उपगम्य तु ते सर्वे बिडालमिदमब्रुवन् । भवत्प्रसादादिच्छामश्चर्तुं चैव यथासुखम्
भवान्नो गतिरव्यग्रा भवान्नः परमः सुहृत्। ते वयं सहिताः सर्वे भवन्तं शरणं गताः
भवान्धर्मपरो नित्यं भवान्धर्मे व्यवस्थितः। स नो रक्ष महाप्रज्ञ त्रिदशानिव वज्रभृत्
एवमुक्तस्तु तैः सर्वैर्मूषिकैः स विशांपते। प्रत्युवाच ततः सर्वान्मूषिकान्मूषिकान्तकृत्
द्वयोर्योगं न पश्यामि तपसो रक्षणस्य च। अवश्यं तु मया कार्यं वचनं भवतां हितम्
युष्माभिरपि कर्तव्यं वचनं मम नित्यशः। तपसास्मि परिश्रान्तो दृढं नियमामास्थितः
न चापि गमने शक्तिं कांचित्पश्यामि चिन्तयन्। सोस्मि नेयः सदा ताता नदीकूलमितःपरम्
तथेति तं प्रतिज्ञाय मूषिका भरतर्षभ । वृद्धबालमथो सर्वं मार्जाराय न्यवेदयन्
ततः स पापो दुष्टात्मा मूषिकानथ भक्षयन्। पीवरश्च सुवर्णश्च दृढबन्धश्च जायते
मूषिकाणां गणश्चात्र भृशं संक्षीयतेऽथ सः। मार्जारो वर्धते चापि तेजोबलसमन्वितः
ततस्ते मूषिकाः सर्वे समेत्यान्योन्यमब्रुवन् । मातुलो वर्धते नित्यं वयं क्षीयामहे भृशम्
ततः प्राज्ञतमः कश्चिड्डिण्डिको नाम मूषिकः। अब्रवीद्वचनं राजन्मूषिकाणां महागणम्
गच्छतां वो नदीतीरं सहितानां विशेषतः। पृष्ठतोऽहं गमिष्यामि सहैव मातुलेन तु
साधु साध्विति ते सर्वे पूजयाञ्चक्रिरे तदा। चक्रुश्चैव यथान्यायं डिण्डिकस्य वचोऽर्थवत्
अविज्ञानात्ततः सोऽथ डिण्डिकं ह्युपभुक्तवान्। ततस्ते सहिताः सर्वे मन्त्रयामासुरञ्जसा
तत्र वृद्धतमः कश्चित्कोलिको नाम मूषिकः । अब्रवीद्वचनं राजञ्ज्ञातिमध्ये यथातथम्
न मातुलो धर्मकामश्छद्ममात्रं कृता शिखा। न मूलफलभक्षस्य विष्ठा भवति लोमशा
अस्य गात्राणि वर्धन्ते गणश्च परिहीयते । अद्य सप्ताष्टदिवसान्डिण्डिकोपि न दृश्यते
एतच्छ्रुत्वा वचः सर्वे मूषिका विप्रदुद्रुवुः। बिडालोपि स दुष्टात्मा जगामैव यथागतम्
तथा त्वमपि दुष्टात्मन्बैडालं व्रतमास्थितः। चरसि ज्ञातिषु सदा बिडालोमूषिकेष्विव
अन्यथा किल ते वाक्यमन्यथा कर्म दृश्यते। दम्भनार्थाय लोकस्य वेदाश्चोपशमश्च ते
त्यक्त्वा छद्म त्विदं राजन्क्षत्रधर्मं समाश्रितः । कुरु कार्याणि सर्वाणि धर्मिष्ठोऽसि नरर्षभ
बाहुवीर्येण पृथिवीं लब्ध्वा भरतसत्तम। देहि दानं द्विजातिभ्यः पितृभ्यश्चयथोचितम्
क्लिष्टाया वर्षपूगांश्च मातुर्मातृहिते स्थितः। प्रमार्जाश्रु रणे जित्वा संमानं परमावह
पञ्चग्रामा वृता यत्नात्रास्माभिरपवर्जिताः। युध्यामहे कथं सङ्ख्ये कोपयेम च पाण्डवान्
त्वत्कृते दुष्टभावस्य संत्यागो विदुरस्य च। जातुषे च गृहे दाहं स्मर तं पुरुषो भव
यच्च कृष्णमवोचस्त्वमायान्तं कुरुसंसदि। अयमस्मि स्थितो राजञ्शमायसमराय च
तस्यायमागतः कालः समरस्य नराधिप। एतदर्थं मया सर्वं कृतमेतद्युधिष्ठिर
किं नु युद्धात्परं लाभं क्षत्रियो बहु मन्यते। किंच त्वं क्षत्रियकुले जातः संप्रथितो भुवि
द्रोणादस्त्राणि संप्राप्य कृपाच्च भरतर्षभ । तुल्ययोनौ समबले वासुदेवं समाश्रितः