द्वावेव तु महाराज तस्माद्युद्धादपेयतुः। रौहिणेयश्च वार्ष्णेयो रुक्मी च वसुधाधिप
गते रामे तीर्थयात्रां भीष्मकस्य सुते तथा। उपाविशन्पाण्डवेया मन्त्राय पुनरेव च
समितिर्धर्मराजस्य सा पार्थिवसमाकुला । शुशुभे तारकैश्चित्रा द्यौश्चन्द्रेणेव भारत
तथा व्यूढेष्वनीकेषु कुरुक्षेत्रे द्विजर्षभ । किमर्कुर्वंश्च कुरवः कालेनाभिप्रचोदिताः
तथा व्यूढेष्वनीकेषु यत्तेषु भरतर्षभ। धृतराष्ट्रो महाराज सञ्जयं वाक्यमब्रवीत्
एहि सञ्जय सर्व मे आचक्ष्वानवशेषतः । सेनानिवेशे यद्वृत्तं कुरुपाण्डवसेनयोः
दिष्टमेव परं मन्ये पौरुषं चाप्यनर्थकम् । यदहं बुद्ध्यमानोऽपि युद्धदोषान्क्षयोदयान्
तथापि निकृतिप्रज्ञं पुत्रं दुर्द्यूतदेविनम् । न शक्नोमि नियन्तुं वा कर्तुं वा हितमात्मनः
भवत्येव हि मे सूत बुद्धिर्दोषानुदर्शिनी । दुर्योधनं समासाद्य पुनः सा परिवर्तते
एवं गते वै यद्भावि तद्भविष्यति सञ्जय । क्षत्रधर्मः किल रणे तनुत्यागे हि पूजितः
त्वद्युक्तोऽयमनुप्रश्नो महाराज यथेच्छसि। न तु दुर्योधने दोषमिममाधातुमर्हसि
शृणुष्वानवशेषेण वदतो मम पार्थिव । य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः । न स कालं न वा देवानेनसा गन्तुमर्हति
महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत्। स वध्यः सर्वलोकस्य निन्दितानि समाचरन्
निकारा मनुजश्रेष्ठ पाण्डवैस्त्वत्प्रतीक्षया । अनुभूताः सहामात्यैर्निकृतैरधिदेवने
हयानां च गजानां च राज्ञां चामिततेजसाम् । वैशसं समरे वृत्तं यत्तन्मे शृणु सर्वशः
स्थिरो भूत्वा महाप्राज्ञ सर्वलोकक्षयोदयम्। यथाभूतं महायुद्धे श्रुत्वा मा विमना भव
न ह्येव कर्ता पुरुषः कर्मणोः शुभपापयोः । अस्वतन्त्रो हि पुरुषः कार्यते दारुयन्त्रवत्
केचिदीश्वरनिर्दिष्टाः केचिदेव यदृच्छया। पूर्वकर्मभिरप्यन्ये त्रैधमेतत्प्रदृश्यते। तस्मादनर्थमापन्नः स्थिरो भूत्वा निशामय
हिरण्वत्यां निविष्टेषु पाण्डवेषु महात्मसु। न्यविशन्त महाराज कौरवेया यथाविधि
तत्र दुर्योधनो राजा निवेस्य बलमोजसा । संमानयित्वा नृपतीन्न्यस्य गुल्मांस्तथैव च
आरक्षस्य विधिं कृत्वा योधानां तत्र भारत । कर्णं दुःशासनं चैव शकुनिं चापि सौबलम्
आनाय्य नृपतिस्तत्र मन्त्रयामास भारत। तत्र दुर्योधनो राजा कर्णेन सह भारत
सौबलेन च राजेन्द्र मन्त्रयित्वा नरर्षभ । आहूयोपह्वरे राजन्नुलूकमिदमब्रवीत्
उलूक गच्छ कैतव्य पाण्डवान्सहसोमकान्। गत्वा मम वचो ब्रूहि वासुदेवस्य श्रृण्वतः
इदं तत्समनुप्राप्तं वर्षपूगाभिचिन्तितम् । पाण्डवानां कुरूणां च युद्धं लोकभयङ्करम्
यदेतत्कत्थनावाक्यं सञ्जयो महदब्रवीत्। वासुदेवसहायस्य गर्जतः सानुजस्य ते
मध्ये करूणां कौन्तेय तस्य कालोयमागतः । यथावत्संप्रतिज्ञातं तत्सर्वं क्रियतामिति
ज्येष्ठं तथैव कौन्तेयं ब्रूयास्त्यं वचनान्मम
भ्रातृभिः सहितः सर्वैः सोमकैश्च सकेकयैः। कथं वा धार्मिको भूत्वा त्वमधर्मे मनः कृथाः। य इच्छसि जगत्सर्वं नश्यमानं नृशंसवत्
अभयं सर्वभूतेभ्यो पाता त्वमिति मे मतिः