त्वद्युक्तोऽयमनुप्रश्नो महाराज यथेच्छसि। न तु दुर्योधने दोषमिममाधातुमर्हसि
शृणुष्वानवशेषेण वदतो मम पार्थिव । य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः । न स कालं न वा देवानेनसा गन्तुमर्हति
महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत्। स वध्यः सर्वलोकस्य निन्दितानि समाचरन्
निकारा मनुजश्रेष्ठ पाण्डवैस्त्वत्प्रतीक्षया । अनुभूताः सहामात्यैर्निकृतैरधिदेवने
हयानां च गजानां च राज्ञां चामिततेजसाम् । वैशसं समरे वृत्तं यत्तन्मे शृणु सर्वशः
स्थिरो भूत्वा महाप्राज्ञ सर्वलोकक्षयोदयम्। यथाभूतं महायुद्धे श्रुत्वा मा विमना भव
न ह्येव कर्ता पुरुषः कर्मणोः शुभपापयोः । अस्वतन्त्रो हि पुरुषः कार्यते दारुयन्त्रवत्
केचिदीश्वरनिर्दिष्टाः केचिदेव यदृच्छया। पूर्वकर्मभिरप्यन्ये त्रैधमेतत्प्रदृश्यते। तस्मादनर्थमापन्नः स्थिरो भूत्वा निशामय
हिरण्वत्यां निविष्टेषु पाण्डवेषु महात्मसु। न्यविशन्त महाराज कौरवेया यथाविधि
तत्र दुर्योधनो राजा निवेस्य बलमोजसा । संमानयित्वा नृपतीन्न्यस्य गुल्मांस्तथैव च
आरक्षस्य विधिं कृत्वा योधानां तत्र भारत । कर्णं दुःशासनं चैव शकुनिं चापि सौबलम्
आनाय्य नृपतिस्तत्र मन्त्रयामास भारत। तत्र दुर्योधनो राजा कर्णेन सह भारत
सौबलेन च राजेन्द्र मन्त्रयित्वा नरर्षभ । आहूयोपह्वरे राजन्नुलूकमिदमब्रवीत्
उलूक गच्छ कैतव्य पाण्डवान्सहसोमकान्। गत्वा मम वचो ब्रूहि वासुदेवस्य श्रृण्वतः
इदं तत्समनुप्राप्तं वर्षपूगाभिचिन्तितम् । पाण्डवानां कुरूणां च युद्धं लोकभयङ्करम्
यदेतत्कत्थनावाक्यं सञ्जयो महदब्रवीत्। वासुदेवसहायस्य गर्जतः सानुजस्य ते
मध्ये करूणां कौन्तेय तस्य कालोयमागतः । यथावत्संप्रतिज्ञातं तत्सर्वं क्रियतामिति
ज्येष्ठं तथैव कौन्तेयं ब्रूयास्त्यं वचनान्मम
भ्रातृभिः सहितः सर्वैः सोमकैश्च सकेकयैः। कथं वा धार्मिको भूत्वा त्वमधर्मे मनः कृथाः। य इच्छसि जगत्सर्वं नश्यमानं नृशंसवत्
अभयं सर्वभूतेभ्यो पाता त्वमिति मे मतिः
श्रूयते हि पुरा गीतः श्लोकोऽयं भरतर्षभ । प्रह्लादेनाथ भद्रं ते हृते राज्ये तु दैवतैः
यस्य धर्मध्वजो नित्यं सुरा ध्वज इवोच्छ्रितः। प्रच्छन्नानि च पापानि बैडालं नाम तद्ब्रतम्
अत्र ते वर्तयिष्यामि आख्यानमिदमुत्तमम् । कथितं नारदेनेह पितुर्मम नराधिप
मार्जारः किल दुष्टात्मा निश्चेष्टः सर्वकर्मसु। ऊर्ध्वबाहुः स्थितो राजन् गङ्गातीर कदाचन
स वै कृत्वा मनःशुद्धिं प्रत्ययार्थं शरीरिणाम् । करोमि धर्ममित्याह सर्वानेव शरीरिणः
तस्य कालेन महता विस्त्रम्यं जग्मुरण्डजाः। समेत्य च प्रशंसन्ति मार्जारं तं विशांपते
पूज्यमानस्तु तैः सर्वैः पक्षिभिः पक्षिभोजनः। आत्मकार्यं कृतं मेने चार्यायाश्च कृतं फलम्
अथ दीर्घस्य कालस्य तं देशं मूषिका ययुः। ददृशुस्तं च ते तत्र धार्मिकं व्रतचारिणम्
कार्येण महता युक्तं दम्भयुक्तेन भारत । तेषां मतिरियं राजन्नासीत्तत्र विनिश्चये
बहुमित्रा वयं सर्वे तेषां नो मातुलो ह्ययम् । रक्षां करोतु सततं वृद्धबालस्य सर्वशः