महायन्त्राणि नाराचास्तोमराणि परश्वधाः। धनूंषि कवचादीनि ऋष्टयस्तूणसंयुताः
गजाः कण्टकसन्नाहा लोहवर्मोत्तरच्छदाः। दृश्यन्ते तत्र गिर्याभाः सहस्रशतयोधिनः
निविष्टान्पाण्डवांस्तत्र ज्ञात्वा मित्राणि भारत । अभिसस्रुर्यथादेशं सबलाः सहवाहनाः
चरितब्रह्मचर्यास्ते सोमपा भूरिदक्षिणाः। जयाय पाण्डुपुत्राणां समाजग्मुर्महीक्षितः
युधिष्ठिरं सहानीकमुपायान्तं युयुत्सया। सन्निविष्टं कुरुक्षेत्रे वासुदेवेन पालितम्
विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम् । केकयैर्वृष्णिभिश्चैव पार्थिवैः शतशो वृतम्
महेन्द्रमिव चादित्यैरभिगुप्तं महारथैः। श्रुत्वा दुर्योधनो राजा किं कार्यं प्रत्यपद्यत
एतदिच्छाम्यहं श्रोतुं विस्तरेण महामते। संभ्रमे तुमुले तस्मिन्यदासीत्कुरुजाङ्गले
व्यथयेयुरिमे देवान्सेन्द्रानपि समागमे । पाण्डवा वासुदेवश्च विराटद्रुपदौ तथा
धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी च महारथः । युधामन्युश्च विक्रान्तो देवैरपि दुरासदः
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन । कुरूणां पाण्डवानां च यद्यदासीद्विचेष्टितम्
प्रतियाते तु दाशार्हे राजा दुर्योधनस्तदा। कर्णं दुःशासनं चैव शकुनिं चाब्रवीदिदम्
अकृतेनैव कार्येण गतः पार्थानधोक्षजः । स एनान्मन्युनाविष्टो ध्रुवं धक्ष्यत्यसंशयम्
इष्टो हि वासुदेवस्य पाण्डवैर्मम विग्रहः । भीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ
अजातशत्रुरत्यर्थं भीमसेनवशानुगः। निकृतश्च मया पूर्वं सह सर्वैः सहोदरैः
विराटद्रुपदौ चैव कृतवैरौ मया सह । तौ च सेनाप्रणेतारौ वासुदेववशानुगौ
भविता विग्रहः सोयं तुमुलो लोमहर्षणः । तस्मात्साङ्ग्रामिकं सर्वं कारयध्वमतन्द्रिताः
शिबिराणि कुरुक्षेत्रे क्रियन्तां वसुधाधिपाः । स्वपर्याप्तावकाशानि दुरादेयानि शत्रुभिः
आसन्नजलकोष्ठानि शतशोथ सहस्रशः । अच्छेद्याहारमार्गाणि बन्धोच्छ्रयचितानि च
विविधायुधपूर्णानि पताकाध्वजवन्ति च। समाश्च तेषां पन्थानः क्रियन्तां नगराद्बहिः
ते तथेति प्रतिज्ञाय श्वोभूते चक्रिरे तथा
हृष्टरूपा महात्मानो निवासाय महीक्षिताम् । ततस्ते पार्थिवाः सर्वे तच्छ्रुत्वा राजशासनम्
आसनेभ्यो महार्हेभ्य उदतिष्ठन्नमर्षिताः । बाहून्परिघसङ्काशान्संस्पृशन्तः शनैः शनैः
काञ्चनाङ्गददीप्तांश्च चन्दनागरुभूषितान्। उष्णीषाणि नियच्छन्तः पुण्डरीकनिभै करैः। अन्तरीयोत्तरीयाणि भूषणानि च सर्वशः
ते रथान्रथिनः श्रेष्ठा हयांश्च हयकोविदाः। सज्जयन्ति स्म नागांश्च नागशिक्षास्वनुष्ठिताः
अथ वर्माणि चित्राणि काञ्चनानि बहूनि च । विविधानि च शस्त्राणि चक्रुः सर्वाणि सर्वशः
पदातयश्च पुरुषाः शस्त्राणि विविधानि च। उपाजह्रुः शरीरेषु हेमचित्राण्यनेकशः
तदुत्सव इवोदग्रं संप्रहृष्टनरावृतम् । नगरं धार्तराष्ट्रस्य भारतासीत्समाकुलम्
जनौघसलिलावर्तो रथनागाश्वमीनवान् । शङ्खदुन्दुभिनिर्घोषः कोशसञ्चयरत्नवान्
चित्राभरणवर्मोर्मिः शस्त्रनिर्मलफेनवान् । प्रासादमालाद्रिवृतो रथ्यापणमहाह्रदः