ततस्ते पृथिवीपालाः प्रययुः सहसैनिकाः । भीष्मं सेनापतिं कृत्वा संहृष्टाः कालचोदिताः
अक्षौहिण्यो दशैका च कौरवाणां समागताः । तासां प्रमुखतो भीष्मस्तालकेतुर्व्यरोचत
यदत्र युक्तं प्राप्तं च तद्विधत्स्व विशांपते । उक्तं भीष्मेण यद्वाक्यं द्रोणेन विदुरेण च
गान्धार्या धृतराष्ट्रेण समक्षं मम भारत । एतत्ते कथितं राजन्यद्वृत्तं कुरुसंसदि
साम चादौ प्रयुक्तं मे राजन्सौभ्रात्रमिच्छता । अभेदायास्य वंशस्य प्रजानां च विवृद्धये
पुनर्भेदश्च मे युक्तो यदा साम न गृह्यते। कर्मानुकीर्तनं चैव देवमानुपसंहितम्
यदा नाद्रियते वाक्यं सामपूर्वं सुयोधनः । तदा मया समानीय भेदिताः सर्वपार्थिवाः
अद्भुतानि च घोराणि दारुणानि च भारत। अमानुषाणि कर्माणि दर्शितानि मया विभो
निर्भर्त्सयित्वा राज्ञस्तांस्तृणीकृत्य सुयोधनम् । राधेयं भीषयित्वा च सौबलं च पुनः पुनः
द्यूततो धार्तराष्ट्राणां निन्दां कृत्वा तथा पुनः। भेदयित्वा नृपास्नर्वान्वाग्भिर्मन्त्रेम चासकृत्
पुनः सामाभिसंयुक्तं संप्रदानमथाब्रुवम्। अभेदात्कुरुवंशस्य कार्ययोगात्तथैव च
ते शूरा धृतराष्ट्रस्य भीष्मस्य विदुरस्य च । तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानमधश्चराः
प्रयच्छन्तु च ते राज्यमनीशास्ते भवन्तु च। यथाह राजा गाङ्गेयो विदुरश्च हितं तव
सर्वं भवतु ते राज्यं पञ्च ग्रामान्विसर्जय। अवश्यं भरणीया हि पितुस्ते राजसत्तम
एवमुक्तोऽपि दुष्टात्मा नैव भागं व्यमुञ्चत। दण्डं चतुर्थं पश्यामि तेषु पापेषु नान्यथा
निर्याताश्च विनाशाय कुरुक्षेत्रं नराधिपाः । एतत्ते कथितं राजन्यद्वृत्तं कुरुसंसदि
न ते राज्यं प्रयच्छन्ति विना युद्धेन पाण्डव । विनाशहेतवः सर्वे प्रत्युपस्थितमृत्यवः
जनार्दनवचः श्रुत्वा धर्मराजो युधिष्ठिरः। भ्रातॄनुवाच धर्मात्मा समक्षं केशवस्य ह
श्रुतं भवद्भिर्यद्वृत्तं सभायां कुरुसंसदि । केशवस्यापि यद्वाक्यं तत्सर्वमवधारितम्
तस्मात्सेनाविभागं मे कुरुध्वं नरसत्तमाः । अक्षौहिण्यश्च सप्तैताः समेता विजयाय वै
तासां ये पतयः सप्त विख्यातास्तान्निबोधत। द्रुपदश्च विराटश्च धृष्टद्युम्नशिखण्डिनौ
सात्यकिश्चेकितानश्च भीमसेनश्च वीर्यवान् । एते सेनाप्रणेतारो वीराः सर्वे तनुत्यजः
सर्वे वेदविदः शूराः सर्वे सुचिरितव्रताः । ह्रीमन्तो नीतिमन्तश्च सर्वे युद्धविशारदाः
इष्वस्त्रकुशलाः सर्वे तथा सर्वास्त्रयोधिनः । सप्तानामपि यो नेता सेनानां प्रविभागवित्
यः सहेत रणे भीष्णं शरार्चिःपावकोपमम् । तं तावत्सहदेवात्र प्रब्रूहि कुरुनन्दन। स्वगतं पुरुषव्याघ्र को नः सेनापतिः क्षमः
संयुक्त एकदुःखश्च वीर्यवांश्च महीपतिः। यं समाश्रित्य धर्मज्ञं स्वमंशमनुयुञ्ज्महे
मत्स्यो विराटो बलवान्कृतास्त्रो युद्धदुर्मदः । प्रसहिष्यति सङ्ग्रामे भीष्मं तांश्च महारथान्
तथोक्ते सहदेवेन वाक्ये वाक्यविशारदः । नकुलोऽनन्तरं तस्मादिदं वचनमाददे
वयसा शास्त्रतो धैर्यात्कुलेनाभिजनेन च । ह्रीमान्बलान्वितः श्रीमान्सर्वशास्त्रविशारदः
वेद चास्त्रं भारद्वाजाहुर्धर्षः सत्यसङ्गरः । यो नित्यं स्पर्धते द्रोणं भीष्मं चैव महाबलम्