योधचन्द्रोदयोद्भूतः कुरुराजमहार्णवः । व्यदृश्यत तदा राजंश्चन्द्रोदय इवोदधिः
वासुदेवस्य तद्वाक्यमनुस्मृत्य युधिष्ठिरः। पुनः पप्रच्छ वार्ष्णेयं कथं मन्दोऽऽब्रवीदिदम्
अस्मिन्नभ्यागते काले किंच नः क्षममच्युत । कथं च वर्तमाना वै स्वधर्मान्न च्यवेमहि
दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च । वासुदेव मतज्ञोऽसि मम सभ्रातृकस्य च
विदुरस्यापि तद्वाक्यं श्रुतं भीष्मस्य चोभयोः । कुन्त्याश्च विपुलप्रज्ञ प्रज्ञा कार्त्स्न्येन ते श्रुता
सर्वमेतदतिक्रम्य विचार्य च पुनः पुनः । क्षमं यन्नो महाबाहो तद्ब्रवीह्यविचारयन्
श्रुत्वैतद्धर्मराजस्य धर्मार्थसहितं वचः। मेघदुन्दुभिनिर्घोषः कृष्णो वाक्यमथाब्रवीत्
उक्तवानस्मि यद्वाक्यं धर्मार्थसहितं हितम्। न तु तन्निकृतिप्रज्ञे कौरव्ये प्रतितिष्ठति
न च भीष्मस्य दुर्मेधाः शृणोति विदुरस्य वा। मम वा भाषितं किंचित्सर्वमेवातिवर्तते
नैष कामयते धर्मं नैष कामयते यशः । जितं स मन्यते सर्वं दुरात्मा कर्णमाश्रितः
बन्धमाज्ञापयामास मम चापि सुयोधनः । न च तं लब्धवान्कामं दुरात्मा पापनिश्चयः
न च भीष्मो न च द्रोणो युक्तं तत्राहतुर्वचः। सर्वे तमनुवर्तन्ते ऋते विदुरमुच्युत
शकुनिः सौबलश्चैव कर्णदुःशासनावपि । त्वय्ययुक्तान्यभाषन्त मूढा मूढममर्षणम्
किंच तेन मयोक्तेन यान्यभाषत कौरवः । संक्षेपेण दुरात्मासौ न युक्तं त्वयि वर्तते
पार्थिवेषु न सर्वेषु य इमे तव सैनिकाः। यत्पापं यन्न कल्याणं सर्वं तस्मिन्प्रतिष्ठितम्
न चापि वयमत्यर्थं परित्यागेन कर्हिचित्। कौरवैः शममिच्छामस्तत्र युद्धमनन्तरम्
तच्छ्रुत्वा पार्थिवाः सर्वे वासुदेवस्य भाषितम्। अब्रुवन्तो मुखं राज्ञः समुदैक्षन्त भारत
युधिष्ठिरस्त्वभिप्रायमभिलक्ष्य महीक्षिताम् । योगमाज्ञापयामास भीमार्जुनयमैः सह
ततः किलकिलाभूतमनीकं पाण्डवस्य ह। आज्ञापिते तदा योगे समहृष्यन्त सैनिकाः
अवध्यानां वधं पश्यन्धर्मराजो युधिष्ठिरः। निश्वसन्भीमसेनं च विजयं चेदमब्रवीत्
यदर्थं वनवासश्च प्राप्तं दुःखं च यन्मया। सोयमस्मानुपैत्येव परोऽनर्थः प्रयत्नतः
यस्मिन्यत्नः कृतोऽस्माभिः स नो हीनः प्रयत्नतः। अकृते तु प्रयत्नेऽस्मानुपावृत्तः कलिर्महान्
कथं ह्यवध्यैः सङ्ग्रामः कार्यः सह भविष्यति। कथं हत्वा गुरून्वृद्धान्विजयो नो भविष्यति
तच्छ्रुत्वा धर्मराजस्य सव्यसाची परन्तपः। यदुक्तं वासुदेवेन श्रावयामास तद्वचः
उक्तवान्देवकीपुत्रः कुन्त्याश्च विदुरस्य च । वचनं तत्त्वया राजन्निखिलेनावधारितम्
न च तौ वक्ष्यतोऽधर्ममिति मे नैष्ठिकी मतिः। नापि युक्तं च कौन्तेय निवर्तितुमयुध्यतः
तच्छ्रुत्वा वासुदेवोऽपि सव्यसाचिवचस्तदा । स्मयमानोऽब्रवीद्वाक्यं पार्थमेवमिति ब्रुवन्
ततस्ते धृतसंकल्पा युद्धाय सह सैनिकाः। पाण्डवेया महाराज तां रात्रिं सुखमावसन्
व्युष्टायां वै रजन्यां हि राजा दुर्योधनस्ततः। व्यभजत्तान्यनिकानि दश चैकं च भारत
नरहस्तिरथाश्वानां सारं मध्यं च फल्गु च। सर्वेष्वेतेष्वनीकेषु सन्दिदेश नराधिपः