एतान्सप्त महाभागान्वीरान्युद्धाभिकाङ्क्षिणः । सेनाप्रणेतॄन्विधिवदभ्यषिञ्चद्युधिष्ठिरः
सर्वसेनापतिं चात्र धृष्टद्युम्नं चकार ह । द्रोणान्तहेतोरुत्पन्नो य इद्धाञ्जातवेदसः
सर्वेषामेव तेषां तु समस्तानां महात्मनाम् । सेनापतिपतिं चक्रे गडाकेशं धनञ्जयम्
अर्जुनस्यापि नेता च संयन्ता चैव वाजिनाम्। सङ्कर्णणानुजः श्रीमान्महाबुद्धिर्जनार्दनः
तद्दृष्ट्वोपस्थितं युद्धं समासन्नं महात्ययम् । प्राविशद्भवनं राज्ञः पाण्डवानां हलायुधः
सहाक्रूरप्रभृतिभिर्ददसाम्बोद्धवादिभिः । रौक्मिणेयाहुकसुतैश्चारुदेष्णपुरोगमैः
वृष्णिमुख्यैरधिगतैर्व्याघ्रैरिव बलोत्कटैः । अभिगुप्तो महाबाहुर्मरुद्भिरिव वासवः
नीलकौशेयवसनः कैलासशिखरोपमः । सिंहखेलगतिः श्रीमान्मदरक्तान्तलोचनः
तं दृष्ट्वा धर्मराजश्च केशवश्च महाद्युतिः । उदतिष्ठत्ततः पार्थो भीमकर्मा वृकोदरः
गाण्डीवधन्वा ये चान्ये राजानस्तत्र केचन। पूजयाञ्चक्रिरे ते वै समायान्तं हलायुधम्
ततस्तं पाण्डवो राजा करे पस्पर्श पाणिना । वासुदेवपुरोगास्तं सर्व एवाभ्यवादयन्
विराटद्रुपदौ वृद्धावभिवाद्य हलायुधः । युधिष्ठिरेण सहित उपाविशदरिन्दमः
ततस्तेषूपविष्टेषु पार्थिवेषु समन्ततः । वासुदेवमभिप्रेक्ष्य रौहिणेयोऽभ्यभाषत
भवितायं महारौद्रो दारुणः पुरुषक्षयः । दिष्टमेतद्ध्रुवं मन्ये न शक्यमतिवर्तितुम्
तस्माद्युद्धात्समुत्तीर्णानपि वः समुहृञ्जानान्। अरोगानक्षतैर्देहैर्द्रष्टास्मीति मतिर्मम
समेतं पार्थिवं क्षत्रं कालपक्वमसंशयम् । विमर्दश्च महान्भावी मांसशोणितकदर्दमः
उक्तो मया वासुदेवः पुनः पुनरुपह्वरे। संबन्धिषु समां वृत्तिं वर्तस्व मधुसूदन
पाण्डवा हि यथास्माकं तथा दुर्योधनो नृपः। तस्यापि क्रियतां साह्यं स पर्येति पुनःपुनः
तच्च मे नाकरोद्वाक्यं त्वदर्थे मधुसूदनः। निर्विष्टः सर्वभावेन धनञ्जयमवेक्ष्य ह
ध्रुवो जयः पाण्डवानामिति मे निश्चिता मतिः। तथा ह्यभिनिवेशोऽयं वासुदेवस्य भारत
न चाहमृत्सहे कृष्णमृते लोकमुदीक्षितुम् । ततोऽहमनुवर्तामि केशवस्य चिकीर्षितम्
उभौ शिष्यौ हि मे वीरौ गदायद्धविशारदौ । तुल्यस्नेहोऽस्म्यतो भीते तथा दुर्योधने नृपे
तस्माद्यास्यामि तीर्थानि सरस्वत्या निषेवितुम् । न हि शक्ष्यामि कौरव्यान्नश्यमानानवेक्षितुम्
एवमुक्त्वा महाबाहुरनुज्ञातश्च पाण्डवैः। तीर्थयात्रां ययौ रामो निवर्त्य मधुसूदनम्
एतस्मिन्नैव काले तु भीष्मकस्य महात्मनः । हिरण्यरोम्णो नृपतेः साक्षादिन्द्रसखस्य वै
आकूतीनामधिपतिर्भोजस्यातियशस्विनः । दाक्षिणात्यपतेः पुत्रो दिक्षु रुक्मीति विश्रुतः
यः किंपुरुषसिंहस्य गन्धमादनवासिनः । कृत्स्नं शिष्यो धनुर्वेदं चतुष्पादमवाप्तवान्
यो माहेन्द्रं धनुर्लेभे तुल्यं गाण्डीवतेजसा। शार्ङ्गेण च महाबाहुः संमितं दिव्यलक्षणम्
त्रीण्येवैतानि दिव्यानि धनूंषि दिविचारिणाम् । वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः । शार्ङ्ग तु वैष्णवं प्राहुर्दिव्यं तेजोमयं धनुः
धारयामास तत्कृष्णः परसेनाभयावहम्। गाण्डीवं पावकाल्लेभे खाण्डवे पाकशासनिः