ब्रूयास्त्वं वासुदेवं च पाण्डवानां समीपतः। आत्मार्थं पाण्डवार्थं च यत्तो मां प्रतियोधय
सभामध्ये च यद्रूपं मायया कृतवानसि। तत्तथैव पुनः कृत्वा सार्जुनो मामभिद्रव
इन्द्रजालं च मायां वै कुहका वापि भीषणा । आत्तशस्त्रस्य सङ्ग्रमे वहन्ति प्रतिगर्जनाः
वयमप्युत्सहेम द्यां खं च गच्छेम मायया । रसातलं विशामोपि ऐन्द्रं वा पुरमेव तु
दर्शयेम च रूपाणि स्वशरीरे बहून्यपि। न तु पर्यायतः सिद्धिर्बुद्धिमाप्नोति मानुषीम्
मनसैव हि भूतानि धातैव कुरुते वशे। यद्ब्रवीषि च वार्ष्णेय धार्तराष्ट्रानहं रणे
घातयित्वा प्रदास्यामि पार्थेभ्यो राज्यमुत्तमम् । आचचक्षे च मे सर्वं सञ्जयस्तव भाषितम्। मद्द्वितीयेन पार्थेन वैरं वः सव्यसाचिना
स सत्यसङ्गरो भूत्वा पाण्डवार्थे पराक्रमी । युद्ध्यस्वाद्य रणे यत्तः पश्यामः पुरुषो भव
यस्तु शत्रुमभिज्ञाय शुद्धं पौरुषमास्थितः। करोति द्विषतां शोकं स जीवति सुजीवितम्
अकस्माच्चैव ते कृष्ण ख्यातं लोके महद्यशः। अद्येदानीं विजानीमः सन्ति षण्डाः शश्रृङ्गकाः
मद्विधो नापि नृपतिस्त्वयि युक्तः कथंचन । सन्नाहं संयुगे कर्तुं कंसभृत्ये विशेषतः
तं च तूबरकं बालं बह्वाशिनमविद्यकम् । उलूक मद्वचो ब्रूहि असकृद्भीमसेनकम्
विराटनगरे पार्थ यस्त्वं सूदो ह्यभूः पुरा। बल्लवो नाम विख्यातस्तन्ममैव हि पौरुषम्
प्रतिज्ञातं सभामध्ये न तन्मिथ्या त्वया पुरा। दुःशासनस्य रुधिरं पीयतां यदि शक्यते
यद्ब्रवीषि च कौन्तेय धार्तराष्ट्रानहं रणे। निहनिष्यामि तरसा तस्य कालोऽयमागतः
त्वं हि भोज्ये पुरस्कार्यो भक्ष्ये पेये च भारत । क्व युद्धं क्व च भोक्तव्यं युध्यस्व पुरुषो भव
शयिष्यसे हतो भूमौ गदामालिङ्ग्य भारत। तद्वृथा च सभामध्ये वल्गितं ते वृकोदर
उलूक नकुलं ब्रूहि वचनान्मम भारत। युध्द्यस्वाद्य स्थिरो भूत्वा पश्यामस्तव पौरुषम्
युधिष्ठिरानुरागं च द्वेषं च मयि भारत। कृष्णायाश्च परिक्लेशं स्मरेदानीं यथातथम्
ब्रूयास्त्वं सहदेवं च राजमध्ये वचो मम। युद्ध्येदानीं रणे यत्तः क्लेशान्स्मर च पाण्डव
विराटद्रुपदौ चोभौ ब्रूयास्त्वं वचनान्मम । न दृष्टपूर्वा भर्तारो भृत्यैरपि महागुणैः । तथार्थपतिभिर्भृत्या यतः सृष्टाः प्रजास्ततः
अश्लाघ्योऽयं नरपतिर्युवयोरिति चागतम्
ते यूयं संहता भूत्वा तद्वधार्थं ममापि च। आत्मार्थं पाण्डवार्थं च प्रयुद्ध्यध्वं मया सह
धृष्टद्युम्नं च पाञ्चाल्यं ब्रूयास्त्वं वचनान्मम। एष ते समयः प्राप्तो लब्धव्यश्च त्वयापि सः
द्रोणमासाद्य समरे ज्ञास्यसे हितमुत्तमम् । युद्ध्यस्व समुहृत्पापं कुरु कर्म सुदुष्करम्
शिखण्डिनमथो ब्रूहि उलूक वचनान्मम । स्त्रीति मत्वा महाबाहुर्न हनिष्यति कौरवः
गाङ्गेयो धन्विनां श्रेष्ठो युद्ध्येदानीं सुनिर्भयः । कुरु कर्म रणे यत्तः पश्यामः पौरुषं तव
एवमुक्त्वा ततो राजा प्रहस्योलूकमब्रवीत्। धनञ्जयं पुनर्ब्रूहि वासुदेवस्य श्रृण्वतः
अस्मान्वा त्वं पराजित्य प्रसाधि पृतिवीमिमाम् । अथवा निर्जितोस्माभी रणे वीर शयिष्यसि
राष्ट्रान्निर्वासनक्लेशं वनवासं च पाण्डव । कृष्णायाश्च परिक्लेशं संस्मरन्पुरुषो भव