प्रसीद राजशार्दूल विनाशो दृश्यते महान् । पाण्डवानां कुरूणां च राज्ञाममिततेजसाम्
विररामैवमुक्त्वा तु विदुरो दीनमानसः । प्रध्यायमानः स तदा निःश्वसंश्च पुनः पुनः
ततोऽस्य राज्ञः सुबलस्य पुत्री धर्मार्थयुक्तं कुलनाशमीता। दुर्योधनं पापमतिं नृशंसं राज्ञां समक्षं सुतमाह कोपात्
ये पार्थिवा राजसभां प्रविष्टा ब्रह्मर्षयो ये च सभासदोऽन्ये। श्रृण्वन्तु वक्ष्यामि तवापराधं पापस्य सामात्यपरिच्छदस्य
राज्यं कुरूणामनुरूपभोज्यं क्रमागतो नः कुलधर्म एषः। त्वं पापबुद्धेऽतिनृशंसकर्मन् राज्यं कुरूणामनयाद्विहंसि
राज्ये स्थितो धृतराष्ट्रो मनीषी तस्यानुजो विदुरो दीर्घदर्शी । एतावतिक्रम्य कथं नृपत्वं दुर्योधन प्रार्थयसेऽद्य मोहात्
राजा च क्षत्ता च महानुभावौ भीष्मे स्थिते परवन्तौ भवेताम् । अयं तु धर्मज्ञतया महात्मा न राज्यकामो नृवरो नदीजः
राज्य तु पाण्डोरिदमप्रधृष्यं तस्याद्य पुत्राः प्रभवन्ति नान्ये। राज्यं तदेतन्निखिलं पाण्डवानां पैतामहं पुत्रपौत्रानुगामि
यद्वै ब्रूते कुरुमुख्यो महात्मा देवव्रतः सत्यसन्धो मनीषी । सर्वं तदस्माभिरहत्य कार्यं राज्यं स्वधर्मान्परिपालयद्भिः
अनुज्ञया चाथ महाव्रतस्य ब्रूयान्नृपोऽयं विदुरस्तथैव। कार्यं भवेत्तत्सुहृद्भिर्नियोज्यं धर्मं पुरस्कृत्य सुदीर्घकालम्
न्यायागतं राज्यमिदं कुरूणां युधिष्ठिरः शास्तु वै धर्मपुत्रः । प्रचोदितो धृतराष्ट्रेण राज्ञा पुरस्कृतः शान्तनवेन चैव
एवमुक्ते तु गान्धार्या धृतराष्ट्रो जनेश्वरः। दुर्योधनमुवाचेदं राजमध्ये जनाधिप
दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि पुत्रक । तथा तत्कुरु भद्रं ते यद्यस्ति पितृगौरवम्
सोमः प्रजापतिः पूर्वं कुरूणां वंशवर्धनः । सोमाद्बभूव षष्ठोऽयं ययातिर्नहुषात्मजः
तस्य पुत्रा बभूवुर्हि पञ्च राजर्षिसत्तमाः । तेषां यदुर्महातेजा ज्येष्ठः समभवत्प्रभुः
पूरुर्यवीयांश्च ततो योऽस्माकं वंशवर्धनः। शर्मिष्ठया संप्रसूतो दुहित्रा वृषपर्वणः
यदुश्च भरतश्रेष्ठ देवयान्याः सुतोऽभवत्। दौहित्रस्तात शुक्रस्य काव्यस्यामिततेजसः
यादवानां कुलकरो बलवान्वीर्यसंमतः । अवमेने स तु क्षत्रं दर्पपूर्णः सुमन्दधीः
न चातिष्ठत्पितुः शस्त्रि बलदर्पविमोहितः । अवमेने च पितरं भ्रातॄंश्चाप्यपराजितः
पृथिव्यां चतुरन्तायां यदुदेवाभवद्बली । वशे कृत्वा स नृपतीन्न्यवसन्नागसाह्वये
तं पिता परमक्रुद्धो ययातिर्नहुषात्मजः । शशाप पुत्रं गान्धारे राज्याच्चापि व्यरोपयत्
ये चैनमन्ववर्तन्त भ्रातरो बलदर्पिताः । शशाप तानपि क्रुद्धो ययातिस्तनयानथ
यवीयांसं ततः पुरुं पुत्रं स्ववशवर्तिनम् । राज्ये निवेशयामास विधेयं नृपसत्तमः
एवं ज्येष्ठोऽप्यथोत्सिक्तो न राज्यमभिजायते । यवीयांसोपि जायन्ते राज्यं वृद्धोपसेवया
तथैव सर्वधर्मज्ञः पितुर्मम पितामहः । प्रतीपः पृथिवीपालस्त्रिषु लोकेषु विश्रुतः
तस्य पार्थिवसिंहस्य राज्यं धर्मेण शासतः । त्रयः प्रजज्ञिरे पुत्रा देवकल्पा यशस्विनः
देवापिरभवच्छ्रेष्ठो बाह्लीकस्तदनन्तरम् । तृतीयः शन्तनुस्तात धृतिमान्मे पितामहः
देवापिस्तु महातेजास्त्वग्दोषी राजसत्तमः । धार्मिकः सत्यवादी च पितुः शुश्रूषणे रतः
पौरजानपदानां च संमतः साधुसत्कृतः । सर्वेषां बालवृद्धानां देवापिर्हृदयङ्गमः
वदान्यः सत्यसन्धश्च सर्वभूतहिते रतः । वर्तमानः पितुः शास्त्रे ब्राह्मणानां तथैव च