तं पिता परमक्रुद्धो ययातिर्नहुषात्मजः । शशाप पुत्रं गान्धारे राज्याच्चापि व्यरोपयत्
ये चैनमन्ववर्तन्त भ्रातरो बलदर्पिताः । शशाप तानपि क्रुद्धो ययातिस्तनयानथ
यवीयांसं ततः पुरुं पुत्रं स्ववशवर्तिनम् । राज्ये निवेशयामास विधेयं नृपसत्तमः
एवं ज्येष्ठोऽप्यथोत्सिक्तो न राज्यमभिजायते । यवीयांसोपि जायन्ते राज्यं वृद्धोपसेवया
तथैव सर्वधर्मज्ञः पितुर्मम पितामहः । प्रतीपः पृथिवीपालस्त्रिषु लोकेषु विश्रुतः
तस्य पार्थिवसिंहस्य राज्यं धर्मेण शासतः । त्रयः प्रजज्ञिरे पुत्रा देवकल्पा यशस्विनः
देवापिरभवच्छ्रेष्ठो बाह्लीकस्तदनन्तरम् । तृतीयः शन्तनुस्तात धृतिमान्मे पितामहः
देवापिस्तु महातेजास्त्वग्दोषी राजसत्तमः । धार्मिकः सत्यवादी च पितुः शुश्रूषणे रतः
पौरजानपदानां च संमतः साधुसत्कृतः । सर्वेषां बालवृद्धानां देवापिर्हृदयङ्गमः
वदान्यः सत्यसन्धश्च सर्वभूतहिते रतः । वर्तमानः पितुः शास्त्रे ब्राह्मणानां तथैव च
बाह्लीकस्य प्रियो भ्राता शन्तनोश्च महात्मनः । सौभ्रात्रं च परं तेषां सहितानां महात्मनाम्
अथ कालस्य पर्याये वृद्धो नृपतिसत्तमः । संभारानभिषेकार्थं कारयामास शास्त्रतः
कारयामास सर्वाणि मङ्गलार्थानि वै विभुः । तं ब्राह्मणाश्च वृद्धाश्च पौरजानपदैः सह
सर्वे निवारयामासुर्देवापेरभिषेचनम् । स तच्छ्रुत्वा तु नृपतिरभिषेकनिवारणम्। अश्रुकण्ठोऽभवद्राजा पर्यशोचत चात्मजम्
एवं वदान्यो धर्मज्ञः सत्यसन्धश्च सोऽभवत्। प्रियः प्रजानामपि संस्त्वग्दोषेण प्रदूषितः
हीनाङ्गं पृथिवीपालं नाभिनन्दन्ति देवताः। इति कृत्वा नृपश्रेष्ठं प्रत्यषेधन्द्विजर्षभाः
ततः प्रव्यथिताङ्गोऽसौ पुत्रशोकसमन्वितः । ममार तं मृतं दृष्ट्वा देवापिः संश्रितो वनम्
बाह्लीको मातुलकुलं त्यक्त्वा राज्यं समाश्रितः । पितृभ्रातॄन्परित्यज्य प्राप्तवान्परमर्धिमत्
बाह्लीकेन त्वनुज्ञातः शन्तनुर्लोकविश्रुतः । पितर्युपरते राजन्राजा राज्यमकारयत्
तथैवाहं मतिमता परिचिन्त्येह पाण्डुना। ज्येष्ठः प्रभ्रंशितो राज्याद्धीनाङ्ग इति भारत
पाण्डुस्तु राज्यं संप्राप्तः कनीयानपि सन्नृपः । विनाशे तस्य पुत्राणामिदं राज्यमरिन्दम
मय्यभागिनि राज्याय कथं त्वं राज्यमिच्छसि। अराजपुत्रो ह्यस्वामी परस्वं हर्तुमिच्छसि
युधिष्ठिरो राजपुत्रो महात्मा न्यायागतं राज्यमिदं च तस्य। स कौरवस्यास्य कुलस्य भर्ता प्रशासिता चैव महानुभावः
स सत्यसन्धः स तथाऽप्रमत्तः शास्त्रे स्थितो बन्धुजनस्य साधुः। प्रियः प्रजानां सुहृदानुकम्पी जितेन्द्रियः साधुजनस्य भर्ता
क्षमा तितिक्षा दम आर्जवं च सत्यव्रतत्वं श्रुतमप्रमादः । भूतानुकम्पा ह्यनुशासनं च युधिष्ठिरे राजगुणाः समस्ताः
अराजपुत्रस्त्वमनार्यवृत्तो लुब्धः सदा बन्धुषु पापबुद्धिः । क्रमागतं राज्यमिदं परेषां हर्तुं कथं शक्ष्यसि दुर्विनीत
प्रयच्छ राज्यार्धमपेतमोहः सवाहनं त्व सपरिच्छदं च । ततोऽवशेषं तव जीवितस्य सहानुजस्यैव भवेन्नरेन्द्र
एवमुक्ते तु भीष्मेण द्रोणेन विदुरेण च। गान्धार्या धृतराष्ट्रेण न वै मन्दोऽन्वबुद्ध्यत
अवधूयोत्थितो मन्दः क्रोधसंरक्तलोचनः। अन्वद्रवन्त तं पश्चाद्राजानस्त्यक्तजीविताः
आज्ञापयच्च राज्ञस्तान्पार्थिवान्नष्टचेतसः । प्रयात वै कुरुक्षेत्रं पुष्योऽद्येति पुनः पुनः