सानुकर्षाः सतूणीराः सवरूथाः सतोमराः। सोपासङ्गाः सशक्तीकाः सनिषङ्गाः सहर्ष्टयः
सध्वजाः सपताकाश्च सशरासनतोमराः । रज्जुभिश्च विचित्राभिः सपाशाः सपरिच्छदाः
सकचग्रहविक्षेपाः सतैलगुडवालुकाः । साशीविषघटाः सर्वे ससर्जरसपांसवः
सघण्टफलकाः सर्वे सायोगुडजलोपलाः ।। सशालभिन्दिपालाश्च समधूच्छिष्टमुद्गराः
सकाण्डदण्डकाः सर्वे ससीरविषतोमराः । सशूर्पपिटकाः सर्वे सदात्राङ्कुशतोमराः
सकीलकवचाः सर्वे वाशीवृक्षादनान्विताः। व्याघ्रचर्मपरीवारा द्वीपिचर्मावृताश्च ते
सहर्ष्टयः सश्रृङ्गाश्च सप्रासविविधायुधाः । सकुठाराः सकुद्दालाः सतैलक्षौमसर्पिषः
रुक्मजालप्रतिच्छन्ना नानामणिविभूषिताः । चित्रानीकाः सुवपुषो ज्वलिता इव पावकाः
तथा कवचिनः शूराः शस्त्रेषु कृतनिश्चयाः । कुलीना हययोनिज्ञाः सारथ्ये विनिवेशिताः
बद्धारिष्टा बद्धकक्षा बद्धध्वजपताकिनः। बद्धाभरणनिर्यूहा बद्धचर्मासिपट्टिशाः
चतुर्युजो रथाः सर्वे सर्वे चोत्तमवाजिनः । सप्रासऋष्टिकाः सर्वे सर्वे शतशरासनाः
धुर्ययोर्हकययोरेकस्तथान्यौ पर्ष्णिसारथी । तौ चापि रथिनां श्रेष्ठौ रथी च हयवित्तथा
नगराणीव गुप्तानि दुराधर्षाणि शत्रुभिः । आसन्रथसहस्राणि हेममालीनि सर्वशः
यथा रथास्तथा नागा बद्धकक्षाः स्वलङ्कृताः । बभूवुः सप्तपुरुषा रत्नवन्त इवाद्रयः
द्वावङ्कुशधरौ तत्र द्वावुत्तमधनुर्धरौ । द्वौ वरासिधरौ राजन्नेकः शक्तिपिनाकधृत्
गजैर्मत्तैः समाकीर्णं सर्वमायुधकोशकैः। तद्बभूव बलं राजन्कौरव्यस्य महात्मनः
आमुक्तकवचैर्युक्तैः सपताकैः स्वलङ्कृतैः । सादिभिश्चोपपन्नास्तु तथा चायुतशो हयाः
असङ्ग्राहाः सुसंपन्ना हेमभाण्डपरिच्छदाः। अनेकशतसाहस्राः सर्वे सादिवशे स्थिताः
नानारूपविकाराश्च नानाकवचशस्त्रिणः । पदातिनो नरास्तत्र बभूवुर्हेममालिनः
रथस्यासन्दश गजा गजस्य दश वाजिनः । नरा दश हयस्यासन्पादरक्षाः समन्ततः
रथस्य नागाः पञ्चाशन्नागस्यासञ्शतं हयाः। हयस्य पुरुषाः सप्त भिन्नसन्धानकारिणः
सेना पञ्चशतं नागा रथास्तावन्त एव च। दशसेना च पृतना पृतना दश वाहिनी
सेना च वाहिनी चैव पृतना ध्वजिनी चमूः । अक्षौहिणीति पर्यायैर्निरुक्ता च वरूथिनी
एवं व्यूढान्यनीकानि कौरवेयेण धीमता। अक्षौहिण्यो दशैका च सङ्ख्याताः सप्त चैव ह
अक्षौहिण्यस्तु सप्तैव पाण्डवानामभूद्बलम् । अक्षौहिण्यो दशैका च कौरवाणामभूद्बलम्
नराणां पञ्चपञ्चाशदेषा पत्तिर्विधीयते। सेनामुखं च तिस्रस्ता गुल्म इत्यभिशब्दितम्
त्रयो गुल्मा गणस्त्वासीद्गणास्त्वयुतशोऽभवन् । दुर्योधनस्य सेनासु योत्स्यमानाः प्रहारिणः
तत्र दुर्योधनो राजा शूरान्बुद्धिमतो नरान्। प्रसमीक्ष्य महाबाहुश्चक्रे सेनापतींस्तदा
पृथगक्षौहिणीनां च प्रणेतॄन्नरसत्तमान् । विधिवत्पूर्वमानीय पार्थिवानभ्यषेचयत्
कृपं द्रोणं च शल्यं च सैन्धवं च जयद्रथम् । सुदक्षिणं च काम्भोजं कृतवर्माणमेव च