ततस्तं पाण्डवो राजा करे पस्पर्श पाणिना । वासुदेवपुरोगास्तं सर्व एवाभ्यवादयन्
विराटद्रुपदौ वृद्धावभिवाद्य हलायुधः । युधिष्ठिरेण सहित उपाविशदरिन्दमः
ततस्तेषूपविष्टेषु पार्थिवेषु समन्ततः । वासुदेवमभिप्रेक्ष्य रौहिणेयोऽभ्यभाषत
भवितायं महारौद्रो दारुणः पुरुषक्षयः । दिष्टमेतद्ध्रुवं मन्ये न शक्यमतिवर्तितुम्
तस्माद्युद्धात्समुत्तीर्णानपि वः समुहृञ्जानान्। अरोगानक्षतैर्देहैर्द्रष्टास्मीति मतिर्मम
समेतं पार्थिवं क्षत्रं कालपक्वमसंशयम् । विमर्दश्च महान्भावी मांसशोणितकदर्दमः
उक्तो मया वासुदेवः पुनः पुनरुपह्वरे। संबन्धिषु समां वृत्तिं वर्तस्व मधुसूदन
पाण्डवा हि यथास्माकं तथा दुर्योधनो नृपः। तस्यापि क्रियतां साह्यं स पर्येति पुनःपुनः
तच्च मे नाकरोद्वाक्यं त्वदर्थे मधुसूदनः। निर्विष्टः सर्वभावेन धनञ्जयमवेक्ष्य ह
ध्रुवो जयः पाण्डवानामिति मे निश्चिता मतिः। तथा ह्यभिनिवेशोऽयं वासुदेवस्य भारत
न चाहमृत्सहे कृष्णमृते लोकमुदीक्षितुम् । ततोऽहमनुवर्तामि केशवस्य चिकीर्षितम्
उभौ शिष्यौ हि मे वीरौ गदायद्धविशारदौ । तुल्यस्नेहोऽस्म्यतो भीते तथा दुर्योधने नृपे
तस्माद्यास्यामि तीर्थानि सरस्वत्या निषेवितुम् । न हि शक्ष्यामि कौरव्यान्नश्यमानानवेक्षितुम्
एवमुक्त्वा महाबाहुरनुज्ञातश्च पाण्डवैः। तीर्थयात्रां ययौ रामो निवर्त्य मधुसूदनम्
एतस्मिन्नैव काले तु भीष्मकस्य महात्मनः । हिरण्यरोम्णो नृपतेः साक्षादिन्द्रसखस्य वै
आकूतीनामधिपतिर्भोजस्यातियशस्विनः । दाक्षिणात्यपतेः पुत्रो दिक्षु रुक्मीति विश्रुतः
यः किंपुरुषसिंहस्य गन्धमादनवासिनः । कृत्स्नं शिष्यो धनुर्वेदं चतुष्पादमवाप्तवान्
यो माहेन्द्रं धनुर्लेभे तुल्यं गाण्डीवतेजसा। शार्ङ्गेण च महाबाहुः संमितं दिव्यलक्षणम्
त्रीण्येवैतानि दिव्यानि धनूंषि दिविचारिणाम् । वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः । शार्ङ्ग तु वैष्णवं प्राहुर्दिव्यं तेजोमयं धनुः
धारयामास तत्कृष्णः परसेनाभयावहम्। गाण्डीवं पावकाल्लेभे खाण्डवे पाकशासनिः
द्रुमाद्रुक्मी महातेजा विजयं प्रत्यपद्यत। संछिद्य मौरवान्पाशान्निहत्य मुरमोजसा
निर्जित्य नरकं भौममाहृत्य मणिकुण्डले । षोडश स्त्रीसहस्राणि रत्नानि विविधानि च
प्रतिपेदे हृषीकेशः शार्ङ्गं च धनुरुत्तमम्। रुक्मी तु विजयं लब्ध्वा धनुर्मेघनिभस्वनम्
विभीषयन्निव जगत्पाण्डवानभ्यवर्तत। नामृष्यत पुरा योऽसौ स्वबाहुलगर्वितः
रुक्मिण्या हरणं वीरो वासुदेवेन धीमता। कृत्वा प्रतिज्ञां नाहत्वा निवर्तिष्ये जनार्दनम्
ततोऽन्वधावद्वार्ष्णेयं सर्वशस्त्रभृतां वरः। सेनया चतुरङ्गिण्या महत्या दूरपातया
विचित्रायुधवर्मिण्या गङ्ग्येव प्रवृद्धया। स समासाद्य वार्ष्णेयं योगानामीश्वरं प्रभुम्
व्यंसितो व्रीडितो राजन्नाजगाम स कुण्डिनम्। यत्रैव कृष्णेन रणे निर्जितः परवीरहा
तत्र भोजकटं नाम कृतं नगरमुत्तमम् । सैन्येन महता तेन प्रभूतगजवाजिना
पुरं तद्भुवि विख्यातं नाम्ना भोजकटं नृप । स भोजराजः सैन्येन महता परिवारितः