अक्षौहिण्या महावीर्यः पाण्डवान्क्षिप्रमागमत्। ततः स कवची धन्वी तली खङ्गी शरासनी
रथेनादित्यवर्णेन प्रविवेश महाचमूम् । विदितः पाण्डवेयानां वासुदेवप्रियेप्सया
युधिष्ठिरस्तु तं राजा प्रत्युद्गम्याभ्यपूजयत्। स पूजितः पाण्डुपुत्रैर्यथान्यायं सुसंस्तुतः
प्रतिगृह्य तु तान्सर्वान्विश्रान्तः सहसैनिकः । उवाच मध्ये वीराणां कुन्तीपुत्रं धनञ्जयम्
सहायोस्मि स्थितो युद्धे यदि भीतोसि पाण्डव । करिष्यामि रणे साह्यमसह्यं तव शत्रुभिः
न हि मे विक्रमे तुल्यः पुमानस्तीह कश्चन। हनिष्यामिरणे भागं यन्मे दास्यसि पाण्डव
अपि द्रोणकृपौ वीरौ भीष्मकर्णावथो पुनः । अथवा सर्व एवैते तिष्ठन्तु वसुधाधिपाः
निहत्य समरे शत्रूंस्तव दास्यामि मेदिनीम् । इत्युक्तो धर्मराजस्य केशवस्य च संनिधौ
श्रृण्वतां पार्थिवेन्द्राणामन्येषां चैव सर्वशः । वासुदेवमभिप्रेक्ष्य धर्मराजं च पाण्डवम्। उवाच धीमान्कौन्तेयः प्रहस्य सखिपूर्वकम्
युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः । सहायो घोषयात्रायां कस्तदासीत्सखा मम
तथा प्रतिभये तस्मिन्देवदानवसंकुले। खाण्डवे युध्यमानस्य कः सहायस्तदावभवत्
निवातकवचैर्युद्धे कालकेयैश्च दानवैः । तत्र मे युध्यमानस्य कः सहायस्तदाभवत्
तथा विराटनगरे कुरुभिः सह सङ्गरे। युध्यतो बहुभिस्तत्र कः सहायोऽभवन्मम
उपजीव्य रणे रुद्रं शक्रं वैश्रवणं यमम्। वरुणं पावकं चैव कृपं द्रोणं च माधवम्
धारयन्गाण्डिवं दिव्यं धनुस्तेजोमयं दृढम् । अक्षय्यशरसंयुक्तो दिव्यास्त्रपरिबृंहितः
कौरवामां कुले जातः पाण्डोः पुत्रो विशेषतः । द्रोणं व्यपदिशञ्छिष्यो वासुदेवसहायवान्
कथमस्मद्विधो ब्रूयाद्भीतोऽस्मीति यशोहरम् । वचनं नरशार्दूल वज्रायुधसमस्वनम्
नास्मि भीतो महाबाहो सहायार्थश्च नास्ति मे । यथाकामं यथायोगं गच्छ वात्रैव तिष्ठ वा
तच्छ्रुत्वा वचनं तस्य विजयस्य च धीमतः ।' विनिवर्त्य ततो रुक्मी सेनां सागरसंनिभाम् । दुर्योधनमुपागच्छत्तथैव भरतर्षभ
तथैव चाभिगम्यैनमुवाच वसुधाधिपः। प्रत्याख्यातश्च तेनापि स तदा शूरमानिना
द्वावेव तु महाराज तस्माद्युद्धादपेयतुः। रौहिणेयश्च वार्ष्णेयो रुक्मी च वसुधाधिप
गते रामे तीर्थयात्रां भीष्मकस्य सुते तथा। उपाविशन्पाण्डवेया मन्त्राय पुनरेव च
समितिर्धर्मराजस्य सा पार्थिवसमाकुला । शुशुभे तारकैश्चित्रा द्यौश्चन्द्रेणेव भारत
तथा व्यूढेष्वनीकेषु कुरुक्षेत्रे द्विजर्षभ । किमर्कुर्वंश्च कुरवः कालेनाभिप्रचोदिताः
तथा व्यूढेष्वनीकेषु यत्तेषु भरतर्षभ। धृतराष्ट्रो महाराज सञ्जयं वाक्यमब्रवीत्
एहि सञ्जय सर्व मे आचक्ष्वानवशेषतः । सेनानिवेशे यद्वृत्तं कुरुपाण्डवसेनयोः
दिष्टमेव परं मन्ये पौरुषं चाप्यनर्थकम् । यदहं बुद्ध्यमानोऽपि युद्धदोषान्क्षयोदयान्
तथापि निकृतिप्रज्ञं पुत्रं दुर्द्यूतदेविनम् । न शक्नोमि नियन्तुं वा कर्तुं वा हितमात्मनः
भवत्येव हि मे सूत बुद्धिर्दोषानुदर्शिनी । दुर्योधनं समासाद्य पुनः सा परिवर्तते
एवं गते वै यद्भावि तद्भविष्यति सञ्जय । क्षत्रधर्मः किल रणे तनुत्यागे हि पूजितः