सा तं दृष्ट्वैव राजानं दुष्यन्तमसितेक्षणा। `सुप्रीताऽभ्यागतं तं तु पूज्यं प्राप्तमथेश्वरम्
रूपयौवनसंपन्ना शीलाचारवती शुभा। सा तमायतपद्माक्षं व्यूढोरस्कं महाभुजम्
सिंहस्कन्धं दीर्घबाहुं सर्वलक्षणपूजितम्। स्पृष्टं मधुरया वाचा साऽब्रवीज्जनमेजया
स्वागतं त इति क्षिप्रमुवाच प्रतिपूज्य च। आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि
पप्रच्छानामयं राजन्कुशलं च नराधिपम्। यथावदर्चयित्वाऽथ पृष्ट्वा चानामयं तदा
उवाच स्मयमानेव किं कार्यं क्रियतामिति। `आश्रमस्याभिगमने किं त्वं कार्यं चिकीर्षसि
कस्त्वमद्येह संप्राप्तो महर्षेराश्रमं शुभम्।' तामब्रवीत्ततो राजा कन्यां मधुरभाषिणीम्
दृष्ट्वा सर्वानवद्याङ्गीं यथावत्प्रतिपूजितः। `राजर्षेस्तस्य पुत्रोऽहमिलिनस्य महात्मनः
दुष्यन्त इति मे नाम सत्यं पुष्करलोचने। आगतोऽहं महाभागमृषिं कण्वमुपासितुम्
गतः पिता मे भगवान्फलान्याहर्तुमाश्रमात्। मुहूर्तं संप्रतीक्षस्व द्रष्टास्येनमुपागतम्
अपश्यमानस्तमृषिं तथा चोक्तस्तया च सः। तां दृष्ट्वा च वरारोहां श्रीमतीं चारुहासिनीम्
विभ्राजमानां वपुषा तपसा च दमेन च। रूपयौवनसंपन्नामित्युवाच महीपतिः
का त्वं कस्यासि सुश्रोणि किमर्थं चागता वनम्। एवंरूपगुणोपेता कुतस्त्वमसि शोभने
दर्शनादेव हि शुभे त्वया मेऽपहृतं मनः। इच्छामि त्वामहं ज्ञातुं तन्ममाचक्ष्व शोभने
स्थितोस्म्यमितसौभाग्ये विवक्षुश्चास्मि किंचन। शृणु मे नागनासोरु वचनं मत्तकाशिनि
राजर्षेरन्वये जातः पूरोरस्मि विशेषतः। वृण्वे त्वामद्य सुश्रोणि दुष्यन्तो वरवर्णिनि
न मेऽन्यत्र क्षत्रियाया मनो जातु प्रवर्तते। ऋषिपुत्रीषु चान्यासु नावरासु परासु च
तस्मात्प्रणिहितात्मानं विद्दि मां कलभाषिणि। यस्यां मे त्वयि भावोऽस्ति क्षत्रिया ह्यसि का वदा
न हि मे भीरु विप्रायां मनः प्रसहते गतिम्। भजे त्वामायतापाङ्गे भक्तं भजितुमर्हसि। भुङ्क्ष राज्यं विशालाक्षि बुद्धिं मात्वन्यथा कृथाः
एवमुक्ता तु सा कन्या तेन राज्ञा तमाश्रमे। उवाच हसती वाक्यमिदं सुमधुराक्षरम्
कण्वस्याहं भगवतो दुष्यन्त दुहिता मता। तपस्विनो धृतिमतो धर्मज्ञस्य महात्मनः
अस्वतन्त्रास्मि राजेन्द्र काश्यपो मे गुरुः पिता। तमेव प्रार्थय स्वार्थं नायुक्तं कर्तुमर्हसि
ऊर्ध्वरेता महाभागे भगवाँल्लोकपूजितः। चलेद्धि वृत्ताद्धर्मोपि न चलेत्संशितव्रतः
कथं त्वं तस्य दुहिता संभूता वरवर्णिनी। संशयो मे महानत्र तन्मे छेत्तुमिहार्हसि
यथाऽयमागमो मह्यं यथा चेदमभूत्पुरा। `अन्यथा सन्तमात्मानमन्यथा सत्सु भाषते
स पापेनावृतो मूर्खस्तेन आत्मापहारकः।' शृणु राजन्यथातत्त्वं यथाऽस्मि दुहिता मुनेः
ऋषिः कश्चिदिहागम्य मम जन्माभ्यचोदयत्। `ऊर्ध्वरेता यथासि त्वं कुतस्त्वेयं शकुन्तला
पुत्री त्वत्तः कथं जाता तत्त्वं मे ब्रूहि काश्यप।' तस्मै प्रोवाच भगवान्यथा तच्छृणु पार्थिवा
तप्यमानः किल पुरा विश्वामित्रो महत्तपः। सुभृशं तापयामास शक्रं सुरगणेश्वरम्
तपसा दीप्तवीर्योऽयं स्थानान्मां च्यावयेदिति। भीतः पुरन्दरस्तस्मान्मेनकामिदमब्रवीत्