यदर्थं क्षत्रिया सूते सर्वं तदिदमागतम् । बलं वीर्यं च शौर्यं च परं चाप्यस्त्रलाघवम्
पौरुषं दर्शयन्युद्धे कोपस्य कुरु निष्कृतिम्। परिक्लिष्टस्य दीनस्य दीर्घकालोषितस्य च। हृदयं कस्य न स्फोटेदैश्वर्याद्धंशितस्य च
कुले जातस्य शूरस्य परिवित्तेष्वगृध्यतः। आस्थितं राज्यमाक्रम्य कोपं कस्य न दीपयेत्
यत्तदुक्तं महद्वाक्यं कर्मणा तद्विभाव्यताम्। अकर्मणा कत्थितेन सन्तः कुपुरुषं विदुः
अमित्राणां वशे स्थानं राज्यं च पुनरुद्धर। द्वावर्थौ युद्धकामस्य तस्मात्तत्कुरु पौरुषम्
पराजितोऽसि द्यूतेन कृष्णा चानायिता सभाम् । शक्योऽमर्षो मनुष्येण कर्तु पुरुषमानिना
द्वादशैव तु वर्षाणि वने धिष्ण्याद्विवासितः। संवत्सरं विराटस्य दास्यमास्थाय चोषितः
राष्ट्रान्निर्वासनक्लेशं वनवासं च पाण्डव । कृष्णायाश्च परिक्लेशं संस्मरन्पुरुषो भव
अप्रियाणां च वचनं प्रब्रुवत्सु पुनः पुनः । अमर्षं दर्शयस्व त्वममर्षो ह्येव पौरुषम्
क्रोधो बलं तथा वीर्यं ज्ञानयोगोऽस्त्रलाघवम्। इह ते दृश्यतां पार्थ युद्ध्यस्व पुरुषो भव
लोहाभिसारो निर्वृत्तः कुरुक्षेत्रमकर्दमम्। पुष्टास्तेऽश्वा भृता योधाः श्वो युद्ध्यस्व सकेशवः
असमागम्य भीष्मेण संयुगे किं विकत्थसे। आरुरुक्षुर्यथा मन्दः पर्वतं गन्धमादनम्
एवं कत्थसि कौन्तेय अकत्थन्पुरुषो भव। सूतपुत्रं सुदुर्धर्षं शल्यं च बलिनां वरम्
द्रोणं च बलिनां श्रेष्ठं शचीपतिसमं युधि । अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि
ब्राह्मे धनुषि चाचार्यं वेदयोरन्तगं द्वयोः। युधि धुर्यमविक्षोभ्यमनीकचरमच्युतम्
द्रोणं महाद्युतिं पार्थ जेतुमिच्छसि तन्मृषा । न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम्
अनिलो वा वहेन्मेरुं द्यौर्वापि निपतेन्महीम्। युगं वा रिवर्तेत यद्येवं स्याद्यथात्थ माम्
को ह्यस्ति जीविताकाङ्क्षी पराप्येममरिमर्दनम् । पार्थो वा इतरो वापि कोन्यः स्वस्ति गृहान्व्रजेत्
कथमाभ्यामभिध्यातः संस्पृष्टो दारुणेन वा। रणे जीवन्प्रमुच्येत पदा भूमिपुमस्पृशन्
किं दर्दुरः कूपशयो यथेमां न बुध्यसे राजचमूं समेताम्। दुराधर्षां देवचमूप्रकाशां गुप्तां नरेन्द्रैस्त्रिदशैरिव द्याम्
प्राच्यैः प्रतीच्यैरथ दाक्षिणात्यै- रुदीच्यकाम्भोजशकैः खशैश्च । साल्वैः समत्स्यैः कुरुमध्यदेश्यै- र्म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाञ्च्यैः
नानाजनौघं युधि संप्रवृद्धं गाङ्गं यथा वेगमपारणीयम्। मां च स्थितं नानाबलस्य मध्ये युयुत्ससे मन्द किमल्पबुद्धे
अक्षय्याविषुधी चैव अग्निदत्तं च ते रथम्। जानीमो हि रणे पार्थ केतुं दिव्यं च भारत
अकत्थमानो युद्ध्यस्व कत्थसेऽर्जुन किं बहु । पर्यायात्सिद्धिरेतस्य नैतत्सिध्याति कत्थनात्
यदीदं कत्थनाल्लोके सिध्येत्कर्म धनञ्जय। सर्वे भवेयुः सिद्धार्थाः कत्थने को हि दुर्गतः
जनामि ते वासुदेवं सहायं जानामि ते गाण्डिवं तालमात्रम् । जानाम्यहं त्वादृशो नास्ति योद्धा जानानस्ते राज्यमेतद्धरामि
न तु पर्यायधर्मेम सिद्धिं प्राप्नोति मानवः। मनसैवानुकूलानि धातैव कुरुते वशे
त्रयोदशसमा भुक्तं राज्यं विलपतस्तव। भूयश्चैव प्रशासिष्ये त्वां निहत्य सबान्धवम्
क्व तदा गाण्डिवं तेऽभूद्यत्त्वं दासपणैर्जितः। क्व तदा भीमसेनस्य बलमासीच्च फाल्गुन
सगदाद्भीमसेनाद्वा फाल्गुनाद्वा सगाण्डिवात्। न वै मोक्षस्तदा यो भूद्विना कृष्णमनिन्दितां