कृतार्थं मन्यते बाल आत्मनमविचक्षणः । धार्तराष्ट्रो बलस्थं च पश्यत्यात्मानमातुरः
युज्यतां वाहिनी साधु वधसाध्या हि मे मताः । न धार्तराष्ट्राः शक्ष्यन्ति स्थातुं दृष्ट्वा धनञ्जयम्
भीमसेनं च सङ्क्रुद्धं यमौ चापि यमोपमौ । युयुधानं द्वितीयं च धृष्टद्युम्नममर्षणम्
अभिमन्युं द्रौपदेयान्विराटद्रुपदावपि। अक्षौहिणीपतींश्चान्यान्नरेन्द्रान्भीमविक्रमान्
सारवद्बलमस्माकं दुष्प्रधर्षं दुरासदम्। धार्तराष्ट्रबलं सङ्ख्ये हनिष्यति न संशयः
एवमुक्ते तु कृष्णेन संप्राहृष्यन्नरोत्तमाः
तेषां प्रहृष्टमनसां नादः समभवन्महान्। योग इत्यथ सैन्यानां त्वरतां संप्रधावताम्
हयवारणशब्दाश्च नेमिघोषाश्च सर्वतः। शङ्खदुन्दुभिघोषाश्च तुमुलाः सर्वतोऽभवन्
तद्रुग्रं सागरनिभं क्षुब्धं बलसमागमम्। रथपत्तिगजोदयं महोर्मिभिरिवाकुलम्
धावतामाहुयानानां तनुत्राणि च बध्नताम् । प्रयास्यतां पाण्डवानां ससैन्यानां समन्ततः
गङ्गेव पूर्णा दुर्धर्षा समदृश्यत वाहिनी । अग्रानीके भीमसेनो माद्रीपुत्रौ च दंशितौ
सौभद्रो द्रौपदेयाश्च धृष्टद्युम्नस्य पार्षतः । प्रभद्रकाश्च पञ्चाला भीमसेनमुखा ययुः
ततः शब्दः समभवत्सुमुद्रस्येव पर्वणि
फल्गु यच्चं बलं किंचिद्यच्चापि कृशदुर्बलम्। तत्सङ्गृह्य ययौ राजा ये चापि परिचारकाः
उपप्लाव्ये तु पाञ्चाली द्रौपदी सत्यवादिनी । सह स्त्रीभिर्निनवृते दासीदाससमावृता
कृत्वा मूलप्रतीकारं गुल्मैः स्थावरजङ्गमैः । स्कन्धावारेण महता प्रययुः पाण्डुनन्दनाः
ददतो गां हिरण्यं च ब्राह्मणैरभिसंवृताः। स्तूयमाना ययू राजन्रथैर्मणिविभूषितैः
केकया धृष्टकेतुश्च पुत्रः काश्यस्य चाभिभूः । श्रेणिमान्वसुदानश्च शिखण्डी चापराजितः
हृष्टास्तुष्टाः कवचिनः सशस्त्राः समलङ्कृताः। राजानमन्वयुः सर्वे परिवार्य युधिष्ठिरम्
जघनार्धे विराटश्च याज्ञसेनिश्च सौमकिः । सुधर्मा कुन्तिभोजश्च धृष्टद्युम्नस्य चात्मजाः
रथायुतानि चत्वारि हयाः पञ्चगुणास्तथा । पत्तिसैन्यं दशगुणं गजानामयुतानि षट्
अनाधृष्टिश्चेकितानो धृष्टकेतुश्च सात्यकिः । परिवार्य ययुः सर्वे वासुदेवधनञ्जयौ
आसाद्य तु कुरुक्षेत्रं व्यूढानीकाः प्रहारिणः । पाण्डवाः समदृश्यन्त नर्दन्तो वृषभा इव
तेऽवगाह्य कुरुक्षेत्रं शङ्खान्दध्मुररिन्दमाः। तथैव दध्मतुः शङ्खं वासुदेवधनञ्जयौ
पाञ्चजन्यस्य निर्घोषं विस्फूर्जितमिवाशनेः । निशम्य सर्वसैन्यानि समहष्यन्त सर्वशः
शङ्खदुन्दुभिसंहृष्टः सिंहनादस्तरस्विनाम् । पृथिवीं चान्तरिक्षं च सागरांश्चान्वनादयत्
ततो देशे समे स्निग्धे प्रभूतयवसेन्धने। निवेशयामास तदा सेनां राजा युधिष्ठिरः
परिहृत्य श्मशानानि देवतायतनानि च। आश्रमांश्च महर्षीणां तीर्थान्यायतनानि च
मधुरानूषरे देशे शुचौ पुण्ये महामतिः । निवेशं कारयामास कुन्तीपुत्रो युधिष्ठिरः
ततश्च पुनरुत्थाय सुखी विश्रान्तवाहनः । प्रययौ पृथिवीपालैर्वृतः शतसहस्रशः