भारतस्येतिहासस्य श्रूयतां पर्वसंग्रहः। पर्वानुक्रमणी पूर्वं द्वितीयः पर्वसंग्रहः
पौष्यं पौलोममास्तीकमादिरंशावतारणम्। ततः संभवपर्वोक्तमद्भुतं रोमहर्षणम्
दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते। ततो बकवधः पर्व पर्व चैत्ररथं ततः
ततः स्वयंवरो देव्याः पाञ्चाल्याः पर्व चोच्यते। क्षात्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम्
विदुरागमनं पर्व राज्यलाभस्तथैव च। अर्जुनस्य वने वासः सुभद्राहरणं ततः
सुभद्राहरणादूर्ध्वं ज्ञेया हरणहारिका। ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम्
सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम्। जरासन्धवधः पर्व पर्व दिग्विजयं तथा
पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते। ततश्चार्घाभिहरणं शिशुपालवधस्ततः
द्यूतपर्व ततः प्रोक्तमनुद्यूतमः परम्। तत आरण्यकं पर्व किर्मीरवध एवच
अर्जुनस्याभिगमनं पर्व ज्ञेयमतः परम्। ईश्वरार्जुनयोर्युद्धं पर्व कैरातसंज्ञितम्
इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम्। नलोपाख्यानमपि च धार्मिकं करुणोदयम्
तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः। जटासुरवधः पर्व यक्षयुद्धमतः परम्
निवातकवचैर्युद्धं पर्व चाजगरं ततः। मार्कण्डेयसमास्या च पर्वानन्तरमुच्यते
संवादश्च ततः पर्व द्रौपदीसत्यभामयोः। घोषयात्रा ततः पर्व ततः प्रायोपवेशनेम्। मन्त्रस्य निश्चयं चैव मृगस्वप्नोद्भवं ततः
व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च। द्रौपदीहरणं पर्व जयद्रथविमोक्षणम्
रामोपाख्यानमत्रैव पर्व ज्ञेयमतः परम्। पतिव्रताया माहात्म्यं सावित्र्याश्चैवमद्भुतम्
कुण्डलाहरणं पर्व ततः परमिहोच्यते। आरणेयं ततः पर्व वैराटं तदनन्तरम्।। पाण्डवानां प्रवेशश्च समयस्य च पालनम्
कीचकानां वधः पर्व पर्व ग्रोग्रहणं ततः। अभिमन्योश्च वैराट्याः पर्व वैवाहिकं स्मृतम्
उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम्। ततः संजययानाख्यं पर्व ज्ञेयमतः परम्
प्रजागरं तथा पर्व धृतराष्ट्रस्य चिन्तया। पर्व सानत्सुजातं वै गुह्यमध्यात्मदर्शनम्
यानसन्धिस्ततः पर्व भगवद्यानमेव च। मातलीयमुपाख्यानं चरितं गालवस्य च
सावित्रं वामदेव्यं च वैन्योपाख्यानमेव च। जामदग्न्यमुपाख्यानं पर्व षोडशराजकम्
सभाप्रवेशः कृष्णस्य विदुलापुत्रशासनम्। उद्योगः सैन्यनिर्याणं विश्वोपाख्यानमेव च
ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः। `मन्त्रस्य निश्चयं कृत्वा कार्यस्य समनन्तरम्
श्वेतस्य वासुदेवेन चित्रं बहुकथाश्रयम्।' निर्याणं च ततः पर्व कुरुपाण्डवसेनयोः
रथातिरथसंख्या च पर्वोक्तं तदनन्तरम्। उलूकदूतागमनं पर्वामर्षविवर्धनम्
अम्बोपाख्यानमत्रैव पर्व ज्ञेयमतः परम्।। भीष्माभिषेचनं पर्व ततश्चाद्भुतमुच्यते
जम्बूखम्डविनिर्माणं पर्वोक्तं तदनन्तरम्।। भूमिपर्व ततः प्रोक्तं द्वीपविस्तारकीर्तनम्
दिव्यं चक्षुर्ददौ यत्र संजयाय महामुनिः।' पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः। द्रोणाभिषेचनं पर्व संशप्तकवधस्ततः
अभिमन्युवधः पर्व प्रतिज्ञा पर्व चोच्यते। जयद्रथवधः पर्व घटोत्कचवधस्ततः