ततस्ते मूषिकाः सर्वे समेत्यान्योन्यमब्रुवन् । मातुलो वर्धते नित्यं वयं क्षीयामहे भृशम्
ततः प्राज्ञतमः कश्चिड्डिण्डिको नाम मूषिकः। अब्रवीद्वचनं राजन्मूषिकाणां महागणम्
गच्छतां वो नदीतीरं सहितानां विशेषतः। पृष्ठतोऽहं गमिष्यामि सहैव मातुलेन तु
साधु साध्विति ते सर्वे पूजयाञ्चक्रिरे तदा। चक्रुश्चैव यथान्यायं डिण्डिकस्य वचोऽर्थवत्
अविज्ञानात्ततः सोऽथ डिण्डिकं ह्युपभुक्तवान्। ततस्ते सहिताः सर्वे मन्त्रयामासुरञ्जसा
तत्र वृद्धतमः कश्चित्कोलिको नाम मूषिकः । अब्रवीद्वचनं राजञ्ज्ञातिमध्ये यथातथम्
न मातुलो धर्मकामश्छद्ममात्रं कृता शिखा। न मूलफलभक्षस्य विष्ठा भवति लोमशा
अस्य गात्राणि वर्धन्ते गणश्च परिहीयते । अद्य सप्ताष्टदिवसान्डिण्डिकोपि न दृश्यते
एतच्छ्रुत्वा वचः सर्वे मूषिका विप्रदुद्रुवुः। बिडालोपि स दुष्टात्मा जगामैव यथागतम्
तथा त्वमपि दुष्टात्मन्बैडालं व्रतमास्थितः। चरसि ज्ञातिषु सदा बिडालोमूषिकेष्विव
अन्यथा किल ते वाक्यमन्यथा कर्म दृश्यते। दम्भनार्थाय लोकस्य वेदाश्चोपशमश्च ते
त्यक्त्वा छद्म त्विदं राजन्क्षत्रधर्मं समाश्रितः । कुरु कार्याणि सर्वाणि धर्मिष्ठोऽसि नरर्षभ
बाहुवीर्येण पृथिवीं लब्ध्वा भरतसत्तम। देहि दानं द्विजातिभ्यः पितृभ्यश्चयथोचितम्
क्लिष्टाया वर्षपूगांश्च मातुर्मातृहिते स्थितः। प्रमार्जाश्रु रणे जित्वा संमानं परमावह
पञ्चग्रामा वृता यत्नात्रास्माभिरपवर्जिताः। युध्यामहे कथं सङ्ख्ये कोपयेम च पाण्डवान्
त्वत्कृते दुष्टभावस्य संत्यागो विदुरस्य च। जातुषे च गृहे दाहं स्मर तं पुरुषो भव
यच्च कृष्णमवोचस्त्वमायान्तं कुरुसंसदि। अयमस्मि स्थितो राजञ्शमायसमराय च
तस्यायमागतः कालः समरस्य नराधिप। एतदर्थं मया सर्वं कृतमेतद्युधिष्ठिर
किं नु युद्धात्परं लाभं क्षत्रियो बहु मन्यते। किंच त्वं क्षत्रियकुले जातः संप्रथितो भुवि
द्रोणादस्त्राणि संप्राप्य कृपाच्च भरतर्षभ । तुल्ययोनौ समबले वासुदेवं समाश्रितः
ब्रूयास्त्वं वासुदेवं च पाण्डवानां समीपतः। आत्मार्थं पाण्डवार्थं च यत्तो मां प्रतियोधय
सभामध्ये च यद्रूपं मायया कृतवानसि। तत्तथैव पुनः कृत्वा सार्जुनो मामभिद्रव
इन्द्रजालं च मायां वै कुहका वापि भीषणा । आत्तशस्त्रस्य सङ्ग्रमे वहन्ति प्रतिगर्जनाः
वयमप्युत्सहेम द्यां खं च गच्छेम मायया । रसातलं विशामोपि ऐन्द्रं वा पुरमेव तु
दर्शयेम च रूपाणि स्वशरीरे बहून्यपि। न तु पर्यायतः सिद्धिर्बुद्धिमाप्नोति मानुषीम्
मनसैव हि भूतानि धातैव कुरुते वशे। यद्ब्रवीषि च वार्ष्णेय धार्तराष्ट्रानहं रणे
घातयित्वा प्रदास्यामि पार्थेभ्यो राज्यमुत्तमम् । आचचक्षे च मे सर्वं सञ्जयस्तव भाषितम्। मद्द्वितीयेन पार्थेन वैरं वः सव्यसाचिना
स सत्यसङ्गरो भूत्वा पाण्डवार्थे पराक्रमी । युद्ध्यस्वाद्य रणे यत्तः पश्यामः पुरुषो भव
यस्तु शत्रुमभिज्ञाय शुद्धं पौरुषमास्थितः। करोति द्विषतां शोकं स जीवति सुजीवितम्
अकस्माच्चैव ते कृष्ण ख्यातं लोके महद्यशः। अद्येदानीं विजानीमः सन्ति षण्डाः शश्रृङ्गकाः