः सुरभिः प्रवाया- त्तस्मिन्काले तमृषिं लोभयन्त्याः। तथेत्युक्त्वा विहिते चैव तस्मिं- स्ततो ययौ साऽऽश्रमं कौशिकस्य
एवमुक्तस्तया शक्रः संदिदेश सदागतिम्। प्रातिष्ठत तदा काले मेनका वायुना सह
अथापश्यद्वरारोहा तपसा दग्धकिल्बिषम्। मिश्वामित्रं तप्यमानं मेनका भीरुराश्रमे
अभिवाद्य ततः सा तं प्राक्रीडदृषिसन्निधौ। अपोवाह च वासोऽस्या मारुतः शशिसंनिभम्
सागच्छत्त्वरिता भूमिं वासस्तदभिलिप्सती। कुत्सयन्तीव सव्रीडं मारुतं वरवर्णिनी
पश्यतस्तस्य राजर्षेरप्यग्निसमतेजसः। विश्वामित्रस्ततस्तां तु विषमस्थामनिन्दिताम्
गृद्धां वाससि संभ्रान्तां मेनकां मुनिसत्तमः। अनिर्देश्यवयोरूपामपश्यद्विवृतां तदा
तस्या रूपगुणान्दृष्ट्वा स तु विप्रर्षभस्तदा। चकार भावं संसर्गे तया कामवशं गतः
न्यमन्त्रयत चाप्येनां सा चाप्यैच्छदनिन्दिता। तौ तत्र सुचिरं कालमुभौ व्यवहरतां तदा
रममाणौ यथाकामं यतैकदिवसं तथा। `एवं वर्षसहस्राणामतीतं नान्वचिन्तयत्
कामक्रोधावजितवान्मुनिर्नित्यं समाहितः। चिरार्जितस्य तपसः क्षयं स कृतवान्मुनिः
तपसः संक्षयादेव मुनिर्मोहं समाविशत्। मोहाभिभूतः क्रोधात्मा ग्रसन्मूलफलान्मुनिः
पादैर्जलरवं कृत्वा अन्तर्द्वीपे कुटीं गतः। मेनका गन्तुकामा तु शुश्राव जलनिस्वनम्
तपसा दीप्तवीर्योऽसावाकाशादेति याति च। अद्य संज्ञां विजानामि ययाऽद्य तपसः क्षयः
गन्तुं न युक्तमित्युक्त्वा ऋतुस्नाताथ मेनका। कामरागाभिभूतस्य मुनेः पार्स्वं जगाम ह
जनयामास स मुनिर्मेनकायां शकुन्तलाम्। प्रस्थे हिमवतो रम्ये मालिनीमभितो नदीम्
देवगर्भोपमां बालां सर्वाभरणभूषिताम्। शयानां शयने रम्ये मेनका वाक्यमब्रवीत्
महर्षेरुग्रतपसस्तेजस्त्वमसि भामिनि। तस्मात्स्वर्गं गमिष्यामि देवकार्यार्थमागता