न तु पश्यामि योद्धारमात्मनः सदृशं भुवि । ऋते तस्मान्नरव्याघ्रात्कुन्तीपुत्राद्धनञ्जयात्
स हि वेद महाबुद्धिर्दिव्यान्यस्त्राण्यनेकशः । न तु मां विवृतो युद्धे जातु युध्येत पाण्डवः
अहं स च क्षणेनैव निर्मनुष्यमिदं जगत्। कुर्यावास्त्रबलेनैव ससुरासुरराक्षसम्
न त्वेवोत्सादनीया मे पाण्डोः पुत्रा जनाधिप । तस्माद्योधान्हनिष्यामि प्रयोगेणायुतं सदा
एवमेषां फरिष्यामि निधनं कुरुनन्दन । न चेत्ते मां हनिष्यन्ति पूर्वमेव समागमे
सेनापतिस्त्वहं राजन्समयेनापरेण ते। भविष्यामि यथाकामं तन्मे श्रोतुमिहार्हसि
कर्णो वा युध्यतां पूर्वमहं वा पृथिवीपते । स्पर्धते हि सदात्यर्थं सूतपुत्रो मया रणे
नाहं जीवति गाङ्गेये राजन्योत्स्ये कथंचन। हते भीष्मे तु योत्स्यामि सह गाण्डीवधन्वना
ततः सेनापतिं चक्रे विधिवद्भूरिदक्षिणम्। धृतराष्ट्रात्मजो भीष्मं सोऽभिषिक्तो व्यरोचत
ततो भेरीश्च शङ्खांश्च शतशोऽथ सहस्रशः। वादयामासुव्यग्रा वादका राजशासनात्
सिंहनादाश्च विविधा वाहनानां च निःस्वनाः
निर्घार्ताः पृथिवीकम्पा गजबृंहितनिःस्वनाः। आसंश्च सर्वयोधानां पातयन्तो मनांस्युत
वाचश्चाप्यशरीरिण्यो दिवश्चोल्काः प्रपेदिरे। शिवाश्च भयवेदिन्यो नेदुर्दीप्ततरा भृशम्
सैनापत्ये यदा राजा गाङ्गेयमभिषिक्तवान् । तदैतान्युग्ररूपाणि बभूवुः शतशो नृप
ततः सेनापतिं कृत्वा भीष्मं परबलार्दनम् । वाचयित्वा द्विजश्रेष्ठान्गोभिर्निष्कैश्च भूरिशः
वर्धमानो जयाशीर्भिर्निर्ययौ सैनिकैर्वृतः। आपगेयं पुरस्कृत्य भ्रातृभिः सहितस्तदा
स्कन्धावारेण महता कुरुक्षेत्रं जगाम ह
परिक्रम्य कुरुक्षेत्रं कर्णेन सह कौरवः । शिबिरं मापयामास समे देशे जनाधिप
मधुरानूषरे देशे प्रभूतयवसेन्धने। यथैव हास्तिनपुरं तद्वच्छिबिरमाबभौ
आपगेयं महात्मानं भीष्मं शस्त्रभृतां वरम्। पितामहं भारतानां ध्वजं सर्वमहीक्षिताम्
बृहस्पतिसं बुद्ध्या क्षमया पृथिवीसमम् । समुद्रमिव गाम्भीर्ये हिमवन्तमिव स्थिरम्
प्रजापतिमिवौदार्ये तेजसा भास्करोपमम् । महेन्द्रमिव शत्रूणां ध्वंसनं शरवृष्टिभिः
रणयज्ञे प्रवितते सुभीमे लोमहर्षणे। दीक्षितं चिररात्राय श्रुत्वा तत्र युधिष्ठिरः
किमब्रवीन्महाबाहुः सर्वशस्त्रभृतां वरः । भीमसेनार्जुनौ वापि कृष्णो वा प्रत्यभाषत
आपद्धर्मार्थकुशलो महाबुद्धिर्युधिष्ठिरः। सर्वान्भ्रातॄन्समानीय वासुदेवं च शाश्वतम्
उवाच वदतां श्रेष्ठः सान्त्वपूर्वमिदं वचः। पर्याक्रामत सैन्यानि यत्तास्तिष्ठत दंशिताः
पितामहेन वो युद्धं पूर्वमेव भविष्यति। तस्मात्सप्तसु सेनासु प्रणेतॄन्मम पश्यत
यथार्हति भवान्वक्तुमस्मिन्काले ह्युपस्थिते। तथेदमर्थवद्वाक्यमुक्तं ते भरतर्षभ
रोचते मे महाबाहो क्रियतां यदनन्तरम्। नायकास्तव सेनायां क्रियन्तामिह सप्त वै
ततो द्रुपदमानाय्य विराटं शिनिपुङ्गवम् । धृष्टद्युम्नं च पाञ्चाल्यं धृष्टकेतुं च पार्थिव। शिखण्डिनं च पाञ्चाल्यं सहदेवं च मागधम्