विद्राव्य शतशो गुल्मान्धार्तराष्ट्रस्य सैनिकान् । पर्यक्रामत्समन्ताच्च पार्थेन सह केशवः
शिबिरं मापयामास धृष्टद्युम्नश्च पार्षतः। सात्यकिश्च रथोदारो युयुधानश्च वीर्यवान्
आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम् । सूपतीर्थां शुचिजलां शर्करापङ्कवर्जिताम्
खानयामास परिखां केशवस्त्रत्र भारत । गुप्त्यर्थमपि चादिश्य बलं तत्र न्यवेशयत्
विधिर्यः शिबिरस्यासीत्पाण्डवानां महात्मनाम् । तद्विधानि नरेन्द्राणां कारयामास केशवः
प्रभूततरकाष्ठानि दुराधर्षतराणि च। भक्ष्यभोज्यान्नपानानि शतशोऽथ सहस्रशः
शिबिराणि महार्हाणि राज्ञां तत्र पृथक्पृथक् । विमानानीव राजेन्द्र निविष्टानि महीतले
तत्रासञ्शिल्पिनः प्राज्ञाः शतशो दत्तवेतनाः। सर्वापकरणैर्युक्ता वैद्याः शास्त्रविशारदाः
ज्याधनुर्वर्मशस्त्राणां तथैव मधुसर्पिषोः । ससर्जरकसपांसूनां राशयः पर्वतोपमाः
बहूदकं सुयवसं तुषाङ्गारसमन्वितम् । शिबिरे शिबिरे राजा सञ्चकार युधिष्ठिरः
महायन्त्राणि नाराचास्तोमराणि परश्वधाः। धनूंषि कवचादीनि ऋष्टयस्तूणसंयुताः
गजाः कण्टकसन्नाहा लोहवर्मोत्तरच्छदाः। दृश्यन्ते तत्र गिर्याभाः सहस्रशतयोधिनः
निविष्टान्पाण्डवांस्तत्र ज्ञात्वा मित्राणि भारत । अभिसस्रुर्यथादेशं सबलाः सहवाहनाः
चरितब्रह्मचर्यास्ते सोमपा भूरिदक्षिणाः। जयाय पाण्डुपुत्राणां समाजग्मुर्महीक्षितः
युधिष्ठिरं सहानीकमुपायान्तं युयुत्सया। सन्निविष्टं कुरुक्षेत्रे वासुदेवेन पालितम्
विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम् । केकयैर्वृष्णिभिश्चैव पार्थिवैः शतशो वृतम्
महेन्द्रमिव चादित्यैरभिगुप्तं महारथैः। श्रुत्वा दुर्योधनो राजा किं कार्यं प्रत्यपद्यत
एतदिच्छाम्यहं श्रोतुं विस्तरेण महामते। संभ्रमे तुमुले तस्मिन्यदासीत्कुरुजाङ्गले
व्यथयेयुरिमे देवान्सेन्द्रानपि समागमे । पाण्डवा वासुदेवश्च विराटद्रुपदौ तथा
धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी च महारथः । युधामन्युश्च विक्रान्तो देवैरपि दुरासदः
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन । कुरूणां पाण्डवानां च यद्यदासीद्विचेष्टितम्
प्रतियाते तु दाशार्हे राजा दुर्योधनस्तदा। कर्णं दुःशासनं चैव शकुनिं चाब्रवीदिदम्
अकृतेनैव कार्येण गतः पार्थानधोक्षजः । स एनान्मन्युनाविष्टो ध्रुवं धक्ष्यत्यसंशयम्
इष्टो हि वासुदेवस्य पाण्डवैर्मम विग्रहः । भीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ
अजातशत्रुरत्यर्थं भीमसेनवशानुगः। निकृतश्च मया पूर्वं सह सर्वैः सहोदरैः
विराटद्रुपदौ चैव कृतवैरौ मया सह । तौ च सेनाप्रणेतारौ वासुदेववशानुगौ
भविता विग्रहः सोयं तुमुलो लोमहर्षणः । तस्मात्साङ्ग्रामिकं सर्वं कारयध्वमतन्द्रिताः
शिबिराणि कुरुक्षेत्रे क्रियन्तां वसुधाधिपाः । स्वपर्याप्तावकाशानि दुरादेयानि शत्रुभिः
आसन्नजलकोष्ठानि शतशोथ सहस्रशः । अच्छेद्याहारमार्गाणि बन्धोच्छ्रयचितानि च
विविधायुधपूर्णानि पताकाध्वजवन्ति च। समाश्च तेषां पन्थानः क्रियन्तां नगराद्बहिः