रथस्य नागाः पञ्चाशन्नागस्यासञ्शतं हयाः। हयस्य पुरुषाः सप्त भिन्नसन्धानकारिणः
सेना पञ्चशतं नागा रथास्तावन्त एव च। दशसेना च पृतना पृतना दश वाहिनी
सेना च वाहिनी चैव पृतना ध्वजिनी चमूः । अक्षौहिणीति पर्यायैर्निरुक्ता च वरूथिनी
एवं व्यूढान्यनीकानि कौरवेयेण धीमता। अक्षौहिण्यो दशैका च सङ्ख्याताः सप्त चैव ह
अक्षौहिण्यस्तु सप्तैव पाण्डवानामभूद्बलम् । अक्षौहिण्यो दशैका च कौरवाणामभूद्बलम्
नराणां पञ्चपञ्चाशदेषा पत्तिर्विधीयते। सेनामुखं च तिस्रस्ता गुल्म इत्यभिशब्दितम्
त्रयो गुल्मा गणस्त्वासीद्गणास्त्वयुतशोऽभवन् । दुर्योधनस्य सेनासु योत्स्यमानाः प्रहारिणः
तत्र दुर्योधनो राजा शूरान्बुद्धिमतो नरान्। प्रसमीक्ष्य महाबाहुश्चक्रे सेनापतींस्तदा
पृथगक्षौहिणीनां च प्रणेतॄन्नरसत्तमान् । विधिवत्पूर्वमानीय पार्थिवानभ्यषेचयत्
कृपं द्रोणं च शल्यं च सैन्धवं च जयद्रथम् । सुदक्षिणं च काम्भोजं कृतवर्माणमेव च
द्रोणपुत्रं च कर्णं च भूरिश्रवसमेव च। शकुनिं सौबलं चैव बाह्लीकं च महाबलम्
दिवसे दिवसे तेषां प्रतिवेलं च भारत। चक्रे स विविधाः पूजाः प्रत्यक्षं च पुनः पुनः
तथा विनियताः सर्वे ये च तेषां पदानुगाः। बभूवुः सैनिका राज्ञां प्रियं राज्ञश्चिकीर्षवः
ततः शान्तनवं भीष्मं प्राञ्जलिर्धृतराष्ट्रजः। सह सर्वैर्महीपालैरिदं वचनमब्रवीत्
ऋते सेनाप्रणेतारं पृतना सुमहत्यपि । दीर्यते युद्धमासाद्य पिपीलिकपुटं यथा
नहि जातु द्वयोर्बुद्धिः समा भवति कर्हिचित् । शौर्यं च वलनेतॄणां स्पर्धते च परस्परम्
श्रूयते च महाप्राज्ञ हैहयानमितौजसः । अभ्ययुर्ब्राह्मणाः सर्वे समुच्छ्रितकुशध्वजाः
तानभ्ययुस्तदा वैश्याः शूद्राश्चैव पितामह । एकतस्तु त्रयो वर्णा एकतः क्षत्रियर्षभाः
ते स्म युद्धे प्रभज्यन्ते त्रयो वर्णाः पुनः पुनः । क्षत्रियाश्च जयन्त्येव बहुलं चैकतो बलम्
ततस्ते क्षत्रियानेव पप्रच्छुर्द्विचसत्तमाः । तेभ्यः शशंसुर्धर्मज्ञा याथातथ्यं पितामह
वयमेकस्य श्रृणुमो महाबुद्धिमतो रणे । भवन्तस्तु पृथक्सर्वे स्वबुद्धिवशवर्तिनः
ततस्ते ब्राह्मणाश्चक्रुरेकं सेनापतिं द्विजम्। नये सुकुशलं शूरमजयन्क्षत्रियांस्ततः
एवं ये कुशलं शूरं हितेप्सितमकल्पषम्। सेनापतिं प्रकुर्वन्ति ते जयन्ति रणे रिपून्
भवानुशनसा तुल्यो हितैषी च सदा मम। असंहार्थः स्थितो धर्मे स नः सेनापतिर्भव
रश्मीवतामिवादित्यो वीरुधामिव चन्द्रमाः । कुबेर इव यक्षाणां देवानामिव वासवः
पर्वतानां यथा मेरुः सुपर्णः पक्षिणां यथा। कुमार इव देवानां वसूनामिव हव्यवाट्
भवता हि वयं गुप्ताः शत्रेणेव दिवौकसः । अनाधृष्या भविष्यामस्त्रिदशानामपि ध्रुवम्
प्रयातु नो भवानग्रे देवानामिव पावकिः । वयं त्वामनुयास्यामः सौरभेया इवर्षभम्
एवमेतन्महाबाहो यथा वदसि भारत। यथैव हि भवन्तो मे तथैव मम पाण्डवाः
अपि चैव मया श्रोयो वाच्यं तेषां नराधिप । संयोद्धव्यं तवार्थाय यथा मे समयः कृतः