तासां ये पतयः सप्त विख्यातास्तान्निबोधत। द्रुपदश्च विराटश्च धृष्टद्युम्नशिखण्डिनौ
सात्यकिश्चेकितानश्च भीमसेनश्च वीर्यवान् । एते सेनाप्रणेतारो वीराः सर्वे तनुत्यजः
सर्वे वेदविदः शूराः सर्वे सुचिरितव्रताः । ह्रीमन्तो नीतिमन्तश्च सर्वे युद्धविशारदाः
इष्वस्त्रकुशलाः सर्वे तथा सर्वास्त्रयोधिनः । सप्तानामपि यो नेता सेनानां प्रविभागवित्
यः सहेत रणे भीष्णं शरार्चिःपावकोपमम् । तं तावत्सहदेवात्र प्रब्रूहि कुरुनन्दन। स्वगतं पुरुषव्याघ्र को नः सेनापतिः क्षमः
संयुक्त एकदुःखश्च वीर्यवांश्च महीपतिः। यं समाश्रित्य धर्मज्ञं स्वमंशमनुयुञ्ज्महे
मत्स्यो विराटो बलवान्कृतास्त्रो युद्धदुर्मदः । प्रसहिष्यति सङ्ग्रामे भीष्मं तांश्च महारथान्
तथोक्ते सहदेवेन वाक्ये वाक्यविशारदः । नकुलोऽनन्तरं तस्मादिदं वचनमाददे
वयसा शास्त्रतो धैर्यात्कुलेनाभिजनेन च । ह्रीमान्बलान्वितः श्रीमान्सर्वशास्त्रविशारदः
वेद चास्त्रं भारद्वाजाहुर्धर्षः सत्यसङ्गरः । यो नित्यं स्पर्धते द्रोणं भीष्मं चैव महाबलम्
श्लाघ्यः पार्थिववंशस्य प्रमुखे वाहिनीपतिः। पुत्रपौत्रेः परिवृतः शतशाख इव द्रुमः
यस्तताप तपो घोरं सदारः पृथिवीपतिः । रोषाद्द्रोणविनाशाय वीरः समितिशोभनः
पितेवास्मान्समाधत्ते यः सदा पार्थिवर्षभः । श्वशुरो द्रुपदोऽस्माकं सेनाग्रं स प्रकर्षतु
स द्रोणभीष्मावायातौ सहेदिति मतिर्मम । स हि दिव्यास्त्रविद्राजा सखा चाङ्गिरसो नृपः
माद्रीसुताभ्यामुक्ते तु स्वमते कुरुनन्दनः। वासविर्वासवसमः सव्यसाच्यब्रवीद्वचः
योयं तपःप्रभावेन ऋषिसन्तोषणेन च । दिव्यः पुरुष उत्पन्नो ज्वालावर्णो महाभुजः
धनुष्मान्कवची खङ्गी रथमारुह्य दंशितः । दिव्यैर्हयवरैर्युक्तमग्निकुण्डात्समुत्थितः
गर्जन्निव महामेघो रथघोषेण वीर्यवान् । सिंहसंहननो वीरः सिंहतुल्यपराक्रमः
सिंहोरस्कः सिंहभुजः सिंहवक्षा महाबलः । सिंहप्रगर्जनो वीरः संहस्कन्धो महाद्युतिः
शुभ्रूः सुदंष्ट्रः सुहनुः सुबाहुः सुमुखोऽकृशः । सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः
अभेद्यः सर्वशस्त्राणां प्रभिन्न इव वारणः । जज्ञे द्रोणविनाशाय सत्यवादी जितेन्द्रियः
धृष्टद्युम्नमहं मन्ये सहेद्भीष्मस्य सायकान्। वज्राशनिसमस्पर्शान्दीप्तास्यानुरगानिव
यमदूतसमान्वेगे निपाते पावकोपमान् । रामेणाजौ विषिहितान्वज्रनिष्पेषदारुणान्
पुरुष तं न पश्यामि यः सहेत महाव्रतम्। धृष्टद्युम्नमृते राजन्निति मे धीयते मतिः
क्षिप्रहस्तश्चित्रयोधी मतः सेनापतिर्मम । अभेद्यकवचः श्रीमान्मातङ्ग इव यूथपः
अर्जुनेनैवमुक्ते तु भीमो वाक्यं समाददे।' वधार्थं यः समुत्पन्नः शिखण्डी द्रुपदात्मजः । वदन्ति सिद्धा राजेन्द्र ऋषयश्च समागताः
यस्य सङ्ग्राममध्ये तु दिव्यमस्त्रं प्रकुर्वतः । रूपं द्रक्ष्यन्ति पुरुषा रामस्येव महात्मनः
न तं युद्धे प्रपश्यामि यो भिन्द्यात्तु शिखण्डिनाम् । शस्त्रेण समरे राजन्सन्नद्वं स्यन्दने स्थितम्
द्वैरथे समरे नान्यो भीष्मं हन्यान्महाव्रतम् । शिखण्डिनमृते वीरं स मे सेनापतिर्मतः
सर्वस्य जगतस्तात सारासारं बालाबलम् । सर्वं जानाति धर्मात्मा मतमेषां च केशवः