लोहाभिसारो निर्वृत्तः कुरुक्षेत्रमकर्दमम्। पुष्टास्तेऽश्वा भृता योधाः श्वो युद्ध्यस्व सकेशवः
असमागम्य भीष्मेण संयुगे किं विकत्थसे। आरुरुक्षुर्यथा मन्दः पर्वतं गन्धमादनम्
एवं कत्थसि कौन्तेय अकत्थन्पुरुषो भव। सूतपुत्रं सुदुर्धर्षं शल्यं च बलिनां वरम्
द्रोणं च बलिनां श्रेष्ठं शचीपतिसमं युधि । अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि
ब्राह्मे धनुषि चाचार्यं वेदयोरन्तगं द्वयोः। युधि धुर्यमविक्षोभ्यमनीकचरमच्युतम्
द्रोणं महाद्युतिं पार्थ जेतुमिच्छसि तन्मृषा । न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम्
अनिलो वा वहेन्मेरुं द्यौर्वापि निपतेन्महीम्। युगं वा रिवर्तेत यद्येवं स्याद्यथात्थ माम्
को ह्यस्ति जीविताकाङ्क्षी पराप्येममरिमर्दनम् । पार्थो वा इतरो वापि कोन्यः स्वस्ति गृहान्व्रजेत्
कथमाभ्यामभिध्यातः संस्पृष्टो दारुणेन वा। रणे जीवन्प्रमुच्येत पदा भूमिपुमस्पृशन्
किं दर्दुरः कूपशयो यथेमां न बुध्यसे राजचमूं समेताम्। दुराधर्षां देवचमूप्रकाशां गुप्तां नरेन्द्रैस्त्रिदशैरिव द्याम्
प्राच्यैः प्रतीच्यैरथ दाक्षिणात्यै- रुदीच्यकाम्भोजशकैः खशैश्च । साल्वैः समत्स्यैः कुरुमध्यदेश्यै- र्म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाञ्च्यैः
नानाजनौघं युधि संप्रवृद्धं गाङ्गं यथा वेगमपारणीयम्। मां च स्थितं नानाबलस्य मध्ये युयुत्ससे मन्द किमल्पबुद्धे
अक्षय्याविषुधी चैव अग्निदत्तं च ते रथम्। जानीमो हि रणे पार्थ केतुं दिव्यं च भारत
अकत्थमानो युद्ध्यस्व कत्थसेऽर्जुन किं बहु । पर्यायात्सिद्धिरेतस्य नैतत्सिध्याति कत्थनात्
यदीदं कत्थनाल्लोके सिध्येत्कर्म धनञ्जय। सर्वे भवेयुः सिद्धार्थाः कत्थने को हि दुर्गतः
जनामि ते वासुदेवं सहायं जानामि ते गाण्डिवं तालमात्रम् । जानाम्यहं त्वादृशो नास्ति योद्धा जानानस्ते राज्यमेतद्धरामि
न तु पर्यायधर्मेम सिद्धिं प्राप्नोति मानवः। मनसैवानुकूलानि धातैव कुरुते वशे
त्रयोदशसमा भुक्तं राज्यं विलपतस्तव। भूयश्चैव प्रशासिष्ये त्वां निहत्य सबान्धवम्
क्व तदा गाण्डिवं तेऽभूद्यत्त्वं दासपणैर्जितः। क्व तदा भीमसेनस्य बलमासीच्च फाल्गुन
सगदाद्भीमसेनाद्वा फाल्गुनाद्वा सगाण्डिवात्। न वै मोक्षस्तदा यो भूद्विना कृष्णमनिन्दितां
सा वो दास्ये समापन्नान्मोचयामास पार्षती। अमानुष्यं समापन्नान्दासकर्मण्यवस्थितान्
अवोचं यत्षण्डतिलानहं वस्तथयमेव तत्। धृता हि वेमी पार्थेन विराटनगरे तदा
सूदकर्मणि च श्रान्तं विराटस्य महानसे । भीमसेनेन कौन्तेय यत्तु तन्मम पौरुषम्
एवमेव सदा दण्डं क्षत्रियाः क्षत्रिये दधुः। वेणीं कृत्वा षण्डवेषः कन्यां नर्तितवानसि
न भयाद्वासुदेवस्य न चापि तव फल्गुन । राज्यं प्रतिप्रदास्यामि युध्यस्व सहकेशवः
न माया हीन्द्रजालं वा कुहका वापि भीषणा । आत्तशस्त्रस्य सङ्ग्रामे वहन्ति प्रतिगर्जनाः
वासुदेवसहस्रं वा फाल्गुनानां शतानि वा। आसाद्य माममोघेषुं द्रविष्यन्ति दिशो दश
संयुगं गच्छ भीष्मेण भिन्धि वा शिरसा गिरिम् । तरस्व वा महागाधं बाहुभ्यां पुरुषोदधिम्
शारद्वतमहामीनं विविंशतिमहोरगम् । बृहद्बलमहोद्वेलं सौमदत्तितिमिङ्गिलम्
भीष्मवेगमपर्यन्तं द्रोणग्राहदुरसदम् । कर्णशल्यझषावर्तं काम्भोजबडबामुखम्