यमाह कृष्णो दाशार्हः सोऽस्तु सेनापतिर्मम । कृतास्त्रोप्यकृतास्त्रो वा वृद्धो वा यदि वा युवा
एष नो विजये मूलमेष तात विपर्यये। अत्र प्राणाश्च राज्यं च भावाभावौ सुखासुखे
एष धाता विधाता च सिद्धिरत्र प्रतिष्ठिता। यमाह कृष्णो दाशार्हः सोस्तु नो वाहिनीपतिः
ब्रवीतु वदतां श्रेष्ठो निशा समभिवर्तते। ततः सेनापतिं कृत्वा कृष्णस्य वशवर्तिनः
रात्रेः शेषे व्यतिक्रान्ते प्रयास्यामो रणाजिरम् । अधिवासितशस्त्राश्च कृतकौतुकमङ्गलाः
तस्य तद्वचनं श्रुत्वा धर्मराजस्य धीमतः। अब्रवीत्पुण्डरीकाक्षो धनञ्जयमवेक्ष्य ह
ममाप्येते महाराज भवद्भिर्य उदाहृताः। नेतारस्तव सेनाया मता विक्रान्तयोधिनः
सर्व एव समर्था हि तव शत्रुं प्रबाधितुम्। इन्द्रस्यापि भयं ह्येते जनयेयुर्महाहवे
किं पुनर्धार्तराष्ट्राणां लुब्धानां पापचेतसाम्। मयापि हि महाबाहो त्वत्प्रियार्थं महाहवे
कृतो यत्नो महांस्तत्र शमः स्यादिति भारत । धर्मस्य गतमानृण्यं न स्म वाच्या विवक्षताम्
कृतार्थं मन्यते बाल आत्मनमविचक्षणः । धार्तराष्ट्रो बलस्थं च पश्यत्यात्मानमातुरः
युज्यतां वाहिनी साधु वधसाध्या हि मे मताः । न धार्तराष्ट्राः शक्ष्यन्ति स्थातुं दृष्ट्वा धनञ्जयम्
भीमसेनं च सङ्क्रुद्धं यमौ चापि यमोपमौ । युयुधानं द्वितीयं च धृष्टद्युम्नममर्षणम्
अभिमन्युं द्रौपदेयान्विराटद्रुपदावपि। अक्षौहिणीपतींश्चान्यान्नरेन्द्रान्भीमविक्रमान्
सारवद्बलमस्माकं दुष्प्रधर्षं दुरासदम्। धार्तराष्ट्रबलं सङ्ख्ये हनिष्यति न संशयः
एवमुक्ते तु कृष्णेन संप्राहृष्यन्नरोत्तमाः
तेषां प्रहृष्टमनसां नादः समभवन्महान्। योग इत्यथ सैन्यानां त्वरतां संप्रधावताम्
हयवारणशब्दाश्च नेमिघोषाश्च सर्वतः। शङ्खदुन्दुभिघोषाश्च तुमुलाः सर्वतोऽभवन्
तद्रुग्रं सागरनिभं क्षुब्धं बलसमागमम्। रथपत्तिगजोदयं महोर्मिभिरिवाकुलम्
धावतामाहुयानानां तनुत्राणि च बध्नताम् । प्रयास्यतां पाण्डवानां ससैन्यानां समन्ततः
गङ्गेव पूर्णा दुर्धर्षा समदृश्यत वाहिनी । अग्रानीके भीमसेनो माद्रीपुत्रौ च दंशितौ
सौभद्रो द्रौपदेयाश्च धृष्टद्युम्नस्य पार्षतः । प्रभद्रकाश्च पञ्चाला भीमसेनमुखा ययुः
ततः शब्दः समभवत्सुमुद्रस्येव पर्वणि
फल्गु यच्चं बलं किंचिद्यच्चापि कृशदुर्बलम्। तत्सङ्गृह्य ययौ राजा ये चापि परिचारकाः
उपप्लाव्ये तु पाञ्चाली द्रौपदी सत्यवादिनी । सह स्त्रीभिर्निनवृते दासीदाससमावृता
कृत्वा मूलप्रतीकारं गुल्मैः स्थावरजङ्गमैः । स्कन्धावारेण महता प्रययुः पाण्डुनन्दनाः
ददतो गां हिरण्यं च ब्राह्मणैरभिसंवृताः। स्तूयमाना ययू राजन्रथैर्मणिविभूषितैः
केकया धृष्टकेतुश्च पुत्रः काश्यस्य चाभिभूः । श्रेणिमान्वसुदानश्च शिखण्डी चापराजितः
हृष्टास्तुष्टाः कवचिनः सशस्त्राः समलङ्कृताः। राजानमन्वयुः सर्वे परिवार्य युधिष्ठिरम्
जघनार्धे विराटश्च याज्ञसेनिश्च सौमकिः । सुधर्मा कुन्तिभोजश्च धृष्टद्युम्नस्य चात्मजाः