गुणैरप्सरसां दिव्यैर्मेनके त्वं विशिष्यसे। श्रेयो मे कुरु कल्याणि यत्त्वां वक्ष्यामि तच्छृणु
असावादित्यशङ्काशो विश्वामित्रो महातपाः। तप्यमानस्तपो घोरं मम कम्पयते मनः
मेनके तव भारोऽयं विश्वामित्रः सुमध्यमे। शंसितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते
स मां न च्यावयेत्स्थानात्तं वै गत्वा प्रलोभय। चर तस्य तपोविघ्नं कुरु मे प्रियमुत्तमम्
रूपयौवनमाधुर्यचेष्टितस्मितभाषणैः। लोभयित्वा वरारोहे तपसस्तं निवर्तय
महातेजाः स भगवांस्तथैव च महातपाः। कोपनश्च तथा ह्येनं जानाति भगवानपि
तेजस्तपसश्चैव कोपस्य च महात्मनः। त्वमप्युद्विजसे यस्य नोद्विजेयमहं कथम्
महाभागं वसिष्ठं यः पुत्रैरिष्टैर्व्ययोजयत्। क्षत्रजातश्च यः पूर्वमभवद्ब्राह्मणो बलात्
शौचार्थं यो नदीं चक्रे दुर्गमां बहुभिर्जलैः। यां तां पुण्यतमां लोके कौशिकीति विदुर्जनाः
बभार यत्रास्य पुरा काले दुर्गे महात्मनः। दारान्मतङ्गो धर्मात्मा राजर्षिर्व्याधतां गतः
अतीतकाले दुर्भिक्षे अभ्येत्य पुनराक्षमम्। मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः
मतङ्गं याजयाञ्चक्रे यत्र प्रीतमनाः स्वयम्। त्वं च सोमं भयाद्यस्य गतः पातुं सुरेश्वर
चकारान्यं च लोकं वै क्रुद्धो नक्षत्रसंपदा। प्रतिश्रवणपूर्वाणि नक्षत्राणि चकार यः। गुरुशापहतस्यापि त्रिशङ्कोः शरणं ददौ
ब्रह्मर्षिशापं राजर्षिः कथं मोक्ष्यति कौशिकः। अवमत्य तदा देवैर्यज्ञाङ्गं तद्विनाशितम्
अन्यानि च महातेजा यज्ञाङ्गान्यसृजत्प्रभुः। निनाय च तदा स्वर्गं त्रिशङ्कुं स महातपाः
एतानि यस्य कर्माणि तस्याहं भृशमुद्विजे। यथाऽसौ न दहेत्क्रुद्धस्तथाऽऽज्ञापय मां विभो
तेजसा निर्दहेल्लोकान्कम्पयेद्धरणीं पदा। संक्षिपेच्च महामेरुं तूर्णमावर्तयेद्दिशः
तादृशं तपसा युक्तं प्रदीप्तमिव पावकम्। कथमस्मद्विधा नारी जितेन्द्रियमभिस्पृशेत्
हुताशनमुखं दीप्तं सूर्यचन्द्राक्षितारकम्। कालजिह्वं सुरश्रेष्ठ कथमस्मद्विधा स्पृशेत्
यमश्च सोमश्च महर्षयश्च साध्या विश्वे वालस्विल्याश्च सर्वे। एतेऽपि यस्योद्विजन्ते प्रभावा- त्तस्मात्कस्मान्मादृशी नोद्विजेत
त्वयैवमुक्ता च कथं समीप- मृषेर्न गच्छेयमहं सुरेन्द्र। रक्षां च मे चिन्तय देवराज यथा त्वदर्थं रक्षिताऽहं चरेयम्
कामं तु मे मारुतस्तत्र वासः प्रक्रीडिताया विवृणोतु देव। भवेच्च मे मन्मथस्तत्र कार्ये सहायभूतस्तु तव प्रसादात्
वनाच्च वायुः सुरभिः प्रवाया- त्तस्मिन्काले तमृषिं लोभयन्त्याः। तथेत्युक्त्वा विहिते चैव तस्मिं- स्ततो ययौ साऽऽश्रमं कौशिकस्य
एवमुक्तस्तया शक्रः संदिदेश सदागतिम्। प्रातिष्ठत तदा काले मेनका वायुना सह
अथापश्यद्वरारोहा तपसा दग्धकिल्बिषम्। मिश्वामित्रं तप्यमानं मेनका भीरुराश्रमे
अभिवाद्य ततः सा तं प्राक्रीडदृषिसन्निधौ। अपोवाह च वासोऽस्या मारुतः शशिसंनिभम्
सागच्छत्त्वरिता भूमिं वासस्तदभिलिप्सती। कुत्सयन्तीव सव्रीडं मारुतं वरवर्णिनी
पश्यतस्तस्य राजर्षेरप्यग्निसमतेजसः। विश्वामित्रस्ततस्तां तु विषमस्थामनिन्दिताम्
गृद्धां वाससि संभ्रान्तां मेनकां मुनिसत्तमः। अनिर्देश्यवयोरूपामपश्यद्विवृतां तदा
तस्या रूपगुणान्दृष्ट्वा स तु विप्रर्षभस्तदा। चकार भावं संसर्गे तया कामवशं गतः