यदर्थं वनवासश्च प्राप्तं दुःखं च यन्मया। सोयमस्मानुपैत्येव परोऽनर्थः प्रयत्नतः
यस्मिन्यत्नः कृतोऽस्माभिः स नो हीनः प्रयत्नतः। अकृते तु प्रयत्नेऽस्मानुपावृत्तः कलिर्महान्
कथं ह्यवध्यैः सङ्ग्रामः कार्यः सह भविष्यति। कथं हत्वा गुरून्वृद्धान्विजयो नो भविष्यति
तच्छ्रुत्वा धर्मराजस्य सव्यसाची परन्तपः। यदुक्तं वासुदेवेन श्रावयामास तद्वचः
उक्तवान्देवकीपुत्रः कुन्त्याश्च विदुरस्य च । वचनं तत्त्वया राजन्निखिलेनावधारितम्
न च तौ वक्ष्यतोऽधर्ममिति मे नैष्ठिकी मतिः। नापि युक्तं च कौन्तेय निवर्तितुमयुध्यतः
तच्छ्रुत्वा वासुदेवोऽपि सव्यसाचिवचस्तदा । स्मयमानोऽब्रवीद्वाक्यं पार्थमेवमिति ब्रुवन्
ततस्ते धृतसंकल्पा युद्धाय सह सैनिकाः। पाण्डवेया महाराज तां रात्रिं सुखमावसन्
व्युष्टायां वै रजन्यां हि राजा दुर्योधनस्ततः। व्यभजत्तान्यनिकानि दश चैकं च भारत
नरहस्तिरथाश्वानां सारं मध्यं च फल्गु च। सर्वेष्वेतेष्वनीकेषु सन्दिदेश नराधिपः
सानुकर्षाः सतूणीराः सवरूथाः सतोमराः। सोपासङ्गाः सशक्तीकाः सनिषङ्गाः सहर्ष्टयः
सध्वजाः सपताकाश्च सशरासनतोमराः । रज्जुभिश्च विचित्राभिः सपाशाः सपरिच्छदाः
सकचग्रहविक्षेपाः सतैलगुडवालुकाः । साशीविषघटाः सर्वे ससर्जरसपांसवः
सघण्टफलकाः सर्वे सायोगुडजलोपलाः ।। सशालभिन्दिपालाश्च समधूच्छिष्टमुद्गराः
सकाण्डदण्डकाः सर्वे ससीरविषतोमराः । सशूर्पपिटकाः सर्वे सदात्राङ्कुशतोमराः
सकीलकवचाः सर्वे वाशीवृक्षादनान्विताः। व्याघ्रचर्मपरीवारा द्वीपिचर्मावृताश्च ते
सहर्ष्टयः सश्रृङ्गाश्च सप्रासविविधायुधाः । सकुठाराः सकुद्दालाः सतैलक्षौमसर्पिषः
रुक्मजालप्रतिच्छन्ना नानामणिविभूषिताः । चित्रानीकाः सुवपुषो ज्वलिता इव पावकाः
तथा कवचिनः शूराः शस्त्रेषु कृतनिश्चयाः । कुलीना हययोनिज्ञाः सारथ्ये विनिवेशिताः
बद्धारिष्टा बद्धकक्षा बद्धध्वजपताकिनः। बद्धाभरणनिर्यूहा बद्धचर्मासिपट्टिशाः
चतुर्युजो रथाः सर्वे सर्वे चोत्तमवाजिनः । सप्रासऋष्टिकाः सर्वे सर्वे शतशरासनाः
धुर्ययोर्हकययोरेकस्तथान्यौ पर्ष्णिसारथी । तौ चापि रथिनां श्रेष्ठौ रथी च हयवित्तथा
नगराणीव गुप्तानि दुराधर्षाणि शत्रुभिः । आसन्रथसहस्राणि हेममालीनि सर्वशः
यथा रथास्तथा नागा बद्धकक्षाः स्वलङ्कृताः । बभूवुः सप्तपुरुषा रत्नवन्त इवाद्रयः
द्वावङ्कुशधरौ तत्र द्वावुत्तमधनुर्धरौ । द्वौ वरासिधरौ राजन्नेकः शक्तिपिनाकधृत्
गजैर्मत्तैः समाकीर्णं सर्वमायुधकोशकैः। तद्बभूव बलं राजन्कौरव्यस्य महात्मनः
आमुक्तकवचैर्युक्तैः सपताकैः स्वलङ्कृतैः । सादिभिश्चोपपन्नास्तु तथा चायुतशो हयाः
असङ्ग्राहाः सुसंपन्ना हेमभाण्डपरिच्छदाः। अनेकशतसाहस्राः सर्वे सादिवशे स्थिताः
नानारूपविकाराश्च नानाकवचशस्त्रिणः । पदातिनो नरास्तत्र बभूवुर्हेममालिनः
रथस्यासन्दश गजा गजस्य दश वाजिनः । नरा दश हयस्यासन्पादरक्षाः समन्ततः