सा वो दास्ये समापन्नान्मोचयामास पार्षती। अमानुष्यं समापन्नान्दासकर्मण्यवस्थितान्
अवोचं यत्षण्डतिलानहं वस्तथयमेव तत्। धृता हि वेमी पार्थेन विराटनगरे तदा
सूदकर्मणि च श्रान्तं विराटस्य महानसे । भीमसेनेन कौन्तेय यत्तु तन्मम पौरुषम्
एवमेव सदा दण्डं क्षत्रियाः क्षत्रिये दधुः। वेणीं कृत्वा षण्डवेषः कन्यां नर्तितवानसि
न भयाद्वासुदेवस्य न चापि तव फल्गुन । राज्यं प्रतिप्रदास्यामि युध्यस्व सहकेशवः
न माया हीन्द्रजालं वा कुहका वापि भीषणा । आत्तशस्त्रस्य सङ्ग्रामे वहन्ति प्रतिगर्जनाः
वासुदेवसहस्रं वा फाल्गुनानां शतानि वा। आसाद्य माममोघेषुं द्रविष्यन्ति दिशो दश
संयुगं गच्छ भीष्मेण भिन्धि वा शिरसा गिरिम् । तरस्व वा महागाधं बाहुभ्यां पुरुषोदधिम्
शारद्वतमहामीनं विविंशतिमहोरगम् । बृहद्बलमहोद्वेलं सौमदत्तितिमिङ्गिलम्
भीष्मवेगमपर्यन्तं द्रोणग्राहदुरसदम् । कर्णशल्यझषावर्तं काम्भोजबडबामुखम्
दुःशासनौघं शलशल्यमत्स्यं सुषेणचित्रायुधनागनक्रम्। जयद्रथाद्रिं पुरुमित्रगाधं दुर्मर्षणोदं शकुनिप्रपातम्
शश्त्रौघमक्षय्यमभिप्रवृद्धं यदावगाह्य श्रमनष्टचेताः। भविष्यसि त्वं हतसर्वबान्धव- स्तदा मनस्ते परितापमेष्यति
तदा मनस्ते त्रिदिवादिवाशुचे- र्निवर्तिता पार्थ महीप्रशासनात्। प्रशाम्य राज्यं हि सुदुर्लभं त्वया बुभूषितः स्वर्ग इवातपस्विना
सेनानिवेशं संप्राप्तः कैतव्यः पाण्डवस्य ह । समागतः पाण्डवेयैर्युधिष्ठिरमभाषत
अभिज्ञो दूतवाक्यानां यथोक्तं ब्रुवतो मम। दुर्योधनसमादेशं श्रुत्वा न क्रोद्धुमर्हसि
उलूक न भयं तेऽस्ति ब्रूहि त्वं विगतज्वरः । यन्मत्तं धार्तराष्ट्रस्य लुब्धस्यादीर्घदर्शिनः
ततो द्युतिमतां मध्ये पाण्डवानां महात्मनाम्। सृञ्जयानां च मत्स्यानां कृष्णस्य च यशस्विनः
द्रुपदस्य सपुत्रस्य विराटस्य च संनिधौ । भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह
इदं त्वामब्रवीद्राजा धार्तराष्ट्रो महामनाः । श्रृण्वतां कुरुवीराणां तन्निबोध युधिष्ठिर
पराजितोऽसि द्यूतेन कृष्णा चानायिता सभाम् । शक्योऽमर्षो मनुष्येण कर्तुं पुरुषमानिना
द्वादशैव तु वर्षाणि वने धिष्ण्याद्विवासितः । संवत्सरं विराटस्य दास्यमास्थाय चोषितः
अमर्षं राज्यहरणं वनवासं च पाण्डव। द्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव
अशक्तेन च यच्छप्तं भीमसेनेन पाण्डव । दुःशासनस्य रुधिरं पीयतां यदि शक्यते
लोहाभिसारो निर्वृत्तः कुरुक्षेत्रमकर्दमम्। समः पन्था भृतास्तेश्वाः श्वो युध्यस्व सकेशवः
असमागम्य भीष्मेण संयुगे किं विकत्थसे । आरुरुक्षुर्यथा पङ्गुः पर्वतं गन्धमादनम्
एवं कत्थसि कौन्तेय अकत्थन्पुरुषो भव। सूतपुत्रं सुदुर्घर्षं शल्यं च बलिनां वरम्
द्रोणं च बलिनां श्रेष्ठं शचीपतिसमं युधि। अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि
ब्राह्मे धनुषि चाचार्यं वेदयोरन्तगं द्वयोः। युधि धुर्यमविक्षोभ्यमनीकचरमच्युतम्
द्रोणं महाद्युतिं पार्थ जेतुमिच्छसि तन्मृषा । न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम्
अनिलो वा वहेन्मेरुं द्यौर्वापि निपतेन्महीम् । युगं वा परिवर्तेत यद्येवं स्याद्यथात्थ माम्