को ह्यस्ति जीविताकाङ्क्षी प्राप्येममरिमर्दनम् । गजो वाजी रथो वापि पुनः स्वस्ति गृहान्व्रजेत्
कथमाभ्यामभिध्यातः संसृष्टो दारुणेन वा । रणे जीवन्विमुच्येत पदा भूमिमुपस्पृशन्
किं दुर्दुरः कूपशयो यथेमां न बुध्यमे राजचमूं समेताम्। दुराधरषां देवचमूप्रकाशां गुप्तां नरेन्द्रैस्त्रिदशैरिव द्याम्
प्राच्यैः प्रतीच्यैरथ दाक्षिणात्यै- रुदीच्यकाम्भोजशकैः खशैश्च। साल्वैः समत्स्यैः कुरुमुख्यदेश्यै- र्म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाञ्च्यैः
नानाजनौघं युधि संप्रवृद्धं नाङ्गं यथा वेगमपारकणीयम्। मां च स्थितं नागबलस्य मध्ये युयुत्समे मन्द किमल्पबुद्धे
इत्येवमुक्त्वा राजानं धर्मपुत्रं युधिष्ठिरम्। अभ्यवृत्य पुनर्जिष्णुमुलूकः प्रत्यभाषत
अकत्थमानो युध्यस्व कत्थेसेऽर्जुन किं बहु। पर्यायात्सिद्धिरेस्य नैतत्सिध्यति कत्थनात्
यदीदं कत्थनाल्लोके सिध्येत्कर्म धनञ्जय । सर्वे भवेयुः सिद्धार्थाः कत्थने को हि दुर्गतः
जानामि ते वासुदेवं सहायं जानामि ते गाण्डिवं तालमात्रम्। जानाम्येतत्त्वादृशो नास्ति योद्धा जानानस्ते राज्यमेतद्धरामि
न तु पर्यायधर्मेण राज्यं प्राप्नोति मानुषः । मनसैवानुकूलानि विधाता कुरुते वशे
त्रयोदश समा भुक्तं राज्यं विलपतस्तव । भूयश्चैव प्रशासिष्ये निहत्य त्वां सबान्धवम्
क्व तदा गाण्डिवं तेऽभूद्यत्त्वं दासपणैर्जितः। क्व तदा भीमसेनस्य बलमासीच्च फाल्गुना
सगदाद्भीमसेनाद्वा पार्थाद्वापि सगाण्डिवात् । न वै मोक्षस्तदा वोभूद्विना कृष्णामनिन्दिताम्
सा वो दास्ये समापन्नान्मोचयामास पार्षती । अमानुष्यं समापन्नान्दासकर्मण्यवस्थितान्
अवोचं यत्षण्डतिलानहं वस्तथ्यमेव तत् । धृता हि वेणी पार्थेन विराटनगरे तदा
सूदकर्मणि च श्रान्तं विराटस्य महानसे । भीमसेनेन कौन्तेय यच्च तन्मम पौरुषम्
एवमेतत्सदां दण्डं क्षत्रियाः क्षत्रिये दधुः । वेणीं कृत्वा षण्डवेषः कन्यां नर्तितवानसि
न भयाद्वासुदेवस्य न चापि तव फाल्गुन । राज्यं प्रतिप्रदाकस्यामि युद्ध्यस्व सहकेशवः
न माया हीन्द्रजालं वा कुहका वापि भीषणा । आत्तशस्त्रस्य मे युद्धे वहन्ति प्रतिगर्जनाः
वासुदेवसहस्रं वा फाल्गुनानां शतानि वा। आसाद्य माममोघेषुं द्रविष्यन्ति दिशो दशः
संयुगं गच्छ भूष्मेण भिन्धि वा शिरसा गिरिम्। तरेमं वा महागाधं सौमदत्तितिमिङ्गिलम्
शारद्वतमहामीनं विविंशतिमहोरगम् । बृहद्बलमहोद्वेलं सौमदत्तिकतिमिङ्गितम्
भीष्मवेगमपर्यन्तं द्रोणग्राहदुरासदम्। कर्णशल्यझषावर्तं काम्भोजबडबासुखम्
दुःशासनौघं शलशल्यमत्स्यं सुषेणचित्रायुधनागनक्रम्। जयद्रथाद्रिं पुरुमित्रगाधं दुर्मर्षणोदं शकुनिप्रपातम्
शस्त्रौघमक्षय्यमतिप्रवृद्धं यदावगाह्य श्रमनष्टचेताः। भविष्यसि त्वं हतसर्वबान्धव- स्तदा मनस्ते परितापमेष्यति
तदा मनस्ते त्रिदिवादिवाशुचे- र्निवर्तिता पार्थ महीप्रशासनात्। प्रशाम्य राज्यं हि सुदुर्लभं त्वया बुभूषितः स्वर्ग इवातपस्विना
उलूकस्त्वर्जुनं भूयो यथोक्तं वाक्यमब्रवीत्। आशीविषमिव क्रुद्धं तुदन्वाक्यशलाकया
तस्य तद्वचनं श्रुत्वा रुषिताः पाण्डवा भृशम् । प्रागेव भृशसंक्रुद्धाः कैतव्येनापि धर्षिताः
आसनेषूदतिष्ठन्त बाहूंश्चैव प्रचिक्षिपुः। आशीविषा इव क्रुद्धा वीक्षाञ्चक्रुः परस्परम्
अवाक्छिरा भीमसेनः समुदैक्षत कैतवम्। नेत्राभ्यां लोहितान्ताभ्यामाशीविष इव श्वसन्